Maharshi Astavakra

महर्षिः अष्टावक्रः

पुरा आसीद् आरुणिः औद्दालको नाम महर्षिः अस्माकं पुण्यभूमौ भारते। तस्य श्वेतकेतुनामा एकः पुत्रः सुजातानाम्नी एका कन्या च आसीत्। औद्दालको निजकन्यां सुजातां स्वशिष्याय सुविज्ञाय कहोडाय प्रादात्। महर्षिः अष्टावक्रः अस्याः सुजातायाः विख्यातकीर्तिः पुत्रः। महर्षेः अष्टावक्रस्य शिष्येषु प्रमुखा आसन् राजर्षिः जनकः, महर्षिः याज्ञवल्क्यः चेत्यादयः। नृपाय जनकाय महर्षिः अष्टावक्रः यद् मोक्षजनकं शास्त्रम् उपदिष्टवान् तद् अष्टावक्रसंहिता अष्टावक्रगीता वेति नाम्ना सुविदितं समेषाम्। भगवान् श्रीरामकृष्णदेवः तदीयान् कांश्चित् बालशिष्यान् एतदध्ययनाय समादिशति स्म। अद्य महति साधुसमागमसुन्दरे अस्मिन् सायंकाले परमपूज्यस्य महर्षेः अष्टावक्रस्य बाल्यजीवनावलम्बिनं कमपि वृत्तान्तम् अभिनयद्वारा भवतां समक्षम् उपस्थापयितुकामाः वयम् पराम् मुदम् अनुभवन्तः आत्मधन्यतां मन्यामहे।

प्रथमं दृश्यम्

(महर्षेः औद्दालकस्य आश्रमे दृश्यते वेदमधीयानानां विद्यार्थिनां समवायः। )

(महर्षिः औद्दालकः शिष्यान् वेदमध्यापयति। तत्र समुपस्थितोऽस्ति माणवकः अष्टावक्रः।)

औद्दालकःप्रियाः मदीयशिष्यगणाः! वेदानां सामगानं भगवतः अतिप्रियमस्ति। तादृशं गानं युष्मान् अद्याहम् अध्यापयामि। गानमेतत् हस्तवीणया सम्पाद्यते। सह मया युष्माभिरपि गीयताम्। (एवं प्रचलदस्ति गानम्। )

(अध्ययनपरिसमाप्तेः परम् अखिलेषु विद्यार्थिषु गृहं गतेषु विषण्णवदनः अष्टावक्रः बालेन श्वेतकेतुना सह उपविशन्नस्ति। अवलोक्य एतत् औद्दालकः पृच्छति-)

औद्दालकःवत्स अष्टावक्र! कथं त्वं विषण्णवदनः दृश्यसे? किं ते शरीरं नास्ति निरामयम्? किं निमित्तम् इयं ते विषण्णता?

अष्टावक्रःभो महर्षिप्रवर! हे गुरो! हे मातामह ! आ बाल्याद् एक एव प्रश्नः दहति दहन इव मे मानसम्। नाहम् अस्मि समर्थः सोढुं तादृशीं मनोवेदनाम्।

औद्दालकःवत्स ! कोऽस्ति तादृशः प्रश्नः तव शरीरं स्वान्तं च दहन् इव?

अष्टावक्रःगुरुदेव! कोऽस्ति मे जनकःइति बहुधा मातरं पृष्टवान्। मौनम् अश्रुमोचनं चान्तरेण न किञ्चित् स्वान्तशान्तकारि उत्तरम् अधिगच्छामि कालमेतावन्तं यावत्। हे गुरो! अस्यां जगत्यां न किञ्चिदस्ति भवदीयम् अगोचरम्। भवान् एवालम् एतादृशस्य मम प्रश्नस्य सम्यगुत्तरदानाय।

औद्दालकःपुत्र अष्टावक्र! बालोऽसि अधुना। प्रकृतिकठोरं तादृशं सत्यं निशम्य किं त्वमात्मानं संयतं कर्तुं शक्नुयाः?

अष्टावक्रः(दृढस्वरेण) भो महर्षे! साहं साहं दुःखानि संवृत्तं कठोरं मे हृदयम्। न मां पुनः किञ्चित् समुपस्थितं दुःखं विचलितं कुर्वीत। उच्यतां कृपया भवद्भिः। सज्जोऽस्मि श्रवणाय तावत्।

औद्दालकःयदि एवं तर्हि श्रूयतां वत्स! प्रायः द्वादशभ्यो वर्षेभ्यः पूर्वं मातुरुदरे त्वयि शयाने धनहीनः तव जनकः मिथिलाधिपतेः सभां कमपि अर्थं कामयमानः एति स्म।

अष्टावक्रःततः परम्।

औद्दालकःकामना तस्यैव तदानीं पूर्णतां गच्छेत् यदि तदीयेन सभापण्डितेन वन्दी इत्यभिधानेन शास्त्रार्थे स विजयं प्राप्नुयात्। परन्तु ज्ञानाभिमानिनस्तस्य आसीदेका अमोघा प्रतिज्ञा।

अष्टावक्रःकीदृशी सा अमोघा प्रतिज्ञा गुरुदेव !

औद्दालकःवन्दिना शास्त्रार्थे पराजयं लभमानः सलिलसमाधिं प्राप्स्यति इत्यासीत् तदीया साभिमाना प्रतिज्ञा। हन्त, दौर्भाग्यात् शास्त्रार्थे पराजयं लभमानस्ते पिता यथानियमं स्वीयान् प्रियान् प्राणान् जहौ। न केवलस्ते जनकः, अपि तु बहवो निर्दोषा दोषज्ञाः अस्य नियमेन निगडिताः प्राणान् मुमुचुः।

अष्टावक्रः(सरोषम्)किमयं वन्दी अधुनापि जनकस्य राजसभायां विद्यते? किं तदीयः अत्याचारः अधुनापि चलति लीलया?

औद्दालकःआम्, अस्त्येव। परन्तु कोऽर्थस्ते तथा जिज्ञासया?

अष्टावक्रः(दृढस्वरेण)अस्ति प्रयोजनं गुरुदेव! यावदयं वन्दी नाभिभवनीयः तावदशान्तमिदं मे मनः स्थास्यति।

औद्दालकःशान्तो भव पुत्र! शान्तो भव। न ते शिक्षणमधुना पूर्णतां गाहते। इदं ते वयः शरीरं च राजसभायां ते प्रवेशाधिकारं तिरस्करोति। वन्दिना सह तर्कयुद्धं तु दूरात् अपास्तमिव प्रतिभाति।

अष्टावक्रःभो आचार्य! न हि विकलमङ्गम् अङ्गिनः अज्ञानत्वप्रयोजकम्। न वा अधिकं वयो विद्वत्त्वं तस्य स्फोरयति। आज्ञापयतु मां भवान् तावत्। भवत्प्रदत्तायां शिक्षायां विद्यते मे द्रढीयान् विश्वासः। गुरुकृपालवमासाद्य उपयुक्तां शिक्षां दातुमलमयं जनः तस्मै अभिमानिने वन्दिने।

औद्दालकःगम्यतां वत्स! विजयी भव। मातुलं त्वदीयं श्वेतकेतुमपि साकं नय।

द्वितीयं दृश्यम्

(नेपथ्येमिथिलाधिपतिना निर्वर्तितस्य वाजपेययज्ञस्य कारणात् बहुदूरात् समागताः विद्यासम्भारभासुरभूसुराः बहुविधाश्च विद्वांसः राजसभां मण्डयमानाः सन्ति। इतस्तु सहश्वेतकेतुः अष्टावक्रः मिथिलाराजसभाया द्वारं प्राप्तः। द्वारपालस्तु तं प्रविशन्तं वारयन् अस्ति।)

१ द्वारपालः(कुतूहलाक्रान्तः) कुत्र गच्छति रे बालक! किं वा ते आगमनोद्देश्यम्?

अष्टावक्रःराजसभां गन्तुमनाः अहम्। तत्र सभापण्डितेन वन्दिना तर्कयुद्धे मे वर्तते बलवती समीहा।

२ द्वारपालः(साट्टहासम्) नूनं भ्रान्तोऽसि, प्रमत्तवत् प्रलपसि खलु।

श्वेतकेतुःअवितथमयमाह। भो द्वारपाल! विधीयताम् मार्गः उन्मुक्तः। गमनं नौ न रुणद्धु भवान्।

(एतस्मिन्नवसरे एकः पण्डितः तेन मार्गेण गच्छन्नवलोकते)

१ द्वारपालःभो पण्डितवर्य! दृश्यतां बालकस्य वाचाटता।

२ द्वारपालःअपसर अपसर मा विरक्तो विधीयताम्। रे बाल! शिक्षा तावत्ते असमाप्ता इति प्रतिभाति। तावता अपि वन्दिना तर्कयुद्धं कामयमानोऽसि। गम्यतां, समयस्य वृथा अपचयं मा कार्षीः।

अष्टावक्रःकेवलेन वयसा वार्धक्येन वा कोऽपि भवेत् किमु पण्डितः? केशानां श्मश्रूणां च श्वेतीभवनं द्विजानां पतनं च पण्डितस्य मन्ये त्वत्सम्मता परिभाषा।

(मध्ये विरतिं जनयन् कश्चित् पण्डित आह )

वृद्धः पण्डितःवृद्धवद्भाषमाणः बालः किं पण्डितायते? मन्ये तव आसन्नं मरणम्। अस्माकं महापण्डितेन वन्दिना तुल्यः को वाऽन्यः विराजतेऽस्मिन् क्षितितले?

अष्टावक्रःभवान् तु कूपमण्डूकः प्रतिभाति। अस्माभिः सकृत्तर्के प्रवर्तमाने युष्माकं पण्डितः मध्येमार्गं त्रुट्यत् यानमिव अवस्थान्तरं गमिष्यति। तदानीं द्रक्ष्यसि।

वृद्धः पण्डितःहंहो, किमुक्तमनेन?

(नेपथ्येअत्रान्तरे कलहोऽयं महाराजस्य कर्णगोचरतां गतः। तेन स तं ब्राह्मणवटुं समीपानयनाय आदिशति।)

(अथ द्वारपालः धावन् प्रविश्य वदति – )

३ द्वारपालः महाराजस्य आदेशोऽयं यद् बालकद्वयस्य विदग्धसभायां प्रवेशाधिकारो विधीयताम् इति।

तृतीयं दृश्यम्

नेपथ्ये(अष्टावक्रः सहश्वेतकेतुः लगुडमवलम्बमानः राजसभायां समुपस्थितः। तत्र समुपस्थिताः आसन् सभापण्डितेन वन्दिना सह विविधा विपश्चितः स्वयं मिथिलाधिपश्च। अवलोक्य अष्टावक्रं राजानं विहाय सर्वे उच्चैः हसन्ति स्म। एतद्दृष्ट्वा अष्टावक्रोऽपि उच्चैः हास्यं कुर्वन्नस्ति।)

जनकःअयि ब्राह्मणकुमार! किं निमित्तं राजसभामिमां अवलोकमानः हसति भवान्?

अष्टावक्रः(हास्यं कुर्वन्) भो राजन्! गृह्यतां मे प्रणामः। भावयामि स्माहं यद् भवतः परिषद् इयम् अभिरूपभूयिष्ठा इति। परन्तु विराजते महामूर्खसमवायः भवत्सभायाम्। इदमेव मे हास्यकारणम्। परन्त्वधुना भवान् एतान् मूर्खान् पृच्छतुकिं तेषां हास्यकारणम् इति।

(सर्वे नीरवाः। नायं बालकः साधारणः इति राजा अवगतवान्। अतस्तेनोत्थाय प्रणिपत्य प्रश्नः समारब्धः।)

जनकःभो ब्राह्मणदेव! कृपया शान्तो भवतु भवान्। अस्यां राजसभायां न तावत् योग्यः सम्मानः भवते प्रदर्शितः। तदर्थं वयं लज्जिताः। कृपया क्षम्यन्ताम् एते सभाजनाः। भवदागमनहेतुः प्रकाश्यतां कृपया ब्रह्मन् !

अष्टावक्रःआगतोऽहमस्मि भवत्सभापण्डितेन वन्दिना शास्त्रार्थं कर्तुकामः। क्वाऽस्ति स पण्डितः। साम्प्रतमस्यां सभायां सर्वेषां समक्षं तर्कयुद्धाय तम् आकारयामि।

जनकःभो बालक! वन्दिना सह तर्काय न ते वय इदमुपयुक्तम्। तेन सह तर्कविचारो नाम मरणस्याह्वानमन्तरेण न किमपि अन्यत्। तर्कयुद्धे पराजयं प्राप्तस्य सलिलसमाधिः अवश्यम्भावी। अतः कृपया भवान् गृहं प्रत्यगच्छतु। अध्ययनसमाप्तिं च विदधातु।

अष्टावक्रःभो राजन्! वन्दिना सह शास्त्रार्थाय गुरुकृपा एव पर्याप्ता। अपि च, किं वा भीः मरणादमरस्य? महोद्देश्यसाधनाय प्राणत्यागः न मृत्युरुच्यते। क्रियताम् आह्वानं भवता पण्डितस्य वन्दिनः।

(संसदि मध्येपण्डितं राजमानः पुष्पमाल्यशोभितगलः अभिमानमण्डितो वन्दी दम्भेन वदन्नस्ति)

वन्दीबाल! अहमेवास्मि आचार्यः वन्दी। सन्नद्धोऽस्मि त्वया सह तर्कयुद्धाय। जानासि किं त्वमस्माकं नियमम्?

श्वेतकेतुःएकस्य बहुधा श्रवणेन अलं वचसः। देशस्य सकलानां विदितचरः अवलिप्तस्य भवतः नियमः।

वृद्धः पण्डितःरक्षतु इदानीं स्वं तस्मात् अवलेपलिप्तात् नियमात्।

वन्दी(सव्यङ्गम्) इष्यते चेत् युवां युगपत् अस्माभिः सह विचारं कर्तुमर्हथः।

अष्टावक्रःएक एवाहं भवता विचाराय पर्याप्तोऽस्मि।

(तदानीं तर्कयुद्धार्थं आसनयोः द्वौ उपविष्टौ आस्ताम्। शङ्खध्वनिः श्रूयते। सर्वे कुतूहलाक्रान्ताः पश्यन्ति स्म। )

वन्दीबाल! उच्यतां तावत् कोऽयं प्रपञ्चो नाम?

वृद्धः पण्डितःदीयतामुत्तरं वत्स! अधुना।

अष्टावक्रःयत्किञ्चिदिदं दृश्यते स एव प्रपञ्चः। यत्किञ्चिद् दृश्यते इत्यस्य किं तात्पर्यं भो वन्दिन्!

वन्दीयन्मनसः इन्द्रियाणां च गोचरः, यदेव स्वयं वयं जानीमः, तदेव त्वदुक्तप्रश्नतात्पर्यम्। अथ द्रष्टारं को जानाति? को वा पश्यति?

अष्टावक्रःनाऽन्येन केनापि उपायेन तस्य दर्शनाय प्रयोजनमस्ति। यथा आदित्यं प्रकाशयितुं प्रदीपेन न किञ्चित् प्रयोजनमस्ति। सूर्यो भवति स्वयं प्रकाशमानः। तथैव अयमात्मा स्वयं ज्योतिः स्वयं प्रकाशमानश्च वर्तते।(भूयसा साधुवादेन सभास्थलं भवति प्रकम्पितम्।) अथ कस्मादयं प्रपञ्चः आगतः?

वन्दीप्रपञ्चोऽयं ब्रह्मणः समागतः। अधुना उच्यतां कथंकारमयं समागतः?

अष्टावक्रःमायया प्रपञ्चमिमं जनयति स्म ब्रह्म। तदेव तस्य रक्षकं संहारकं च। तदाम्नातं श्रुतौयतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद् ब्रह्मेति। कथं प्रपञ्चं पालयति संहरति तद् ब्रह्म?

वन्दीऊर्णनाभिवत् इति जानीहि। यथा ऊर्णनाभिः स्वकीयं जालं स्वयमेव कुर्वन् पालयन् अन्ते च तत् संहरन् स्वीयशरीरे विभाति तथैव नित्यशुद्धबुद्धमुक्तस्वभावः परमात्मा आत्ममायां समाश्रित्य जगतोऽस्य सृष्टौ स्थितौ भङ्गे च कारणमस्ति। अथ कोऽयं जीवः?

अष्टावक्रःजीवोऽयं साक्षात् आत्मा एव। निर्विकार एषः अविद्यया आत्मानं शरीरं मनश्च मनुते। यया अयमनुभूयते तेन संसारः। अथ का अविद्या नाम?

वन्दीयया अविकारे विकारबुद्धिः, अविनश्वरे नश्वरविज्ञानम्, अनात्मनि आत्मप्रत्ययश्च जायते, अनित्ये अस्मिन् प्रपञ्चे नित्यत्वबुद्धिः यया वा अध्यवसीयते, सैवास्ति अविद्या। (साधुवादध्वनिध्वनिता संसत् सञ्जाता) अथ इयं विद्या किंस्वरूपा?

अष्टावक्रःआत्मज्ञानमेव विद्या। अहं ममेति भेदबुद्धिः द्वैतभानञ्च यया समूलघातं निहन्यते सा विद्या नाम। सा एव बन्धध्वंसैकहेतुः उच्यते।(पुनः साधुवादध्वनिः समुत्थितः संसदः) विद्या एव विमलं विज्ञानं दत्ते, येन जायते स्वस्वरूपावभासः। तर्हि किं स्वस्वरूपमुच्यते।

वन्दीब्रह्म एवास्ति स्वस्वरूपम्। नेह नानास्ति किञ्चन। अथ किं तद् ब्रह्म?

अष्टावक्रःतदेव ब्रह्म यत् सत्यं ज्ञानमनन्तमस्ति। उपनिषत्सु ब्रह्मणः लक्षणं बहुधा समाम्नातमस्ति। कस्तर्हि ब्रह्मविज्ञानोपायः?

वन्दीब्रह्मविज्ञानाय मार्गद्वयी सुप्रसिद्धा। एकस्तावत् नेति नेतिइति निषेधमुखेन प्रथते, द्वितीयस्तु यथानिर्दिष्टं श्रुतौ ब्रह्मेति विधिमुखेन प्रशस्तः। अथ किंस्वरूपः असौ ब्रह्मविदस्ति?

अष्टावक्रःदुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः वीतरागभयक्रोधः स्थितधीः एव ब्रह्मविदुच्यते। किं तद् ब्रह्म प्रवचनद्वारा वा बुद्ध्या वा बहुना श्रुतेन वा अधिगम्यते?

वन्दीन प्रवचनेन, न मेधया, न वा बहुना श्रुतेन, अयमात्मा समधिगम्यते। अथ किं तर्केण तद् ब्रह्म आप्यते?

अष्टावक्रःन हि न हि भोः! कथमतर्क्यं तत् तर्केण आप्तुं शक्यते। नैषा तर्केण मतिरापनेयाइति गर्जति किल निगमगीः। व्यासेनापि तर्काऽप्रतिष्ठानात् इति सूत्रं प्रणयता तर्कस्य अप्रतिष्ठा समुद्घोषिता। परन्तु एतदेव वक्तुं शक्यते यद् ब्रह्मणः यथार्थस्वरूपनिश्चितौ अस्ति तर्कस्य काचित् उपयोगिता। अथ कश्चिदत्र विद्यते ब्रह्मविद् भोः?

वन्दीआम्। अहं ब्रह्मविदस्मि। तदेव सर्वव्यापि मम अनुभवविषयतां गतमस्ति।

पण्डितः(एकाकी उच्चैःस्वरेण) विजयतां महितमण्डलमण्डनः ब्रह्मविद् वरिष्ठः।

अष्टावक्रःकिं ब्रह्मज्ञानिनः स्वान्तमहंकारास्पदं सहिंसं कुत्रचिदनुभूयते।

वन्दीशान्तं पापम्। सर्वभूतसुहृदः ब्रह्मज्ञानिनः स्वान्तं तु अकारणकरुणोपेतं मैत्रीमण्डितं वर्तते खलु। तत्र हिंसाया गन्धमपि न घ्रातुं शक्यते।

अष्टावक्रःएवं तर्हि भवदहंकारजन्येन नियमेव हिंसनेन च कियन्तः निर्दोषाः विद्वांसः गतासवः अभूवन् इति विदितमेवास्ति भवतः। कथं तर्हि ब्रह्मज्ञत्वं सम्भाव्यते भवति। (वन्दी निरुत्तरः संवृत्तः श्रुत्वैतत्)

अष्टावक्रःआचार्यवर्य! दीयतां समुचितमुत्तरम्। (वन्दी तु तथापि निर्वाक् अस्ति। अवगतं निखिलेन यदष्टावक्रः तर्कयुद्धे विजयश्रीविमण्डित इति। न तत्प्रश्नस्य वन्दिनः समीपे अस्ति किमपि उत्तरम्। अष्टावक्रस्य जयध्वनिं कारं कारं कृतकृत्यान् मन्यन्ते स्वान् सर्वे। पुष्पमाल्यं धापयति तं भूपतिः। अनन्तरं वदति वेदनादीनः वन्दी )

वन्दीअस्मि पराजयं मे स्वीकुर्वाणः अहम्। सज्जः अस्मि अहं सम्प्रति सलिलसमाधिग्रहणाय।

अष्टावक्रःनाहमत्रागतः भवते जलसमाधिं दातुकामः। विदन्ति विदितवेदितव्याः भवन्तो यद् वन्दिनः अस्य महाभिमानसमुत्थेन कुत्सितनियमेन बहूनां जीविनां जीवितानि अकालेन गतानि। अपि स्मर्यते भवद्भिः आचार्यस्य कहोडस्य वृत्तान्तः। तस्यैव अहमस्मि पुत्रः।

सर्वे – (समस्वरेण भाषन्ते) अहो तदीयपुत्रो भवान् खलु?

अष्टावक्रःआ जन्मनः विरहितः अयं जनः पितृस्नेहात् तदीयानुशासनाच्च एतादृशस्य कुनियमस्य परिणामं भुञ्जानः।
( सर्वे चित्रप्रतिमावत् निष्पन्दाः निरुत्तराश्च अवलोक्यन्ते।)
यद्वा अस्तु नियतिः केन बाध्यते। अहमद्य विजयविमण्डितः अस्मि। नियमानुसारं मृत्युदण्डः दातुं शक्यते भवते। परन्तु क्षमैव नः प्रत्यपकारः।

वन्दी(सक्रन्दनम्) हे बहुवित्प्रवर! मृत्युदण्डादपि अयं क्षमादण्डः अतिरिच्यते। पापेनानेन कृतानि नैकानि पापानि। क्षम्यताम् एष जनः।

अष्टावक्रःभो आचार्य ! भवतु भवान् निरन्तरं अनुतापदहनदग्ध इति एतदेव प्रायश्चित्तम्।

वन्दी(सप्रणामम्) यथाज्ञा भवतः। विजयतां बालविद्वान् , विजयताम् अष्टावक्रः।

अष्टावक्रःभो महाराज ! शास्त्रं जीवनं विकाशयति, शस्त्रं तु तद् विनाशयति। यावानयं पुराणः हिमालयः यावती इयं पुरातनी भगवती गङ्गा, तावत् पुरातनं सत्यमिदं यत् न हिंसया हिंसा शाम्यति। न हि हिंसां श्रयन् कोऽपि जयमाप्नुयात्।

जनकःअद्य प्रभृति अयं कुनियमः मदीयराज्ये न प्रचलिष्यति इति जनकस्य मम अयं समुद्घोषः सावधानेन अवधार्यताम्। बालविदुषा अनेन अष्टावक्रेण नयनानि नः समुन्मीलितानि। अहंकारः हिंसा इत्येते मनुष्याणां विवेकं वेगेन नाशयन्ति। कुर्वन्ति कोविदान् किंकर्त्तव्यविमूढान्। धन्यो भवान्, हे विद्वन् धन्यः (इति वदन्तः सर्वे प्रणमन्ति।)

(अनन्तरं सर्वे उत्थिताः समस्वरेण वदन्ति विजयतां महर्षिः अष्टावक्रः, विजयतां महाराजः, विजयतां बालविद्वान् अष्टावक्रः। शङ्खश्च निनादितः।)

समाप्तम्