Vyakulata
व्याकुलता
।।मङ्गलाचरणम्।।
ॐ स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे।
अवतारवरिष्ठाय रामकृष्णाय ते नमः।।
प्रथमदृश्यम्
(रङ्गमञ्चे एकाकी कपोलहस्तः चिन्तानिमग्नः गदाधर उपविष्टः। इतस्ततः पुस्तकानि विकीर्णानि सन्ति। केचित् किशोराः हुक्काद्वारा धूमपाने रताः, केचिच्च क्रीडारताः। तदा रामकुमारस्य प्रवेशः।)
रामकुमारः – गदाइ, गदाइ, अयि गदाइ! कुत्र गतः। किं करोषि अत्रोपविश्य। कलिकातातः आगत्य त्वाम् अन्विष्टवान्। किन्तु कोपि वक्तुं न शक्तवान्। अत एव त्वाम् अन्विष्यन् अत्रोपस्थितोहम्।
गदाधरः – (साश्चर्यम्) अग्रज! कदा आगतो भवान् कलिकातातः?
किशोरः – अरे महाशय, कलिकातातः कदा प्रत्यागतो भवान्। तव प्रियः गदाधरः सम्यगेव अस्ति।
रामकुमारः – (सक्रोधम्) गदाधरः कथम् अस्ति इति त्वां तु पृच्छामि।
किशोरः – कोपस्य किं कारणम् महोदय।
रामकुमारः – अध्यनादिकं किमपि नास्ति वा। अत्र वृथा क्रीडायां कालः याप्यते। गच्छ इतः सम्प्रति एव। (स्वगतम्) युष्माभिः सम्बन्धेन मम अनुजः प्रभावितः मा भवतु इति एव मे चिन्ता।
किशोरः भवतः अनुजः गदाधरः तु मनोरुग्णः जायमानः इति भाति। स तु अस्माभिः सह न क्रीडति, न तावत् भाषते, अस्माकं यत्र रुचिः तत्र तस्य रुचिः नास्ति, प्रायः कुत्रापि रुचिः नास्ति। सदैव अन्यमनस्कः दृश्यते।
रामकुमारः – यूयम् किं सर्वेपि सम्यक् स्थ। अस्मिन् वयति अध्ययनं त्यक्त्वा क्रीडासक्ताः। गच्छत तावत्। गत्वा अध्ययनादिकं कुरुत।
किशोरः – हा हन्त। पलायनम् कर्तव्यम्। अन्यथा श्रीमतां प्रकोपाग्नौ भस्मीभविष्यामि।
गदाधरः – (पुनः पच्छति।) अग्रज, कदा आगतोसि त्वम्। (एतदुक्त्वा प्रणन्तुं प्रस्थितं तम् अग्रजः अश्लिक्षत्।)
रामकुमारः – अरे मास्तु मास्तु गदाइ। अधुनैव आगतोहम् कलिकातातः। बहूनि दिनानि त्वां न अपश्यम्। तस्मात् ग्राम आगन्तव्यः इति चिन्ता आसीत्।
गदाधरः – उत्तममेव साधितवान् भवान्। कतिचन दिनानि यावत् ममापि मनः भवद्विषये चिन्तामग्नम् आसीत्।
रामकुमारः – अपि त्वं कुशली?
गदाधरः – आम् अग्रज। अपि भवान् कुशली?
रामकुमारः – अधुनाहं वयोवृद्धः। एकाकी च सांसारिकक्लेशं वोढुमसमर्थः। अतः त्वं पठनं समाप्य कामपि जीविकामर्जय। सांसारिकभारं च वह।
(गदाधरः अवनतमुखः स्थितः)
रामकुमारः – किं जातम्? कुत एवं चिन्ताक्रान्तो दृश्यसे?
गदाधरः – अग्रज! अर्थकरविद्यालाभे नास्ति मे अभिरुचिः।
रामकुमारः – परन्तु सांसारिकजीवने इयं विद्या प्रपञ्चस्य चालनाय त्वया अवश्यम् अङ्गीकर्तव्या खलु।
गदाधरः – सांसारिकं भोगसुखं मनः नैव गच्छति अग्रज।
रामकुमारः – कुत एवं कथयसि? कापि अनुचिता घटना घटिता वा।
गदाधरः – मिथ्या प्रतिभाति संसारोऽयम्। सारं न पश्यामि संसारे।
रामकुमारः – शृणु। शरीररक्षणाय अन्नव्यवस्था सम्पादनीया। तदर्थं धनं तु आवश्यकमेव।
गदाधरः – पितरमहं दृष्टवान्। अल्पेन सन्तुष्टः, सदा भगवतः स्मरणे मनने च निमग्नः अतीव आनन्देन जीवनं यापयति स्म। अपरत्र अन्यान् पश्यामि। धनमनुधावन्ति सदा।
गदाधरः – पूर्वम् पितरम् अपश्यम्। स स्वल्पेन एव धनेन सन्तुष्ट आसीत्। सर्वदैव भगवच्चिन्तने निमग्नः अपारमानन्दम् अनुभवति स्म। अन्ये तु सुखलिप्सया धनं प्रति धावन्ति इति दरीदृश्यन्ते। केचित् व्यर्थक्रीडादिषु आसक्ताः समयस्य अपव्ययं कुर्वन्ति। ऐहिकसुखलाभाय किं किं न कुर्वन्ति। परन्तु शान्तिः छाया इति मध्याह्ने समीपम् आयाति चेत् क्षयं याति। अपराह्णे पुनः वृद्धिं गच्छति परन्तु दूरं गच्छति।
रामकुमारः – अवितथम् वदसि त्वम्। तथापि साम्प्रतिके काले पिता इव वर्तसे चेत् न साधीयः। कालः परिवर्तते। व्यवहारबोधः सुतराम् आवश्यकः। अत एव अध्यनाकिम् अपि।
गदाधरः – तथापि एतादृशी विद्या किं जीवने अस्मिन् परमानन्दप्रदाने समर्था?
रामकुमारः – तथा न समर्था, तथापि ….
गदाधरः – तर्हि नैव आवश्यकी ईदृशी विद्या।
रामकुमारः – एवं चेत् न्यायज्योतिःशास्त्रादीन् अधीष्व, तत्र सर्वं प्राप्स्यसि।
गदाधरः – शास्त्रादिषु यज्ज्ञानम् अन्तर्हितं तत्तु अन्यानुभूतिप्रसूतम्। तन्नैव मम। मे मनस्तु तदेव जिज्ञासते, येन विज्ञातेन सर्वमिदं विज्ञातं भवतीति।
रामकुमारः – कथमिव भाषसे। तव मस्तकविभ्रमो जातो वा? अत्र एकाकी स्थास्यसि चेत् उन्मत्तो भविष्यसि। मया साकं कलिकातां गच्छ। तत्र कार्ये मम सहायो भव वेदादिकं च पठ।
गदाधरः – यथा काम्यते भवता। भवता सह अहं गमिष्यामि। परन्तु अध्ययनं नैव चिकीर्षामि।
रामकुमारः – अस्तु, अधुना अन्तः प्रविश। (उभयोः प्रस्थानम्)
द्वितीयं दृश्यम्
नेपथ्ये – राज्ञ्या राममण्या जानबाजारस्थः प्रासादः।
(राज्ञ्या राममण्या सादरम् आमन्त्रिताः पण्डितप्रवराः काल्याः मूर्तिप्रतिष्ठायाः निर्णयाय उपस्थिताः। मञ्चे उपस्थिताः परस्परम् किमपि अस्पष्टम् आलपन्ते। तदानीम् सानुचरः मथुरानाथः प्रविशति।)
मथुरः– भवतः आगतान् वीक्ष्य मुदम् अनुभवामि। सादरं वन्दे समेभ्यः।
पण्डिताः – (वरमुद्रया) स्वस्ति। स्वस्ति।
प्र.पण्डितः – (कासमानः) नैके पण्डिताः अत्र आगन्तुम् नेच्छन्ति।
मथुरः – किं कारणं स्यात् अनीहायाः।
द्वि.पण्डितः – ते तु जातिभेदभावाभिभूताः शास्त्रविधानं प्रधानं मन्यमानाः, दोषदूषणशङ्काकुलाः नात्र प्रवर्तन्ते।
मथुरः – अवगतम् , अवगतम्। एवं चेत् भवन्तः …
प्र.पण्डितः – (काशमानः) वयं दयाद्रहृदयाः परोपकारशरीराः। अत एव …
मथुरः – तद् भवतां महतां माहात्म्यम्। भवन्तः नूनं जानन्ति भवताम् आह्वाने को हेतुः इति।
द्वि.पण्डितः – तथापि यदि भवान् स्वयं स्पष्टं प्रकटयति चेद् उत्तमम्।
मथुरः – काल्याः परमभक्तिमती राज्ञी रासमणिः भागीरथ्याः पूर्वकूले दक्षिणेश्वरे सुविशालं मन्दिरमेकं विनिर्मितवती। सा अधुना तस्मिन् मन्दिरे भवतारिणीविग्रहस्य प्रतिष्ठां चिकीर्षति। तत्र देव्याः नित्यपूजाभोगरागादिव्यवस्थाम् अपि चिकीर्षति। अस्मिन् विषये भवन्तः कृपालुतया विधानं श्रावयन्तु। (पण्डिताः परस्परम् आलामानाः स्थिताः)
१.पण्डितः – श्रीमन्, यत् चिकीर्षितं तत् अति कठिनं भाति। राज्ञी तु जात्या शूद्रा।
२.पण्डितः – किञ्च कैवर्तानां देवालये देवीपूजाभोगादीनाम् विधानम् ब्रुवाणाः वयं नरकं प्राप्नुयाम।
मथुरः – ईश्वरः जातिसृष्टिं न कृतवान्। न वा सामाजिकप्रथाः सृष्टवान्। भगवान् कदापि नोक्तवान् यत् तस्मै भोगरागादिकं निवेद्यते चेत् स न स्वीकरोति इति।
१.पण्डितः – भवान् शास्त्रवचनानि बोद्धुं न शक्नोति।
मथुरः – शास्त्रकर्तारः किं निर्दयाः आसन्। अथवा स्वार्थलिप्ताः ते इदं प्रतिपादितवन्तः यत् ईश्वरः एव उच्चवर्णीयानाम् उच्चाधिकारान् कृतवान् इति।
२.पण्डितः – तद् यद्वा भवतु नाम। यदि शास्त्रवचनम् उल्लङ्घ्य भोगरागादिव्यवस्थापनं भवेत् तर्हि कोपि ब्राह्मणः देवालये प्रसादादिकं न ग्रहीष्यति।
मथुरः – अयि पण्डितप्रवराः, राज्ञ्याः इच्छा यत् शास्त्रविधिम् अनुसृत्य एव इदं शुभकार्यं भवतु। अत एव कृपया उपायं कञ्चिद् आविष्कुर्वन्तु।
१.पण्डितः – कदापि न कदापि न। शास्त्रविधिम् उत्सृज्य किमपि वक्तुं न शक्नुमो वयम्। न वा वन्द्योपाध्यायमहाशय (अपरपण्डितं प्रति दृष्ट्वा।)
२.पण्डितः – भवान् युक्तमेव भाषते। शूद्रेण मन्दिरस्य प्रतिष्ठा, पूजा, भोगरागादिनिवेदनम् अश्रुतपूर्वमेव इति न सन्देहलवावकाशः।
मथुरः – भवन्तः साधयन्तु तावत्। अन्यः कोपि मार्गम् उपदिशति न वा इति द्रष्टुम् प्रयते।
१.पण्डितः – किम् उक्तवान्। अन्यः कश्चिद् विधानं कुर्यात्। हा हा हा (अट्टहासः)
२.पण्डितः – देशे वयमेव शास्त्रवित्सु श्रेष्ठाः। वयम् यत्र विधानं नास्ति इति वदामः तत्र को वा अन्यः समर्थः भवेत्।
मथुरः – भवतु नाम। भवन्तः साधयन्तु तावत्। भवतारिणी किं वाञ्छति इति द्रक्ष्यामः।
१.पण्डितः – आगच्छतु वन्द्योपाध्यायवर्य।
२.पण्डितः – आम् आम्। तदेव अहमपि चिन्तयामि।
मथुरः – भवन्तः तद्गृहं गच्छन्तु। तत्र भवतां दक्षिणा पाथेयादाकिं च व्यवस्थापितम् अस्ति। (कर्मचारिणं प्रति) अरे, त्वम् एतान् आदाय तत्र गच्छ।
कर्मचारी – यथा आज्ञापयति देव।
पण्डितगणः – कल्याणमस्तु। (पण्डितानां कर्मचारिभिः सह प्रस्थानम्)
-
मथुरः – (स्वगतम्) हे भवतारिणि, तव इच्छानुसारेण एव रासमणिः मन्दिरं निर्मितवती। तस्मिन् मन्दिरे किमपि नैव्येद्यादिकम् अपि भवत्यै निवेदयितुं न शक्ष्यामः। त्वमेव किमपि कुरु। (तावता नायेबवर्यः प्रविशति।)
नायेबः – अभिवादये प्रभो।
मथुरः – पण्डितेभ्यः यथायोग्यम् दक्षिणादिकं दत्तं न वा।
नायेबः – नूनं श्रीमन्। तेभ्यः किमपि किमपि श्रुतवान्।
मथुरः – सर्वमेव तु श्रुतं तावत्। अहम् एकान्ते स्थातुमिच्छामि किञ्चित् कालम्। गच्छ तावत्।
नायेबः – प्रभो, झामापुकुरे रामकुमार–चट्टोपाध्यायः नाम कश्चित् सदाचारी ब्राह्मणः चतुष्पाठीं चालयति। सः अतीव दयालुः इति श्रूयते। सः अवश्यमेव अत्र उपायं कञ्चित् करिष्यतीति मन्ये।
मथुरः – विलम्बः कुतस्तर्हि। सद्यः एव तत्र गच्छ। सानुनयम् अनुरोधं कुरु। समग्रं विषयं सम्यक् प्रकटय। उपायस्तु आवश्यकः एव। अन्यथा राज्ञाः प्रयासः व्यर्थो भवेत्।
नायेबः – एष गच्छामि श्रीमन्। देवीकृपया निश्चयेन सुफलं स्यादिति मम मनसि भावना उदेति। (द्वयोरपि प्रस्थानम्)
(दीपनिर्वापणम् ♚❍)
तृतीय दृश्यम्
(झामापुकुरे रामकुमारः छात्रान् पाठयति स्म। …।)
नेपथ्ये – झामापुकुरम्
रामकुमारः – कामारपुकुरं गतः आसम्। ततः एव कलिकाताम् समागतः अहम्। तदद्य संस्कृतं पाठयामि। शृणुत तावत्।
छात्राः – आचार्य, संस्कृतं किमर्थं पठनीयम् इति महती जिज्ञासा अस्माकम्।
रामकुमारः – प्रागैतिहासिककालतः भारते यद् विद्याचिन्तम् समभवत् तद् सर्वमपि संस्कृते एव निबद्धम् अस्ति। वेदात् आरभ्य सकलानि शास्त्राणि संस्कृतभाषया एव लिखितानि सन्ति। संस्कृते धर्मः, अध्यात्मम्, राजनीतिः, गणितम्, विज्ञानम् इत्यादयः सर्वेपि विषयाः लिखिताः सन्ति। अतः एतस्य सम्यक् ज्ञानार्थं सस्कृतम् अनिवार्यम्।
छात्राः – ओम् महोदय। (नायेबस्य प्रवेशः)
रामकुमारः – प्रियच्छात्राः, यूयम् इदानीं शान्तिपाठं कुरुत। कश्चिद् आगतोस्ति। तेन सह वार्तालापं करोमि तावत्।
(नायेबस्य आगमनात् लब्धावकाशाः सर्वे छात्राः शान्तिमन्त्रान् उच्चार्य प्रणामपुरस्सरं प्रस्थानं कृतवन्तः)
नायेबः – हे विप्रवर रामकुमारवर्य गृहाण मे प्रणामान्। केचित् प्रश्नाः आसन्।
रामकुमारः– (उत्तिष्ठन्) भवतः परिचयः? कुतः समागतोसि। किं वा भवदागमनस्य प्रयोजनम्।
नायेबः – अयि मान्यवर, राज्ञ्या रासमणेः व्यवस्थापकोऽहम्।
रामकुमारः– जानबाजरस्था सा अभिजाता महीयसी राज्ञी रासमणिदेवी।
नायेबः – आम्, सत्यम्। तस्या आदेशेनैव अत्रागमनम् मम।
रामकुमारः– प्रकटय तावद् अभिप्रायम्।
नायेबः – अयि, प्रबला विपद् तस्याः।
रामकुमारः– विपद्! किम् अभवत् राजमातुः?
नायेबः – अयि, शरीरेण नीरोगापि सा मनसा चिन्ताकुला।
रामकुमारः– किमत्र कारणं स्यात्?
नायेबः – अयि, गङ्गातटे दक्षिणेश्वरे मातुः भवतारिण्याः मन्दिरं प्रतिष्ठाप्य तत्र सा नित्यपूजासेवादिव्यवस्थां चिकीर्षति।
रामकुमारः– इयं तु अतीव आनन्दकरी वार्ता भोः
नायेबः – किन्तु…।
रामकुमारः– किन्तु किम्?
नायेबः – किन्तु सा जात्या कैवर्ता, तस्माद् कोपि पण्डितः नापि पूजायै लभ्यते नापि उपायं न निर्दिशति, सर्वे बाधामेव जनयन्ति।
रामकुमारः– अहह बुद्धम्।
नायेबः – (रामकुमारस्य पादौ गृहीत्वा) विप्रवर, भवता कश्चिदपि उपायः प्रकल्पनीय एव। कृपया राजमातुः मानं रक्षतु, जगन्मातुः पूजा निर्विघ्नं चलतु इति कमपि उपायम् अन्विषतु भवान्। महान् उपकारः स्यात्, महती दया स्यात्।
रामकुमारः– अस्तु, उत्तिष्ठ तावत्। उपायो विद्यते एकः।
नायेबः – उपायो विद्यते? किं सत्यम् उपायो विद्यते? वदतु वदतु तावत् कोसौ उपायः।
रामकुमारः– राजमाता यदि मन्दिरस्यास्य प्रतिष्ठापनात् प्राक् कस्मैचित् सद्ब्राह्मणाय उक्तसम्पत्तेः दानं करोति, तदा शास्त्रनियमः यथायथं रक्षितो भवेत्। किञ्च राजमातुः इच्छापूर्तिरपि भवेत्।
नायेबः – तेन किं राजमाता तदीयगुरवे समर्पितं देवालयं प्रतिष्ठापयितुं शक्ष्यति?
रामकुमारः– आम्, निश्चयेन।
नायेबः – असीमा करुणा भवतः। एतेन आश्वस्ता भवेत् राजमाता। इतोपि अनुरोध एको विद्यते।
रामकुमारः– प्रकटय, किम् अधिकं ब्रवीषि?
नायेबः – यदि भवान् कृपया मातृपूजाकर्म स्वीकरोति।
रामकुमारः– उत्तमम्, तथास्तु।
नायेबः – (प्रणम्य) राजमाता भवतः अशेषम् अनुग्रहमिमं कदापि न विस्मरिष्यति।
रामकुमारः– सम्प्रति भवान् साधयतु। सायं समुपागतम्। सन्ध्यां वन्दितुं वेला इयम्। अतः प्रस्तोष्यामि।(उभयोः प्रस्थानम्)
(दीपनिर्वापणम्♚❍)
चतुर्थं दृश्यम्
नेपथ्ये – दक्षिणेश्वरे मन्दिरप्रतिष्ठायाः अनन्तरम्।
प्रथमव्यक्तिः – (कासमानः – स्वगतम् ) रासमणिः बहुधनव्ययेन मन्दिरं निर्मितवती। पूजादिव्यवस्थामपि कृतवती। अत्र सदाचारेण सर्वं प्रवर्तताम् इति तस्याः महनीया इच्छा। परन्तु, रासमणेः एतेषु मन्दिरेषु अनाचारः सीमालङ्घनं करोतीति दृश्यते। जातिधर्मादीनां तु क्षतिः भवति इति चिन्ता एव नास्तीति भाति। अत्र तिष्ठामि चेत् पापलिप्तस्य मे परजन्म नरके स्यात् मन्ये। किं करवाणि। इदमपि सत्यं यत् – अन्नचिन्ता चमत्कारा। उदरपूरणाय सोढव्यमेतत् सर्वम्। (द्वितीयस्य प्रवेशः)
द्वितीयः – अयि हा हन्त हन्त। मित्र, न केवलं नाशः नापि विनाशः अपि तु सर्वनाशः अभवत्।
प्रथमः – (कासमानः) किमभवत् भोः। एतावता उच्चैः चीत्करोषि कुतः।
द्वितीयः – मित्र, सर्वनाशः अभवत्।
प्रथमः – अद्य अस्मिन् नन्दोत्सवदिने कस्य सर्वनाशः अभवत्।
द्वितीयः – सर्वे चिन्ताग्रस्ताः। समेपि पण्डिताः सम्भूय वदन्ति यत् अयं प्रसङ्गः अति अमङ्गलसूचकः।
प्रथमः – (कासमानः) रे मित्र, त्वं यदि स्पष्टं न वदसि अहं किम् अवगच्छेयम्।
द्वितीयः – त्वं श्रोष्यसि चेत् तव मस्तिष्कविकारो भवेत्।
प्रथमः – व्यक्तं वदसि न वा। किम् अभवत्। मन्दिरे एतावान् कोलाहलः कुतः भोः।
द्वितीयः – गोविन्दस्य अर्चकाय बहुधा उक्तं मया यत् यदा शयनाय विग्रहो नीयते तदा सावधानो भव इति।
प्रथमः – अर्चकः किं कृतवान्। विग्रहशयनकाले किमपि अभवत् वा।
द्वितीयः – उक्तं तु मया यत् त्वं श्रोष्यसि चेत् तव मश्तिष्कविकारो भवेत्।
प्रथमः – हा हन्त। व्यक्तं वदसि न वा।
द्वितीयः – अर्चकः श्रीगोविन्दविग्रहम् आदाय त्वरया गर्भगृहात् शयनगृहं गच्छति स्म तदा पादच्यवनम् अभवत्। तेन स्वसंतुलनाभावात् स पतितः।
प्रथमः – ततः परं किमभवत्।
द्वितीयः – तदा श्रीविग्रहस्य पादो भग्नः।
प्रथमः – किमिदं वदसि त्वम्। इदं तु अतीव विनाशकारि भोः। मथुरानाथवर्यः इदं जानाति किम्।
द्वितीयः – नैव नैव। अत एव त्वां समुपागोस्मि अहम्। आगच्छ, मथुरानाथवर्यं निवेदयामः।
प्रथमः – आगच्छ। किमाश्चर्यम्। पश्य तावत् प्रभुः अत्रैव आयाति मन्ये।
द्वितीयः – प्रतीक्षस्व तावत्। (मथुरानाथेन सह एकस्य अनुचरस्य प्रवेशः)
मथुरः– मन्दिरे एतावान् महान् शब्दः कुतः। युवामत्र स्थितौ किम् अकरुतम्।
प्रथमः – श्रीमन्, भवन्तं द्रष्टुमेव गमनोत्सुकौ आवाम्।
मथुरः– किमत्र कारणं स्यात्।
द्वितीयः – श्रीमन् महती विपद् आपतिता।
मथुरः– किं सजातम्।
प्रथमः – महाशय, विष्णुमन्दिरस्थस्य श्रीविग्रहस्य पादो भग्नः।
मथुरः– किमिदम्। कथम्।
द्वितीयः– महोदय, अर्चकस्य अनवधानतावशात् विग्रहः पतितः, पादश्च ततो भग्नः।
प्रथमः – (कासमानः) मम तु मतं यत् स स्वेच्छया एव तथा कृतवान्।
मथुरः– (सक्रोधम्) अहम् अर्चकस्य शिरः देहाद् विलग्नं करिष्यामि।
द्वितीयः– पण्डिताः वदन्ति यत् ईदृशी घटना अत्यन्तम् अमङ्गलस्य सूचिका।
मथुरः– तत्तु बोद्धुं शक्यते। उपायः कः स्यात्।
द्वितीयः– विद्वांसो वदन्ति यत् एतस्य विग्रहस्य गङ्गायाम् विसर्जनं कृत्वा नूतनो विग्रहः प्रतिष्ठापनीयः इति।
प्रथमः – ते मन्यन्ते यद् भग्नविग्रहस्य पूजा शास्त्रविरुद्धा। किं भविष्यति महोदय अधुना।
मथुरः– पण्डिताः यद् वदन्ति तदेव तु करणीयम् किम् अन्यथा कर्तुं शक्यम्। तथापि कनिष्ठविप्रवरस्य मतं तु ग्राह्यम्। कुत्रास्ति सः।
द्वितीयः– मन्ये सः गङ्गातटे शिवपूजां करोति। आह्वयामि वा।
मथुरः– नैव। युवाम् गच्छत सम्प्रति। अहं कनिष्ठविप्रवरेण सह परामर्शानन्तरं तत्रैव गमिष्यामि।
प्रथमः – (स्वगतम्) स तु मूर्खः ग्राम्यः ब्राह्मणः। तस्य पुनः परामर्शः। प्रभूनां मतिः। किमपि वक्तुं न शक्यम्।
मथुरः– किमुक्तं त्वया। किमपि उक्तं मन्ये।
प्रथमः – (कासमानः) नैव नैव। किमपि तु नोक्तम्। सर्वेषां मङ्गलाय भगवान् प्रार्थितो भोः।
द्वितीयः– अस्तु श्रीमन्। आवाम् मन्दिरं व्रजावः। (द्वौ प्रस्थितौ)
मथुरः– (स्वगतम्) यस्तु एवम् अपराधम् अकरोत् तस्य तु दण्डः स्यादेव। रामकुमारवर्योपि सम्प्रति स्वग्रामं गतः। स यदि अत्र अभविष्यत् तर्हि निश्चप्रचम् कश्चित् समाधिस्तु अभविष्यत्। (प्रस्थानम्)
(दीपनिर्वापणम्♚❍)
पञ्चमदृश्यम्
(गदाधरः गङ्गातटे शिवपूजारतः। एकः अनुचरः मथुरस्य शिरसि छत्रं धरन् आगच्छति।)
मथुरः – (अनुचरं प्रति) छत्रम् अपसारय तावत्।
अनुचरः – एवम् महोदय।
मथुरः– (स्वगतम्) अहो! ईदृशं तन्मयभावेन पूजनम् अदृष्टपूर्वम्। स्वयं शिवो गङ्गातटं समुपागत्य स्वस्यैव आराधनायां निमग्नः इव भाति। अतीव मनोहरम्। मम तु हृदये भक्तिभावः वर्धते। ॐ नमः शिवाय, ॐ नमः शिवाय। (भूमिष्ठः प्रणमति।)
गदाधरः– (पूजान्ते प्रणम्य) अरे महोदय (सेजोवावु), कदा आगतो भवान्?
मथुरः– (आज्ञे वावा) अयि विप्रवर तात, आगतस्य मम स्वल्पसमयो व्यतीतः।
गदाधरः– किमपि वक्तुकामो वा भवान्?
मथुरः– अपूर्वा शिवमूर्तिरियं कुत्र लब्धा।
गदाधरः– असौ मयैव निर्मिता महाशय।
मथुरः– हन्त अति सुन्दरम्! अति सुन्दरम्!
गदाधरः– ग्रामेषु यदा प्रतिमानिर्माणं भवति स्म तदा तत्कौशलम् अवलोकयामि स्म भोः। अत एव …।
मथुरः– निष्ठया पूजयति खलु भवान्।
गदाधरः– पूजनं मम आबाल्यादेव नितरां प्रियकर्म वर्तते।
मथुरः– उत्तमम्। उत्तमम्। अग्रजम् अनु भवान् एव मातृपूजां करिष्यति, सम्प्रति मातुः अलंकारको भवतु।
गदाधरः– नैव नैव आर्य। मातुर्विग्रहे नैके अलंकाराः सन्ति। तेषां सुरक्षादिभारः मया नैव शक्यते वोढूम्।
मथुरः– सोयं भारो भवतो भागनेयस्य हृदयरामस्य भवतु।
गदाधरः– तर्हि अस्ति मम सम्मतिः। जवापुष्पचयनं, मातुश्चरणयोः समर्पणम्, अहो महान् आनन्दो भवेत्।
मथुरः– विप्रवर राजमाता पुनः विपदि अस्ति।
गदाधरः– भोः किं जातं पुनः?
मथुरः– अयि, विष्णुमन्दिरे श्रीविग्रहस्य पादो भग्नः। पण्डिताः बहु विचार्य उक्तवन्तः यद् असौ विग्रहो विसर्जनीयः, तत्स्थाने एको नूतनो निर्मेयः इति। तत्र भवतो मतं जिज्ञासुः अहम्।
गदाधरः– यत्र महान्तः पण्डिताः विमृश्य सिद्धान्तितवन्तः तत्र अहं किं करवाणि। अहं किं वा तावत् जानामि।
मथुरः– नैव नैव। भवान् किमपि वदतु।
गदाधरः– भवन्तः मन्यन्ते यत् भगवान् केवलं पाषाणमूर्तिः इति। यदि आत्मीयः कश्चित् व्यथितो भवति तदा भवतां कष्टं भवति न वा। मन्यताम् आर्य मथुर, यद् राजमातुः जामातुः यदि पादभङ्गो भवेत् तर्हि किं जामाता त्याज्यः? तस्य स्थाने अपरं कञ्चिद् आनयेद् वा। अथवा तस्यैव कष्टलाघवाय यतेत।
मथुरः– नैव नैव। तस्य समुचितया चिकित्सया उपशमनप्रयासो विधास्यते।
गदाधरः – व्यवहारे एतावती स्पष्टता भवताम् तर्हि अस्मिन् प्रसङ्गे विरूपता कुतः भोः?
मथुरः – अवगतम् विप्रवर। तर्हि भवतैव तत्कर्म कर्तव्यं यतो हि भवान् मूर्तिनिर्माणकौशलं सम्यक् जानाति। भवानिव को वा अन्यः लब्धुं शक्यते।
गदाधरः– अस्तु तावत्। विग्रहमिमम् तथा योक्ष्यामि यत् पादस्य भङ्गः कस्यापि दृष्टिगोचर एव न भवेत्।
मथुरः– अस्तु द्विजश्रेष्ठ, तर्हि इदानीं किं विष्णुमन्दिरं प्रति प्रस्थास्यते?
गदाधरः– अस्तु, चलावः।(उभयोः प्रस्थानम्)
(दीपनिर्वापणम्♚❍)
षष्ठं दृश्यम्
(रामकुमारस्य निधनदिनम्)
गदाधरः– (स्वगतम्) हे भवतारिणि, अद्य अग्रजस्य कृते कुतो मम मनो व्याकुलीभवति। ग्रामं गच्छामि इति उक्त्वा स तु पण्यक्रयणाय उत्तरकलिकातां गतः। अद्य वा श्वो वा प्रत्यागमिष्यति। तर्हि मनः तस्य कृते कुतः उद्विग्नं भवति मुहुर्मुहुः इति न जाने। किमपि अमङ्गलं घटितं वा। (हृदयस्य प्रवेशः)
हृदयः – (रुदन्) मातुल, रे मातुल सर्वनाशोभवत्।
गदाधरः– किमभवत् हे हृदय। त्वं मौनम् अवलम्बितवान् कुतः।
हृदयः – ज्येष्ठमातुलः …
गदाधरः– किमभवत् अग्रजस्य। त्वं पुनः तूष्णीं भवसि कुतः।
हृदयः – सः अस्मान् त्यक्त्वा गतः चिराय। (उच्चैः रोदिति)
गदाधरः– (संसम्भ्रमम्) किम् वदसि। अग्रजः प्रयातः। एवं नैव भवितुमर्हति। त्वं मिथ्या भाषसे मन्ये।
हृदयः – नैव मातुल। इदं वास्तवम्। एषः श्रुत्वा आगतोस्मि।
गदाधरः– अम्ब, बाल्ये वयसि पितृवियोगः अभवत् तथापि अग्रजस्य स्नेहवशात् स वियोगः तथा नानुभूतो मया। अद्य अहम् अभिभावकहीनः अभवम् हे हृदय।
हृदयः – त्वं शान्तो भव मातुल। यदभावि न तद्भावि। भावि चेत् न तदन्यथा। इति विधातुर्विधानम्। लिखितमिह ललाटे प्रोज्झितुं कः समर्थः।
गदाधरः– अहं न स्वीकरोमि विधातुः इदं विधानम्। एतावद् दुःखम् अहं सोढुं न शक्नोमि। संसारे दुःखमेव दृश्यते। न किमपि रोचते मह्यम्।
हृदयः – त्वं शान्तो भव। यदि तव किमपि भवेत् तर्हि पुनः वृत्तिः …
गदाधरः– रे वराक, तव वृत्तेः चिन्ता उदेति। अहं धनं भोगं सुखं वा किमपि न वाञ्छामि। अस्मात् दुःखसागरात् मुक्तिपन्थानम् मृग्यामि। येन गतानां समेषां दुःखात् मोक्षः स्यात्। स्वजनस्य मरणात् एतावत् दुःखं कुतो भवति।
हृदयः – पुष्पं फुल्लति तत्पश्चात् ग्लायति च। एवं प्रकृतिचक्रम्। तत्र भवान् …
गदाधरः– तत्पुष्पं यदि मातृपूजायाम् उपयोगि न भवेत् तर्हि तस्य का सार्थकता।
हृदयः – मातुल त्वं शान्तो भव। कालेन जनाः सर्वं विस्मरन्ति। शोकतापादिकं कालेन ह्रसति।
गदाधरः– यदि मृत्युरेव समेषां गतिः तर्हि जीवनं तु क्षणिकम् अतः अनित्यम् असुखम् च।
हृदयः – तत्तु सत्यमेव। अत एव यावज्जीवं सुखं जीवेत्। कामं भोगान् भुञ्जीयात्।
गदाधरः– तथापि तत्सुखमपि क्षणिकमेव तु। भोगात् नित्यं सुखं लब्धुं शक्यते किम्। अहं तु अवगतवान् यद् ईश्वरलाभः यदि स्यात् मातुः दर्शनं यदि स्यात् तर्हि आनन्दलाभः स्यात्।
हृदयः – त्वं किमिदं भाषसे। अहं तु किमपि बोद्धुं न शक्नोमि।
गदाधरः– त्वं बोद्धुं न शक्नोषि।
हृदयः – इदानीं तावद् आगच्छ। शरीरम् आनीतं मन्ये। सत्कारः कर्तव्यः।
गदाधरः– आम्। आगच्छ। (द्वयोरपि प्रस्थानम्।)
(दीपनिर्वापणम्♚❍)
सप्तमं दृश्यम्
नेपथ्ये – अथ कदाचिद् गङ्गातीरे …
गदाधरः – (हस्ते लोष्टम् धनं चादाय) धनम् लोष्टम्। लोष्टम् धनम्। इति काञ्चनासक्तिः यावत् अस्ति तावत् मातृदर्शनम् असम्भवम्। यदि भोगसुखेच्छा स्यात् , कामकाञ्चनत्यागः न स्यात् , तर्हि मातुः प्राप्तिः न भवेत्। मम तु एषु मनो नास्ति। (गङ्गायाम् धनं लोष्टं च क्षिपति।)
(सद्यः मातृवियोगे सति यथा शिशुः धूलिषु लोटन् हा अम्ब, हा अम्ब इति रोदिति तथा गदाधरः भवतारिणीदर्शनाभावात् रोदिति सिकतासु नासिकायाः मर्दनं करोति, शिरः भूमौ आहन्ति, वदति च, …)
गदाधरः – मातः, तव प्राप्त्यर्थम् अहम् सर्वस्वम् त्यक्तुं शक्नोमि। अम्ब कुत्रासि त्वम्। आगच्छ मातः। दर्शय आत्मानम्। कदा ते करुणा भवेत्। कर्मकोलाहलाकुले मायाविसंसारे तव श्रीचरणौ विस्मृत्य स्थितोस्मि। शिशुः यद्यपि मातरम् विस्मृत्य आस्ते तथापि माता कदापि स्वसन्तानं विस्मरति वा अम्ब? त्वम् आत्मानं प्रकटय। कारय दर्शनम्। भव नयनपथगामिनी। पुत्रस्य रोदनं वीक्षमाणायाः तव प्रस्तरहृदयं न विदीर्यते वा मातः? कृपां कुरु अम्ब। दर्शनं कारय। अम्ब, मातः, हे जननि। न च शक्नोमि अवस्थातुम्। क्व गता त्वम्। कुत्रासि त्वम्। आगच्छ अम्ब। अम्ब .. अम्ब .. अम् …
(इति भाषमाणः स अचेतनः भवति। एतावता केचित् जनाः घटहस्ताः, प्रोञ्छस्कन्धाः गङ्गातटम् आगताः नाटकमिव पश्यन्तः किञ्चिद्दूरे स्थित्वा व्यङ्गस्वरेण वदन्ति … )
प्रथमव्यक्तिः – पश्यन्तु भोः। जनोयं वेदनया पीडितोस्ति। इतस्ततः करोति।
द्वितीयः – वातुलोयम्। सा तु तस्य शूलाद् वेदना वर्तते इति दृश्यते।
प्रथमः – एवं नास्ति भोः। एतत्सर्वम् तस्य उन्मादः। जनान् दर्शयितुम् इत्थम् आचरति सः।
द्वितीयः – दुरुद्धरो व्याधिः। पूजाकाले किं किं न कृतं तेन। विधिनियमान् कामम् उल्लङ्घ्य यत्किमपि कृतम्। तद्वशादेव अधुना अयं व्याधिः।
प्रथमः – युक्तमुक्तम् त्वया। न स्मरसि किम्, पूजावसरे आदौ स्वयं भुङ्क्ते स्म ततः परं मात्रे निवेदयति स्म, अवशिष्टम् उच्छिष्टम्।
द्वितीयः – एवं कदाचारम् माता कदापि क्षाम्येद् वा। किं विभाव्यते त्वया।
प्रथमः – पश्य तावत्। कृतस्य कर्मणः फलम् अस्मिन्नेव जन्मनि लब्धम्। वयं चिन्तयामः यत् अस्मिन् जन्मनि कृतं कर्म पर जन्मसु फलति। अस्य तु कर्म बहु उत्कटं वर्तते। अतः अत्रैव फलम्। माता सर्वं कर्तुं शक्नोति।
द्वितीयः – अधुना अवगच्छतु एषः।
प्रथमः – देव्याः पूजायाम् अनियमः, अनाचारः!
द्वितीयः – तस्यैव फलम् इयं विषमवेदना।
प्रथमः – सोसौ उन्मत्तः भोः।
(तदा हृदयरामस्य मञ्चे प्रवेशः मातुलसमीपं गत्वा…)
हृदयः – रे मातुल किमभवत्। (अन्यान् पश्यन् ) भवन्तः किं पश्यन्ति? जनोयम् अचेतनः अभवत्। तथापि भवन्तः पश्यन्तः किमपि आलपन्ते। उन्मतः अयं भवन्तो वा इति विभावनीयम्।
द्वितीयः – स्यादेतत्। वयं मथुरानाथं ज्ञापयिष्यामः। तदा परिणामाम् अवगच्छेयुः भवन्तः।
(सर्वेपि झटिति निर्गताः। हृदयः गदाधरस्य मुखे जलं सिक्तवान्। तेन गदाधरः सचेतनः अभवत्।)
हृदयः – (मातुलं धृत्वा स्थितः) तव कस्माद् अचैतन्यम् संजातमिति वद तावत्।
गदाधरः – रे हृदय, अहम् इतोपि सोढुं न शक्नोमि। मातुः दर्शनाय मम प्राणाः अत्यन्तं व्याकुलाः भवन्ति। शरीरं तापेन दग्धं भवति।
हृदयः – सिक्तं प्रोञ्छममुम् आदाय तव गात्रं शितलीकरोमि। सर्वं कुशलं भविष्यति।
गदाधरः – कुरु कुरु। शीघ्रं शरीरं सिक्तप्रोञ्छेन शितलीकुरु।
हृदयः – मातुल, तव वक्षःस्थलम् इत्थम् रक्तम् कुतः भोः।
गदाधरः – भवतु तत्। त्वं बोद्धुं न शक्नुयाः। भगवल्लाभाय प्रयत्नवशात् इत्थं भवति।
हृदयः – स्यादेतत् मातुल। यदि मातरं दष्टुमिच्छसि तर्हि मन्दिरं व्रज। अयम् आटोपः, इदं सर्वम् अत्र गङ्गातीरे किमर्थम्। नैके जनाः अजानन्तः उपहसन्ति त्वामत्र।
गदाधरः – अहम् किं करवाणि भोः। कदा किं भवेदिति मम तु भानमेव न भवति।
हृदयः – अपि त्वं किमपि नावगच्छसि? एवम् आचरणेन वृत्तिः कथं चालयितुं शक्यते। मम तु भयं भवति यद् मथुरानाथः वृत्तितः तव निष्कासनं कुर्याद्। उदरपूरणं कुतो भवेत्तर्हि।
गदाधरः – धिक् त्वाम् मूढम्। मातुः यथा इच्छा तथा भवेत्। सा एव योगक्षेमं वहति। अन्ये तु निमित्तमात्रं भवन्ति।
हृदयः – स्यादेतत्। आगच्छ। किञ्चिद् विश्रामं कुरु। (उभयोः प्रस्थानम्)
(दीपनिर्वापणम्♚❍)
अष्टमं दृश्यम्
(शिवज्ञाने जीवसेवा इति भावस्य दार्ढ्यार्थं गदाधरः दरिद्राणां भिक्षुकाणां च उच्छिष्टं प्रसादम् इति गृह्णाति। शिरसि स्पृष्ट्वा गङ्गायाम् विसृष्टवान्।)
गदाधरः – (भिक्षुकान् भुञ्जानान् पश्यन् सानन्दम् ) अहो भाग्यम्। मातः अद्य तु अत्यानन्दजनकं दानम्। (व्यक्तिद्वयं प्रविशति।) आनन्दप्रदं दिनम्। स्वयं शिवाः भोजनं कुर्वन्ति। अद्य अहं शिवस्य प्रसादं ग्रहीष्यामि।
प्र.व्यक्तिः – महाशय, किमेतत् करोति भवान्।
गदाधरः – अयि यूयं साक्षात् शिवाः। अत एव युष्माकम् उच्छिष्टान्नं प्रसादत्वेन गृह्णामि। (भिक्षुकाणां पलायनम्।)
द्वि.व्यक्तिः – किमिदं भाषते अयम् भ्रान्तः। अस्य तु व्यवहारज्ञानम् अल्पमपि नास्तीति मन्ये।
प्र.व्यक्तिः – किमधिकं वक्तव्यम्। यदि व्यावहारिकतायाः भानं स्यात् तर्हि एवं कुर्याद्वा।
द्वि.व्यक्तिः – अस्मै उन्मत्ताय वचनेनापि लाभो न स्यात्।
प्र.व्यक्तिः – वयं तु मथुरानाथं प्रति गत्वा उदन्तं सर्वम् सविस्तरं निवेदयिष्यामः।
द्वि.व्यक्तिः – आम्। भ्रातः। आगच्छ तावत्।
(दीपनिर्वापणम् ♚❍)
नवमं दृश्यम्
(चिन्तामग्नो मथुरः एकाकी अटति)
मथुरः – (स्वगतम्) तातश्रीः यथा पूजयति, मातुर्दर्शनाय यथा व्याकुलो भवति, तेन प्रतीयते यत् मृन्मयी माता शीघ्रमेव चिन्मयी स्यात्। किन्तु सर्वे मिलित्वा यथा तं विकोपयितुं प्रयतन्ते, तेन तस्य साधनकर्मणि विघ्नः स्यात्। अस्याम् स्थितौ श्रीमतः शरीरम् रोगग्रस्तम् अपि भवितुमर्हति। अतः सकृत् स वैद्यालयम् नेयः इति भावयामि। पश्येयम्, किं करणीयम् …
(नायेबः पुस्तिकाहस्तः प्रविशति। )
नायेबः – श्रीमन् अत्र हस्ताक्षरं करोतु तावत्।
मथुरः – देहि। (हस्ताक्षरं करोति)
नायेबः – श्रीमन् व्यवहारगणनापुस्तकं तावत् पश्यतु।
मथुरः – परं दक्ष्यामि। त्वं सम्प्रति साधय तावत्।
नायेबः – यथाज्ञापयति भवान्। (नायेबः प्रस्थितः। केचित् मञ्चम् प्रविशन्ति।) (केचन पुरुषाः मञ्चं प्रविश्य)
प्रथमः – नमांसि भूयांसि आर्य! नमांसि।
द्वितीयः – भवता स्वयं सर्वमपि प्रत्यक्षं दृष्टं खलु …
मथुरः– अाम् आम्, दृष्टम्।
प्रथमः– देवीपूजायाम् एवम् औदासीन्यम्? एतादृशात् पूजापराधात् तु समेषां हानिः सम्भवति आर्य!
द्वितीयः– अपिच स पञ्चवट्यां रात्रौ चित्रं विचित्रं किमपि करोति!
मथुरः– एवं वा? किं किं करोति?
प्रथमः– पञ्चवट्यां किमपि ध्यानभजनादिकं करोति! तत्रापि दिगम्बरो भूत्वा सूत्रं हित्वा ध्याने लीनो भवति। आचारहीनस्य उन्मत्तस्य पुनः ध्याने लीनता। दम्भ एव दृश्यते।
मथुरः– तत्तु समीचीनमेव। किं तत्र अनुचितं वीक्ष्यते युष्माभिः?
द्वितीयः– आर्य! एवं नास्ति, तत्सर्वं तस्य उन्मत्ततावशादेव।
प्रथमः– तस्मिन् दिवसे मया दृष्टं यत् स ब्राह्मणः सन्नपि निकृष्टजातीनाम् चण्डालादीनाम् उच्छिष्टपत्राणि संगृहीतवान्!
द्वितीयः– प्रभो! किमधिकं वर्णयाणि। तस्य किञ्चिदपि व्यवहारज्ञानं नास्ति।
प्रथमः– पूजाकाले देव्यै मात्रे अर्पणीयं पुष्पम् तु स्वपादयोः अर्पयति!
द्वितीयः– किञ्च, मात्रे निवेदनीयं भोगादिकम् अादौ स्वयं भुङ्क्ते अनन्तरं भवतारिण्यै यच्छति!
प्रथमः– किं बहुना, बिडालमपि मातः! मातः! इति आहूय भोजनं प्रयच्छति।
द्वितीयः– इदं तु महद् धर्मसङ्कटम्। भवान् एव विचारयतु अधुना।
प्रथमः– उन्मत्तम् अमुं विप्रं भवान् इतः निष्कासयतु। तेनैव भवतः अस्माकं च शुभं भवेत्।
मथुरः– (संक्रोधम्) युष्माभिः मम शुभचिन्तस्य आवश्यकता नास्ति। अलमधुना। भट्टाचार्यमहोदयस्य साधनकर्मणि यो विघ्नं सृजेत्, तं प्रति कटूक्तिं वा कुर्यात्, तस्य अशुभमहं विधास्यामि। सम्यक् स्मरन्तु भवन्तः। इदानीमहं प्रतिष्ठे। (मथुरेण प्रस्थीयते)
द्वितीयः– रे रे मित्र अपि दृष्टम् त्वया? कथं सर्वं विपरीतं संवृत्तम् खलु।
प्रथमः– मन्ये, मया किमपि न बुद्धम्, महोदयेन सर्वोपि वृत्तान्तः स्वचक्षुषैव दृष्टः, तथापि …
द्वितीयः– तथापि न विश्वसिति!, वस्तुतः उन्मत्तोऽयं विप्रः वशीकरणमन्त्रं जानातीति मन्ये।
प्रथमः– सम्यगेव भणितम् त्वया।
द्वितीयः– (विकृतस्वरेण) आत्मसुक्षायै अधुना एतद्विषये न किमपि जल्पनीयं, प्रभोरादेशः!
प्रथमः– अस्माकं किं तेन? यदा मातुः अभिशापवर्षणं स्यात् तदा सर्वं सुविज्ञातं स्यात्!
द्वितीयः– अपि व्यक्तम् वक्तव्यमेतत्? प्रतिष्ठावहै तावत्।
प्रथमः– आम्, प्रतिष्ठस्व। (उभौ प्रतिष्ठेते)
(दीपनिर्वापणम्♚❍)
दशमं दृश्यम्
नेपथ्ये – दक्षिणेश्वरे पञ्चवटी
हृदयः – (काचदीपहस्तः, उच्चैः ) मातुल, रे मातुल। (प्रतिस्पन्दः नास्ति)
हृदयः – (स्वगतम्) मातुलस्य शिरोभ्रमः जातो वा। एवं गभीरायां रात्रौ एकाकी वनेऽस्मिन् वस्त्राणि यज्ञोपवीतं च त्यक्त्वा दिगम्बरो भूत्वा उपविष्टोस्ति। मथुरानाथः माता रासमणिश्च यदि जानीयात् तर्हि आवयोः द्वयोः अपि इतः निष्कासनं सुनिश्चितम् भाति। हे मातः भवतारिणि, कृपां कुरु अम्ब। मातुल–भागीनेययोः वृत्तिम् रक्षतु मातः। (पुनः आह्वातुम् आरेभे) मातुल, रे मातुल। मातुल, अयि भो मातुल। किम् करवाणि। समीपगमने भयमपि जायते।
गदाधरः – त्वमत्र माम् व्यथयितुम् कुतः आगतोऽसि।
हृदयः – त्वमेव वस्तुतः व्यथयसि अस्मान्। त्वम् उन्मत्तो जातो वा।
गदाधरः – तस्य लाभाय यदि उन्मत्तो भवेत् तर्हि स लब्धुं शक्यः।
हृदयः – एवं गभीरायां निशायाम् अस्मिन् वने तव भयं न जायते वा।
गदाधरः – भयं कुतः स्यात्। लज्जा घृणा भयम् एतत्त्रयस्य सत्त्वे नायम्।
हृदयः – बाढम्। ध्यानादिकं तावत् कुरु। परन्तु सर्वाणि वस्त्राणि त्यक्त्वा यज्ञोपवीतं च क्षिप्त्वा किमिदम् अनुचितम् आचरसि त्वम्।
गदाधरः – सर्वेभ्यः पाशेभ्यः मुक्तेन ध्यानं कर्तव्यम्। यज्ञोपवीतमपि पाशान्तरमेव। अहं ब्राह्मणः, अन्येभ्य उच्चः इति अभिमानः त्यक्तव्यः अपिच माता एकाग्रमनसा प्रार्थनीया।
हृदयः – प्रतीयते यत् त्वम् उन्मत्तः अभवः। अलम् ध्यात्वा। आगच्छ तावत्। कानिचन दिनानि तु भवान् युक्तम् आहारादिकं अपि न करोषि।
गदाधरः – त्वम् गच्छ इतः। अहं परं गमिष्यामि। अद्य अहं भोजनं न करिष्यामि।
हृदयः – भोजनाभावात् विश्रामाभावात् च तव शरीरम् अतीव दुर्बलं भाति।
गदाधरः – त्वम् इदं मा चिन्तय।
हृदयः – यदि अहं न चिन्तयेयम् तर्हि मथुनाथवर्यः राज्ञी तथा अन्ये च माम् एव दोषिणं चिन्तयेयुः।
गदाधरः – स्यादेत्। त्वं गच्छ तावत्। अहं किञ्चित् परं गमिष्यामि।
हृदयः – नैव नैव। त्वाम् आदाय एव गमिष्यामि।
गदाधरः – मन्ये, एकान्ते मातुः स्मरणमपि कर्तुम् न शक्यम् तव हठेन।
हृदयः – आगच्छ, आगच्छ। तव स्थितिवशात् मम ईषदपि निद्रा न जायते। आगच्छ तावत्। (द्वावपि प्रतिष्ठेते)
(दीपनिर्वापणम्♚❍)
एकादशं दृश्यम्
नेपथ्ये – गदाधरस्य कुशलं जिज्ञासुः मथुरानाथः हृदयम् आकारितवान्।
हृदयः – (स्वगतम्) हे मातः, भवतारिणि, भयहारिणि, मातुलभागीनेययोः वृत्तिं रक्षस्व। अन्यथा भिक्षया उदरनिर्वाहः करणीयो भवेत्। उन्मत्तः मातुलस्तु तदपि न कुर्यात्। तस्य कृते भिक्षाटनमपि मयैव करणीयम् स्यात्। अद्य कस्य मुखं दृष्ट्वा उत्थितोहम्। किं भविष्यतीति बोद्धुं न शक्नोमि। मथुरानाथः कुतः आहुतवान् इति न जानामि। शत्रूणाम् अभावो नास्ति। प्रतीयते यत् मातुलविषये कश्चित् किमपि ज्ञापितवान्। मातुलः यथा उन्मतः इव आचरति तेन प्रतीयते यत् अद्यैव वृत्तितः निष्काशं स्यात् मन्दिराच्च। जयतु मातः। अवतु मातुलम् पाहि माम् रक्ष माम् मदीयं च सकलम्। (मथुरानाथस्य प्रवेशः)
मथुरः– हृदय, कदा आगतोसि।
हृदयः – श्रीमन् , एष आगतोस्मि। कुतः आह्वानम् महोदय।
मथुरः– एतावती त्वरा कुतः। किञ्चित् जलादिकं पिब ततः परं वार्तालापो भवेत्।
हृदयः – ओम्। मन्दिरे किञ्चित् कार्यम् अवशिष्टम् इति…
मथुरः– एतावत् कार्यम् कुतः। अपि सर्वे कुशलिनः।
हृदयः – ओम्। सर्वेपि कुशलिनः भोः।
मथुरः– (सक्रोधम्) किं भाषसे। सत्यं कुशलिनः सर्वे? अहं सर्वं वृत्तान्तं जानामि। गदाधरस्य शरीरं दिने दिने कृशं दुर्बलं च भवति। तस्य व्यवस्थां न पश्यसि किम्। यदि तस्य किमपि अनुचितं भवेत् तर्हि तव गतिः मम हस्ते।
हृदयः – मातुलः समये समये भोजनं न करोति। युक्तस्वापं न करोति। अत एव…
मथुरः– तत् तु जानामि। त्वं तत्रासि। किं करोषि। केवलं दीर्घसूत्रिता तव। यदि तस्य अनुचितं स्यात् तर्हि त्वमेव दायी स्याः।
हृदयः – क्षम्यताम् महोदय। मातुलः स्वमतेनं चलति। मम मतस्य कोपि आदरः तत्रास्ति वा।
मथुरः– सति प्रयोजने बलप्रयोगं कुरु।
हृदयः – गभीरायां रात्रौ निद्राम् अकृत्वा पञ्चवट्यां ध्यायति।
मथुरः– किमिदम्। रात्रौ तस्मिन् वने ध्यानम्।
हृदयः – न केवलं तावत्। आहारविहारादिकं किमपि न करोति। केवलं रुदन् वदति – मातः दर्शय तव रूपम्। कुरु मयि कृपाम्।
मथुरः– इदम् उन्मादलक्षणम्। शीघ्रमेव वेद्याय दर्शनीयम्। तथा व्यवस्था कर्तव्या।
हृदयः – महोदय, अवश्यं भवान् अस्य व्यवस्थां करोतु।
मथुरः– एतानि दिनानि किमपि कुतो नोक्तं त्वया।
हृदयः – भयाद् महोदय। भयात् न उक्तवान्।
मथुरः– कुतो भयम्।
हृदयः – तत्तु … (मस्तकादिं स्पृशति)
मथुरः– एवम्। अवगतवान्। गदाधरस्य यदि अनारोग्यं स्यात् तर्हि तव वृत्तिः अपि न स्यात् इति अवधार्यम् त्वया।
हृदयः – तथैव भवतु तथैव भवतु।
मथुरः– सम्प्रति गच्छ। अहं वैद्येन सह परामर्शं करोमि। (द्वयोरपि प्रस्थानम्)
(दीपनिर्वापणम्♚❍)
द्वादशं दृश्यम्
(गदाधरः पूजायाम् अङ्गन्यासादिकं कृत्वा रं इति मन्त्रेण जलवृत्तं कृत्वा वह्निप्राकारचिन्तनं करोति। पूजान्ते गायति करताडनपूर्वकं। )
गदाधरः – कुत्र भववशात् दुर्गतिः स्यात्। कदा तस्याः करुणा भवेत् …।
गदाधरः – (रुदन् , देवीनिकटे उपविश्य वदति ) मातः, हे मातः। कियत् प्रार्थयामि हे अम्ब। त्वम् किमपि शृणोषि उत न। रामप्रसादाय स्वरूपं त्वया प्रदर्शितम्। मह्यं कुतो न दर्शयसि। न धनं न जनं न भोगं न सुखम् अहं कामये अम्ब। केवलम् स्वरूपं तव प्रकटय मातः। अहं किमपि न जानामि। जपं कर्तुं न शक्नोमि। ध्यानं कर्तुं न शक्नोमि। परन्तु अस्मादेव कारणात् त्वम् आत्मानं न दर्शयसि किम्। तव अयं अधमः पुत्रोहम् त्वां द्रष्टुं न शक्नुयाम् किम्। स्यादेवम्। कदापि वा तव दर्शनं कर्तुं न शक्नुयाम्। तर्हि जीवनमिदं मूल्यहीनम् सारहीनम् व्यर्थम् भाति। इत्थं वृथा जीवनयापनेन वा किम्। कुतः जीवेयम्। (सहसा स मातुः हस्तस्थं खड़्गं पश्यति। उन्मत्तः इव खड्गम् आकर्षति।) अस्तु तर्हि। तवैव सम्मुखे तवैव खड्गेन अस्य वृथा जीवनस्य समाप्तिं करोमि। स्वीकरोतु तव पुत्रस्य रक्तम्। पिब तावत् रक्तम्। भव त्वं तृप्ता तेन हे शिलामयिनि राक्षसि।
(तत्क्षणमेव मातुः अद्भुतं दर्शनं तेन लब्धम्। हस्तात् खड्गं च्युतम्। स्वयं शङ्खध्वनिः अभवत्। गदाधरः साश्चर्यः पश्यति।) – किमिदम् किमिदम्। का इयम् अपूर्वा शोभा। गृहम् द्वाराणि मन्दिरं च सर्वमेव कुत्रापि लीनं भवति। सर्वमपि चैतन्यमयम्। असीमः ज्योतिर्मयः समुद्रः। यावत् दृष्टिः प्रसरति तावत् आलोक एव। तस्मिन् आलोके अहं निमज्जामि। अहो। कियान् आनन्दः। आनन्दः केवलम् आनन्दः। जय त्वं मातः। जय त्वम् अम्ब। न त्वं मृण्मयिनी, त्वं तु चिन्मयिनी। त्वम् साकारा त्वं निराकारा। जय त्वं मातः, जय त्वम् अम्ब। (अचेतनो भूत्वा तत्रैव भूलुण्ठितः शयितः गदाधरः)
(समाप्तं नाटकम्। सर्वेभ्यः दर्शकेभ्यः शतशः धन्यवादाः ज्ञाप्यन्ते। समेषाम् आशीर्वादाश्च प्रार्थ्यन्ते। अनुगृह्णन्तु अस्मान् आशीर्वादेन)
(नाटकदलस्य परिचयः –
नाटकलेखकः – स्वामी पञ्चाननानन्दः,
निर्देशकः – स्वामी आधेयानन्दः।