Swami Vivekananda

शिकागो-भाषणानि

प्रथमम् भाषणम्

(११.०९.१८९३) त्र्यशीत्यधिकाष्टादशशततम-ईशवीवर्षस्य सेप्टेम्बर्मासस्य एकादशेऽहनि शिकागोनगरे विश्वधर्मसम्मेलने स्वामिना विवेकानन्देन अभ्यर्थनायाः उत्तरम् प्रदत्तम्)

स्वसारो भ्रातरश्च अमेरिकीयाः।

भवद्भिः अस्मभ्यम् सत्कारपूर्वकम् हार्दम् च यत् स्वागतम् व्याहृतम् तत् प्रतिवक्तुम् उत्तिष्ठतः मे हृदयम् अवर्णनीयेन आनन्देन पृणाति। विश्वस्य प्राचीनतमस्य सन्न्यासिसंघस्य प्रतिनिधिरूपेण भवद्भ्यः कृतज्ञताम् दर्शयामि। सर्वेषाम् धर्माणाम् जननीस्वरूपस्य धर्मस्य प्रतिनिधिरूपेण भवताम् कार्तज्ञ्यम् आविष्करोमि। सर्वविधानाम् जातीनाम् सम्प्रदायानाम् च कोटिशः हिन्दुजनानाम् पक्षतः भवद्भ्यः धन्यवादान् ज्ञापयामि।

वेदिकायाम् आसीनैः कैश्चिद् वक्तृभिरपि अहम् अनुगृहीतोऽस्मि यैः प्राच्यप्रतिनिधीन् उद्दिश्य भवद्भ्य उक्तं यद् मन्ये विभिन्नान् प्रदेशान् प्रति सहिष्णुभावम् बिभ्राणाः एते सुदूरदेशेभ्यः आगताः सज्जनाः सत्कारस्य अधिकारिणःइति। तद्धर्मीयत्वात् आत्मानम् गौरवान्वितम् मन्ये, येन जगते उभे सहिष्णुताम् सार्वभौमस्वीकृतिम् च शिक्षिते। वयम् न केवलम् सार्वभौमसहिष्णुताम् विश्वसिमः अपि तु विश्वे धर्माः सत्याः इति मन्यामहे। मेदिन्याः समेषाम् धर्माणाम् विश्वेषाम् देशानाम् च उपद्रुतेभ्यः निर्वासितेभ्यः च शरणम् ददानस्य देशस्याहम् इति आत्मानम् गर्वितम् मन्ये।

यस्मिन् वर्षे रोमणानाम् अत्याचारैः येषाम् पवित्रम् मन्दिरम् चूर्णीकृतम् तस्मिन्नेव वर्षे ये दक्षिणभारतम् समागत्य शरणम् गृहीतवन्तः तेषाम् इसरियलदेशीयानाम् शुद्धतमान् शेषान् अस्माकम् हृदि वयम् धारयामः इति वदन्नहम् गौरवम् अनुभवामि। उदात्तस्य हरिरथोष्ट्रस्य देशस्य शेषेभ्यः शरणम् दत्त्वा तेषाम् सम्प्रति अपि उन्नतिम् कुर्वाणस्य धर्मस्य अन्तर्भुक्तत्वाद् अहम् गर्वम् अनुभवामि। अयि भ्रातरः, अहम् भवताम् पुरस्ताद् कस्यचित् स्तोत्रस्य कानिचन वाक्यानि उद्धरिष्यामि, यावद् अहम् स्मरामि, यानि वाक्यानि अहम् अतिशैशवात् आवर्तये तथा यानि च लक्षशः मानवाः अपि दिने दिने आवर्तयन्ते। तानि हि

रुचीना वैचित्र्यादृजुकुटिलननापथजुषाम्।

नृणामेको गम्यस्त्वमसि पयसामर्णव इव।।

यथा भिन्नस्थानप्रभवाः जलप्रवाहाः समुद्रम् एव प्रयान्ति तथा हे प्रभो, भिन्नप्रवृत्तिवशाद् मानवाः विभिन्नान् पथः आश्रयन्ते, ते पन्थानः परस्पराद् भिन्नाः इव यद्यपि प्रतीयन्ते, सरलाः कुटिलाः वा, सर्वेऽपि त्वाम् प्रति गच्छन्ति।

इदम् प्रवर्तमानम् सम्मेलनम् यद् अद्य यावत् अनुष्ठितेषु सर्वेषु महनीयेषु सम्मेलनेषु अन्यतमम् , गीतायाम् उद्घुष्टस्य अद्भुतस्य सिद्धान्तस्य समर्थनम् करोति। गीतोक्तिर्हि

ये यथा माम् प्रपद्यन्ते तांस्तथैव भजाम्यम्।

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः।।

अर्थात् यः कोऽपि येन केनापि प्रकारेण माम् समुपागच्छति अहम् तम् उपैमि। हे पार्थ, मनुष्याः सर्वशः मद्गामि वर्त्म एव अनुवर्तन्ते इति।

साम्प्रदायिकता परमतासहिष्णुता तथा एताभ्याम् समुद्भूता भयावहमतान्धता इति एताभिः बहुकालम् इयम् सुन्दरी धरा व्याप्ता अस्ति। एताभिः इयम् पृथिवी हिंसया पूरिता, मुहुर्मुहुः मानवरक्तेन सिक्ता, सभ्यता विनाशिता तथा अखण्डदेशाः विषादम् प्रापिताः। यदि एते घोरा राक्षसा न अभविष्यन् तर्हि अयम् मानवसमाजः यावद् प्रगतः अस्ति ततोऽपि अधिकप्रगतः अभविष्यत्। परन्तु तेषाम् कालः समुपस्थितः अस्ति, अहम् अत्यन्तम् उत्कण्ठापूर्वकम् आशासे यत् अस्य सम्मेलनस्य सत्काराय या घण्टा अद्य प्रातः निनदिता सा , सर्वविधायाः मतान्धतायाः, कलमेन करवालेन वा सर्वविधानाम् उपद्रवाणाम् , तथा, समानम् एव लक्ष्यम् प्रति अभिमुखीकृत्य गच्छत्सु मानवेषु विद्यमानायाः सहानुभूतिशून्यतायाः च , मृत्युध्वनिः सिद्धा भवतु इति।