Kansavadha

कंसवधः

नेपथ्ये साम्प्रतम् श्रीरामः श्रीकृष्णश्च श्रीरामकृष्णरूपपेण कथामृतम् प्रकटी चकार। भगवतः श्रीरामकृष्णस्य आविर्भावशुभलग्ने तस्यैव श्रीकृष्णरूपेण पूर्वजीवनवृत्तान्तस्य महापुराणस्य श्रीमद्भगवतस्य काञ्चित् घटनां नाटकरूपेण मञ्चस्थां कर्तुकामाः वयम्।

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।

अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्।।

परित्राणाय साधूनां विनाशाय च दुष्कृताम्।

धर्मसंस्थापनार्थाय सम्भवामि युगे युगे।।

द्वापरयुगे मथुराधीशस्य महापापस्य कंसस्य अत्याचारेण आसीत् पृथिवी कम्पमाना, आसन् प्रजाः पीडिताः, आसीच्च अधर्मेण धर्मः अभिभूतः। तदा धर्मस्य पुनः संस्थापनार्थाय भगवान् श्रीकृष्णः स्वमायया सम्बभूव। तथैव तस्य अमोघा प्रतिज्ञा सम्भवामि युगे युगे इति। दुष्टः कंसः जानाति स्म यत् तस्य विनाशकः गोकुले वर्धमानः अस्तीति। मृत्युभयेन भीतः सः कृष्णबलरामयोः वधाय कपटेन विविधान् प्रयासान् अपि कृतवान्। तथापि तस्य सर्वेपि प्रयासाः विफलतां गताः। नारदोपि कंसं ज्ञापितवान् यद् देवक्या प्रसूता कन्या कंसः यां हन्तुम् उद्यतः सा वस्तुतः यशोदायाः अपत्यम्। अपिच नन्दकुले पाल्यमानः शिशुरेव देवक्याः अष्टमः पुत्रः बलरामश्च रोहिण्याः पुत्रः। वसुदेवः कंसभयाद् स्वपुत्रं स्वमित्रस्य नन्दस्य गृहे संस्थापितवान्। श्रीकृष्णबलरामाणां विनाशाय कंसः बहून् देत्यान् प्रेरितवान्। हन्त ते सर्वेपि दैत्याः ताभ्यां लीलया यमालयं प्रति प्रेषिताः। एवं समग्रमपि वृत्तान्तं निशम्य भोजराजः कंसः क्रोधाग्निना संतप्तः चञ्चलेन्द्रियः चिन्ताकुलः एकाकी चरति। तदा

प्रथमं दृश्यम्

(अभिनेयम् भोजराजस्य कंसस्य राजसभा। भोजराजः कंसः चिन्तानिमग्नः पादचारणं करोति। तदा मल्लवीरस्य चाणूरस्य प्रवेशः।)

चाणूरः प्रणमामि महाराजम्। (किञ्चिद् वीक्ष्य) महाराजाधिराजाः चिन्ताग्रस्ता इवालोक्यन्ते।

कंसः चिन्ता? एवं चिन्ता चिन्ता। चाणूर दुश्चिन्ता। देवर्षिः नारद आगत्य उक्त्वा गतवान् यद् देवक्याः अष्टमः पुत्रः कृष्णः गोकुले नन्दराजस्य गृहे सुखेन पाल्यमानो वर्धते। स मथुरावासिनां परित्राणकर्ता अपिच मम कालः इति।

चाणूरः तर्हि किम् तस्य विनाशस्य उपायान्वेषणचिन्तायाम् निमग्ना महाराजाः?

कंसः सत्यं लक्षितं त्वया। विनाशाय नैके प्रयासाः अपि इतःपूर्वमेव कृताः मया। तथापि

चाणूरः तथापि? राजन् तथापि किम् अभवत्?

कंसः सर्वम् मोघम् रे चाणूर हन्त सर्वं मोघम्। चिन्तयामि यत् पापिनीं देवकीम् (करवालेन ताम् आहन्तुम् उद्यतो भवति।)

चाणूरः अनावश्यकं तत् सर्वम् महाराज।

कंसः किं वदसि त्वम्।

चाणूरः अस्ति कश्चिद् उपायः विपद्भञ्जनाय।

कंसः (उत्साहाधिक्यात् चाणूरस्य स्कन्धस्पर्शं करोति।) वद शीघ्रं तावत् कः स उपायः। कथं वा विपन्निवारणम्।

चाणूरः भवता यदपि चेष्टितं तत्सवमपि दूरात्।

कंसः सत्यम्। तथैव कृतं मया।

चाणूरः किञ्च स्वनेत्राभ्यां भवता स कदापि न दृष्टः।

कंसः किन्तु कथं वा अहं तं पश्यानि।

चाणूरः अपि स्मरति भवान् यद् भवतां वंशपरम्परायां पूजितेन महादेवेन प्रदत्तं शिवधनुः।

कंसः तत्तु अस्त्येव मे स्मृतौ।

चाणूरः धनुर्यज्ञस्य आयोजनं क्रियताम् महाराज। अपिच देशस्य सकलान् नृपान् आमन्त्रयताम्। विशेषतश्च गोकुलात् कृष्णं तथा बलरामम् चानेतुम् विशिष्टां व्यवस्थां करोतु।

कंसः तेन को वा लाभः चाणूर। शत्रुः पाशम् अमूम् आपद्येतेति मन्यसे त्वम्।

चाणूरः यदुवंशशिरोमणिर्भवान्। आनेतुम् अक्रूरं प्रेषयतु। तेन मन्ये साफल्यं स्यात्।

कंसः अपि त्वम् अक्रूरम् विश्वसिषि।

चाणूरः स विश्वासभूमिः भवतु न वा। तेन न किञ्चिच्छिद्यते। राजाज्ञायाः अवमाननं तु स कथमपि नैव कर्तुं क्षमेत। किञ्च अस्माकं गुप्तां योजनां तु स नैव जानात्यपि।

कंसः नन्दस्तु अक्रूरस्य परमं मित्रम्। तस्मात् कोपि सन्देहं न कुर्यात्।

चाणूरः युक्तमुक्तं भवता महाराज।

कंसः अहो सुखम्। चाणूर तव बुद्धिसामर्थ्यम् अतुलनीयम्। मथुरागमनं भविष्यति तेषां मृत्युकारणम्। तेषां मृतदेहं दृष्ट्वा वसुदेवः देवकी च शोकेन मरणं यास्यन्ति।

द्वितीयं दृश्यम्

(गोकुले)

(नेपथ्ये) – राजाज्ञया कृष्णं बलरामं च मथुरां नेतुम् अक्रूरः गोकुलम्पागतः । यमुनातीरे वृन्दावनविहारी सानन्दं वंशीवादने रतः। यथा तस्यैव आगमनं प्रतीक्षते स्म। अक्रूरः मुग्धतया क्षणं वंशीध्वनिम् अश्रौषीत्। ततः अवादीत् –

अक्रूरः – हे यदुवंशीय राजकुमार कृष्ण, भवन्तं प्रणमामि(एतदुक्त्वा प्रणमति। श्रीकृष्णः तं बाहुभ्यामुत्थापयति।)

कृष्णः – अहो पितृव्यअकस्मादेव आगमनम्? अपि कुशलिनो यादवाः?

अक्रूरः – आम्। कथञ्चित् दिवसाः नीयन्ते

कृष्णः – पित्रोर्मे का वार्ता?

अक्रूरः – राजकुमार किं वा कथयामि। पापिनः कंसस्य अत्याचारं सहमानौ कथञ्चित् तौ दिनानि यापयतः।

कृष्णः – पितृव्य, तयोः दर्शनार्थं बलवती मे इच्छा। कृपया मां तत्र प्रापयतु…..

(इत्यवसरे नन्दराजबलरामौ प्रविशतः।)

नन्दः – अरे, यदुवंशशिरोमणिः अक्रूरः! किमुद्दिश्य समागमः।

अक्रूरः (कृताञ्जलिना) – प्रणामः महाराज, प्रणाम राजकुमार बलराम।

(प्रणामः पितृव्य इत्युक्त्वा बलरामः तम् अभिवादयते।)

नन्दः – एहि एहि। अस्माकं परमशुभाकाङ्क्षी त्वम्। मम आलिङ्गनं स्वीकरोतु। (आलिङ्ग्य) मम मित्रं वसुदेवः कथमस्ति? देवक्या वा का वार्ता?

अक्रूरः – महाराज तौ इत्थंकारं दिनानि गणयतः।

नन्दः – तर्हि तव आगमने को हेतुः?

अक्रूरः – महाराजः कंसः शिवधनुर्यज्ञम् आयोजयति। तत्र भवन्तः सर्वे आमन्त्रिताः। विशेषतः कृष्णबलरामौ मया सह मथुराम् आगच्छेताम् इत्यंहम् आज्ञापितः

बलरामः – (आश्चर्यः सन्) शिवधनुर्यज्ञः!

नन्दः – (किञ्चिद् विचिन्त्य) इदानीम् एतौ नितरां बालकौ। इयान् च मार्गः। अपिच एतौ एव किमर्थम्?

अक्रूरः – महाराज कृष्णबलरामयोः परिचय इदानीं प्रकाशितः, तयोः यशश्च प्रसारितं सर्वत्र। सर्वेषामेव विदितं यत् कृष्णः देवक्याः अष्टमगर्भजः। किञ्च, अयमेव कंसघातकः भविष्यति

नन्दः – तथा चेत् तयोः तत्र गमनं हि न कथमपि औचित्यावहम्।

अक्रूरः – सत्यं देव! तथापि कृष्णबलरामौ मथुरां न नीतौ चेत् अत्याचारी कंसः गोकुलवासिनः भृशं पीडयिष्यति। गोकुलं नाशयिष्यति।

नन्दः – तर्हि इदानीं किं वा कुर्याम्?

कृष्णः – मा स्म चिन्ताग्रस्तो भूत् भवान्। अद्यावधि शिवधनुर्यज्ञः आवाभ्यां कदापि न दृष्टः। तस्मात् दिदृक्षा बलवती वर्तते।

बलरामः – अपि च, पितृभ्यां सह साक्षात्कारोऽपि भविष्यति।

नन्दः – परन्तु पुत्रौ, तत्र युवयोः प्राणशङ्का विराजते। किञ्च, तव जननी यशोदा गोपवासिन्यश्च युवां परित्यज्य मुहूर्तमपि न स्थातुमर्हाः।

कृष्णः – पित्रोः आशीर्वादः वर्तते चेत् यमादपि न बिभीवः

बलरामः – अलं चिन्तनेन। आवाम् अवश्यं प्रत्यागमिष्यावः।

अक्रूरः – कापटिकस्य कंसस्य नूनम् कश्चिद् दुरभिसन्धिः अस्ति। तस्मादहमपि निभृतं राजकुमारयोः सुरक्षाव्यवस्थां कल्पयिष्यामि। महाराज, अलं विचारेण चिन्तया वा। कृपया इदानीं मथुरां प्रति गमनम् अनुमन्यताम्।

नन्दः – (क्रन्दन्)अक्रूर! अस्माकं नयनाभिरामं त्वद्धस्ते समर्पयामि। तं विघ्नेभ्य रक्षतु। पुत्र बलराम, सर्वदा अनुजं दृष्टिपथे स्थापय। परमेश्वरो भवतां मङ्गलं विदध्यात्

(नन्दः हस्तमुत्तोल्य आशीः प्रयच्छति। सर्वे च तं प्रणमन्ति।)

तृतीयं दृश्यम्

(महाराजकंसस्य राजसभायाम्।)

अभिनयेन द्वौ रक्षिणौ कुन्तहस्तौ सिंहासनसमीपौ स्थितौ। कंसः चिन्तितः सन् गमनागमनं करोति। अस्मिन् समये चाणूरस्य मुष्टिकस्य च प्रवेशः)

कंसः – रे चाणूर। त्वामेव स्मरन्नस्मि। का वार्ता। मत्स्यौ किं जालं प्रविष्टौ? इदानीमेव इदानीमेव निर्दयं देहं तयोः प्राणैर्वियुक्तं सम्पादय।

चाणूरः – नैव महाराज! सद्यः तदसम्भवम्। तौ अधुना मथुरां प्रविष्टौ।

मुष्टिकः – माम् आदिशतु महाराज। इदानीमेव तौ यमसदनं प्रेषयामि।

कंसः – युक्तं भाषितं मुष्टिक, युक्तं भाषितम्।

चाणूरः – तन्नाधुना सम्भवति। तदिदानीं मूर्खकृत्यमेव स्यात्

कंसः – कुतः तन्न सम्भवति?

चाणूरः – लब्धो गुप्तसन्देशः यत् अक्रूरनिर्देशेन यादववंशीयाः सैनिकाः तौ परितः सुरक्षामण्डलमिव आगच्छन्ति इति

कंसः – तथा चेत् अक्रूरः गुप्तस्थाने तौ गूहितुं शक्नुयात्।

मुष्टिकः – अथवा, भीतौ तौ गोकुलमपि प्रतिगन्तुम् अर्हतः।

चाणूरः – निरस्ता सा सम्भावना। यतः अस्मत्सैन्यं प्रच्छन्नशार्दूल इव तान् अनुसरति। तेन गोकुलगमनमार्गोऽपि अवरुद्धः।

कंसः – तर्हि मथुराम् तौ प्राप्स्यत इति निश्चप्रचम्

मुष्टिकः – परन्तु इदानीमेव तौ किमर्थं न हन्येते?

चाणूरः – न। अधुना तत्कार्यं श्रेयस्करंस्यात्

मुष्टिकः – कुतस्तथा भाषसे, चाणूर। किमत्र कारणम्?

चाणूरः – (चिन्तितः सन्) जानामि प्रजासु इयं वार्ता कथं प्रसृता यत् कृष्ण एव देवक्या अष्टमगर्भजः पुत्रः। किञ्च, स एव तेषामुद्धर्ता इति।

कंसः – (विरक्तः सन्) उद्धर्ता, उद्धर्ता, उद्धर्ता। मम राज्ये क ईदृशं प्रलपितुं स्पर्धेत। तेषां रसनां छेत्तुं किं त्वं न समर्थः?

चाणूरः – शक्नोमि महाराज। परन्तु इदानीम् उत्सवप्रेक्षणाय बहुभ्यः प्रदेशेभ्यः राजानः, प्रजाः, रक्षिणश्च सहस्रशः सगणं समाताः आगच्छन्ति च। सर्वेषां पुरतः किञ्चिदपि गर्हिताचरणं विद्रोहमपि जनयितुं शक्नोति।

मुष्टिकः – तर्हि उपायः?

चाणूरः –उपायस्तावत् प्रशान्तमनसा आदौ सुष्ठु परिकल्पनम् विधेयम्। ततः कार्यसाधनम्।

कंसः – किं तत् परिकल्पनम्?

चाणूरः – आदौ राजसभायां प्रवेशकाले शतहस्तिसमशक्तिमता कुवलयापीडनामकेन हस्तिना तयोः वधं सम्पादयिष्यामि। वैफल्ये सति राजसभायामस्यां सर्वजनसमक्षम् अहं मुष्टिकश्च मल्लयुद्धे आह्वानपुरःसरं तयोः भवलीलां समापयिष्यावः।

कंसः – शोभनम् चाणूर अतीव शोभनम्। एतेन मृतेऽपि सर्पे दण्डः अखण्डः स्थास्यति। हा हा हा। समञ्च सर्वैः ज्ञास्यते यत् तयोः उद्धर्ता अहमेव। हा हा हा।

चतुर्थं दृश्यम्

(नेपथ्ये – मथुराया रङ्गशालायां शिवधनुर्यज्ञः समायोजितः। तत्र श्रीकृष्णः बलरामश्च अक्रूरेण सह समुपस्थितौ।) (अभिनयेन प्रदर्शनीयम् – एकः पुरोहितः यज्ञं सम्पादयति। पार्श्वे द्वौ राजरक्षिणौ स्थितौ।)

कृष्णः – हे पितृव्य! तत्र किमर्थम् इयान् जनसमागमः?

बलरामः – किं भवति तत्र, पितृव्य!

अक्रूरः – तत्र शिवधनुषः अर्चनं प्रचलति। तदर्थमेव उत्सव आयोजितः।

कृष्णः – आवां गत्वा शिवधनुः प्रणवावः। अग्रजः किं मनुते?

बलरामः – निश्चयेन। आगच्छ गच्छावः, पश्यावः।

कृष्णः – (पुरोहितं पृच्छति) हे ब्राह्मण, आवां शिवधनुः प्रणन्तुकामौ।

पुरोहितः – (विरक्तः सन्) गच्छ गच्छ, दूरत एव वीक्षेताम्

बलरामः – यतः सम्मुखंमागतौ एव, तस्मात् स्पृन्तौ प्रणवावः चेत् का क्षतिः?

पुरोहितः –(व्यङ्गस्वरेण) आभीरबालकौ युवाम्। ज्ञायते अस्य धनुषः सामर्थ्यम्? अस्मिन् जगतीतले नास्ति तादृशः कोऽपि यः इदम् उत्तोल्य ज्यारोपणे समर्थः भवेत्।

कृष्णः – (हसन्) भवतां समक्षं इदानीमेव यदि तत् सम्पाद्यते?

(पुरोहितः रक्षिणश्च कृष्णस्य वाचं निशम्य उच्चैः हसनम् अकार्षुः।)

प्रथमः रक्षकः – शृणोतु रे अयं गोपालकः किं भाषते

द्वितीयः रक्षकः – रे मूर्ख बालक, न इदं क्रीडनकम्

अक्रूरः – राजकुमार, इतः प्रत्यागम्यताम्। विपत्स्थलमिदम्।

बलरामः –अलं चिन्तया। भवान् क्षणं तिष्ठतु।

पुरोहितः – अरे बालकौ, ग्रामतः युवाम् समागतौ। मन्ये कदापि राजप्रासाददर्शनं न कृतम्। तत्र गत्वा राजकीयभोज्यं सेवेथाम्।

प्रथमः रक्षकः – अपसर, इतो दूरम् अपसर

द्वितीयः रक्षकः – (ताच्छील्येन) अयं शिवधनुः उत्थापयिष्यति!! हा हा हा।

(अभिनयद्वारा प्रदर्शनीयम् – कृष्णः कृताञ्जलिः शिवधनुः प्रणमति प्राथर्यते च। ततः क्रीडाव्याजेन सहसैव वामहस्तेन धनुः उत्तोल्य, ज्यामाकृष्य भग्नवान्। कस्यापि वाक्स्फूर्तिः नाभवत्। सर्वे चकिताः। एको बलराम एव हसन् आसीत्। शिवधनुः खण्डितवान्, शिवधनुः खण्डितवान् इति कथयन् पुरोहितः पलायितः। रक्षिभिः कृष्णबलरामौ आक्रान्तौ। तौ मुष्टिप्रहारेण तेषां वधमकुरुताम्। अस्मिन् समये एकः नागरिक आगत्य अक्रूरं कथयति-)

नागरिकः – अक्रूरवर्य, सुरां पाययित्वा कुवलयापीडनामा हस्ती मत्तः सम्पादितः। उन्मत्तः सन् साक्षाद् अन्तक इव स इमामेव दिशम् आगच्छति।

अक्रूरः – कुत्र, कुत्र।

नागरिकः – पश्यतु पर्वतकल्पः स प्रायः यज्ञस्थलं सम्प्राप्त एव। कृपया भवान् कुमारौ आदाय निष्क्रामतु इतः ।

कृष्णः – भवन्तः मा चिन्तयन्तु। पश्यावः हस्तिनः अस्य कीदृक् सामर्थ्यम्। (एतदुक्त्वा द्वौ अपि भ्रातरौ रङ्गमञ्चात् प्रस्थितौ।)

नागरिकः – (अक्रूरमुद्दिश्य) कुतो भवान् न प्रतिरुद्धवान्? इदानीम् अशुभं किमपि जायेत चेत्?

अक्रूरः – हे शुभचिन्तक नागरिक, मुधैव उत्कण्ठितोऽसिआदौ तयोः रक्षायै अहमपि महोत्कण्ठामन्वभुवम्

नागरकिः – तर्हि अधुना?

अक्रूरः – तयोः कृपया अवगतं यत् सर्वेषां नः परित्रातारौ एतौ एव।

नागरिकः –अस्माकं सर्वेषां समुद्धर्तारौ!

अक्रूरः – आम्। अयं कृष्णःरूपेण नारायणः स्वयम्। सकलजगताम् आर्तिनाशाय भुवमलङ्करोति। (प्रार्थनास्वरेण) हे प्रभो, दुःखसागराद् रक्षतु अस्मान्वर्षतु कृपाधाराम्।

(अक्रूरः नागरिकश्च तौ उद्दिश्य प्रणमतः, ततः प्रतिष्ठतः।)

पञ्चमं दृश्यम्

(नेपथ्ये – महता पराक्रमेण कुवलयापीडं हस्तिनं निहत्य अखर्वगर्वेण कृष्णबलरामौ कंसस्य राजसभां प्रविष्टौ। मल्लवीरः चाणूरः मुष्टिकश्च मल्लक्रीडाभूमौ स्थितौ। भोजराजः कंसश्च राजसिंहासने समासीनः।) (अभिनयेन दर्शनीयं – सिंहासनस्य पार्श्वे स्थितौ द्वौ रक्षिणौ। कंसः भयभीतः सन् कृष्णं पश्यति। यथा पुरस्तात् साक्षात् यमराजं पश्यति। ततः भयं गोपायित्वा…)

कंसः – (व्यङ्गस्वरेण) प्रथमवारं कस्यांश्चित् राजसभायां प्रविष्टौ इति मन्ये? अतः कथम् राज्ञः अभिवादनं विधेयमिति न ज्ञायते?

कृष्णः – राजानं ते एव सम्मानयन्ति परितोषयन्ति , ये तस्मात् किमपि कामयन्ते।

कंसः – निष्कामाः अपि सुतरामभिवादयन्ति राजानम्। भवतां शास्त्रोदधिः शुष्कः भाति।

बलरामः – भवान् स्वयमेव आधिकारिकान् गोकुलं सम्प्रेष्य अस्मान् अत्र आमन्त्रयत्

कृष्णः – अतः ईदृशे प्रसङ्गे इदमेव राजकृत्यं, इदमेव शास्त्रशासनम् यत् – यः स्वयं निमन्त्रणेन अतिथीन् आनयति, स एव आदौ अतिथीनां सम्माननम् अभिवादनं च कुर्यात्।

बलरामः – आवां तादृशसुयोगप्रदानेन भवन्तं कृतार्थयितुमेव अपेक्षमाणौ आस्ताम्।

कंसः (हासच्छलेन) आहो अत्युत्तमम्। युवयोः वाक्चातुर्येण अहम् सुप्रसन्नः। युवयोः अपराधमहं क्षमे।

कृष्णः – एवं किम्?

कंसः युवां ग्रामीणौ। तस्मात् राजसभाचारा नैव ज्ञायन्ते।

बलरामः – नैव नैव मथुराधीश। राजनियमानां पर्याप्तं ज्ञानम् अस्माकम् अपि वर्तते। वयम् इदमपि जानीमो यत् सोपायनमेव राजदर्शनार्थं गन्तव्यमिति

कंसः – एवं वा? किमानीतं तर्हि? दुग्धम् उत दधि? न दृश्यते भाण्डम्?

कृष्णः – बाढम्। वयं ग्रामीणाः। परन्तु न कृपणाः। तस्मादेव आगमनवेलायाम् एकम् मत्तहस्तिनं निहत्य तस्य अमूल्यं दन्तद्वयम् उपायनरूपेण आनीतम्

कंसः – (क्रुद्धो भूत्वापि आत्मानं नियन्त्रयन्।) साधु साधु युष्मादृशा वीरबालका राज्यं मे अलङ्कुर्वन्ति इति जानन् परमानन्दम् अनुभवामि। तस्माद् महावीर इति अभ्यर्हणीयोपाधिना युवां विभूषयितुम् अभिलषामि अहम्

बलरामः – तथा वा!

कंसः – परन्तु तदर्थं सर्वेषां पुरस्तात् अस्यां मल्लभूमौ चाणूरमुष्टिकाभ्यां सह युध्यताम्। प्रदर्श्यताम् पराक्रमः। युवयोः वीरत्वं साक्षात्कृत्य चक्षुर्द्वयं मे सार्थकपदवीं गच्छेत्

कृष्णः – अलं त्वरया। आवाम् अद्य समारोहसन्दर्शनाय समुपस्थितौ। तस्माद् अन्यस्मिन् कस्मिंश्चित् विशिष्टे दिवसे भवतः ईप्सितं पूरयावः।

चाणूरः – अद्यतनं दिनमेव विशिष्टम्। देशविदेशेभ्यः आगतानां जनानाम् अयं समारोहः पुनः कदा भविता?

मुष्टिकः – एतेषां समक्षं यदि वयं स्वपराक्रमं प्रदर्शयामस्तर्हि न केवलं महाराजः, अपि तु सर्वे आनन्दिता भवेयुः।

चाणूरः – आवां दृष्ट्वा कुमारयोः युवयोः दुर्बलहृदयेषु भीतिरुत्पन्ना चेत् सा अन्या कथा

मुष्टिकः – एवं चेत् सर्वेषां पुरस्तात् कृताञ्जली क्षमां याचतम् युवाम्। विमोक्ष्यावः। हा हा हा।

कृष्णः – गर्जन् मेघः कदाचिद् वर्षतीति न श्रुतम्। शब्दसंवरणं कुरु, नोचेत् काले वक्तुं शब्दाः न लभ्येरन्।

चाणूरः – किं चिन्तयसि गोपालक। इदं गोपीनां समक्षं करवादनेन नृत्याय स्थलं वर्तते! किञ्चित् वंशीनादं कुर्याद् सर्वे च विमुग्धा नृत्येयुः। इदं युद्धक्षेत्रम्। वीरैः सह अत्र मल्लयुद्धं विधेयम्। श्रवणेन एव हृत्कम्पः प्रारब्धः इत भाति!! अथवा हृदयं विदीर्णमेव। हा हा हा।

मुष्टिकः – अनुज चाणूर अहं चिन्तयामि गोपगोपीनां समक्षमेव एतयोः सर्वं वीरत्वम्, अन्यत्र किञ्चिदपि नास्ति। हा हा हा।

चाणूरः – किमर्थं मुखात् किमपि न निर्गच्छति। किञ्चित् नवनीतं भुक्त्वा आगच्छतम्। तदा यदि किमपि निर्गच्छेत्। (क्रुद्धः सन् बलरामः तौ हन्तुमुद्यतः। कृष्णस्तं वारयति।)

मुष्टिकः – मिथ्यैव वीरत्वमेषां प्रसृतं सर्वत्र। सत्यमेव यदि युवयोः वीरत्वं स्यात् तदा एवम् अकिञ्चित्करौ निश्चलौ अभूत्वा मल्लभूमौ प्रवर्तेताम्

कृष्णः – वयं जानीमो यत् मल्लयुद्धे आहूयते चेत् अवश्यमेव सम्मुखं गन्तव्यम्। परन्तु मल्लयुद्धे सन्ति केचन नियमाः। अस्मिन् मल्लयुद्धे तेषु मुख्यः एकः व्यत्यस्तः भवति।

कंसः – कः सः नियमः?

कृष्णः – मल्लयुद्धं द्वयोः समबलयोर्मध्ये विधेयम्। आवां बालकौ। भवन्तौ च मल्लशिरोमणिसमौ। तस्मात् आवाभ्यां सह भवतोः मल्लयुद्धम् नीतिगर्हितम्।

चाणूरः – न, , एतद् नीतिगर्हितं नास्ति। क्षुद्रस्यापि सर्पस्य विषं स्वल्पं न भवति। अग्नेः स्वल्पोऽपि विस्फुलिङ्गः महदेकम् अरण्यं विनाशयितुं अलम्। तस्मात् वीरेषु नास्ति गुरुलघुभावः।

कंसः – काकासुरबकासुरादीनाम् असुरश्रेष्ठानां हन्तारौ युवाम् वीरश्रेष्ठौ। अतो समानामेव एव युद्धमत्र प्रवर्तते। रे चाणूर न जाने एताभ्यां मनुष्याभ्यां सह युद्धे युवयोः भीतिः कुतः? यदि सत्यमेव बिभीथः तर्हि सर्वेषां पुरस्तात् नतमस्तकौ क्षमां याचतम्। अन्यथा राजवचनं यदि न पालयेयाथां, युवाभ्यां सह सर्वान् गोकुलवासिनः कारारुद्धान् विधास्यामि।

बलरामः – तेन किमपि प्रयोजनं नास्ति।

कृष्णः – एतावन्तं कालं यावत् भवते अवसरः प्रदीयते स्म, येन आत्मानं न्यायपथा चालयितुं शक्नुयात् भवान्। परन्तु भवतः अन्तिमः कालः समुपस्थितः। काले समायाते सुभाषितान्यपि निन्दावचांसि इव मन्यन्ते जनाः। मल्लयुद्धार्थम् आवां सज्जौ। मुर्खौ, प्रदर्शयतम् युवयोः युद्धकौशलमथवा वीरत्वं केवलं युवयोः वचस्येव।

(घोरं युद्धं – कृष्णचाणूरयोः, बलराममुष्टिकयोर्मध्ये। तयोः वधानन्तरं द्वौ रक्षिणौ अपि युद्धार्थं समुपस्थितौ। तौ अपि कृष्णवलरामाभ्यां हतौ।)

कंसः – (सिंहासनात् समुत्थाय) दुर्बलैः सह सङ्गरे जितः सन् आत्मानं वीरपुङ्गवं मा भावय। यस्य गर्जनेन त्रिलोकः कम्पते, यस्य बाहुबलं देवा अपि स्पृहयन्ति, सोऽयं कंसः ते भाविनीं गतिं निर्धारयितुं मल्लाङ्गनम् प्रविशति।

कृष्णः – धरणि! धैर्यमाधत्त। कालः समागतः। हृदयं ते शीतलं विधास्यामि, नाशयामि दुर्वृत्तं लोकपीडकम् कंसम्।

(कृष्णकंसयोर्मध्ये युद्धमारब्धम्। युद्धे कंसस्य वधः अभवत्)

कृष्णः – (सभ्यानां पुरतः दृप्तस्वरेण)

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।

अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्।।

परित्राणाय साधूनां विनाशाय च दुष्कृताम्।

धर्मसंस्थापनार्थाय सम्भवामि युगे युगे।।

(ततः पुष्पवर्षणं, शङ्खध्वनिः जयध्वनिश्च – जयतां श्रीकृष्णबलरामौ, जयतां श्रीकृष्णबलरामौ।)