Sri Sarada Devi

अहं माता समेषाम् माता।

(आमि मा सकलेर मा इति वङीयपुस्तकाद् गृहीताः एते प्रसंगाः)

1.प्रसंगः (पृष्ठम् 16, 17)

श्रीमाता अग्रजा लक्ष्मीः च उत्तरपश्चिमाञ्चलस्य वृद्धसन्न्यासिनः स्वामिनः पूर्णानन्दात् शक्तिमन्त्रस्य दीक्षाम् जग्रहतुः। परम् श्रीरामकृष्णः श्रीमातुः जिह्वायाम् बीजमन्त्रम् लिखित्वा दीक्षाम् अदात्। आदिनम् सर्वाणि कार्याणि सम्यक्तया कृत्वा सा गभीरायाम् निशायाम् तथा प्रत्यूषे च ध्याने जपे च निमग्ना भवति स्म। तस्याः एताम् नीरवसाधनाम् बाह्याः ज्ञातुम् न प्रभवन्ति स्म। एकस्याम् कौमुद्याम् केवलम् स्वामी योगानन्दः मुरलीवादनगृहस्य द्वारसम्मुखे श्रीमातरम् समाधिस्थाम् ददर्श।

परवर्तिनि काले कदाचित् कथाच्छलेन आत्मीयाम् नलिनीम् श्रीमाता अवदत् यदा अहम् युष्माकम् वयसि इव वयसि कियद् अकरवम्। एतत् सर्वम् कृत्वापि एकलक्षम् जपम् करोमि स्म। परिश्रमः आवश्यकः। परिश्रमम् विना किमपि भवितुम् अर्हति किम्। सांसारिककर्मबाहुल्ये सत्यपि कश्चित् समयः निश्चेतव्यः। मम कथाम् किम् कथयानि। अहम् तदानीम् दक्षिणेश्वरे निशायाम् त्रिवादने प्रबुध्य जपम् करोमि स्म। बाह्यसंज्ञा प्रायः लुप्ता भवति स्म। कदाचित् ज्योत्स्नायाम् मुरलीवादनगृहस्य सोपानपर्वणि उपविश्य जपरता अहम्। सर्वत्र नीरवता। मम तदवस्थायाम् श्रीठक्कुरः कदा झावुतलाम् शौचार्थम् अगमत् न किञ्चिद् अवेदिषम्। अन्येषु दिनेषु पादत्राणस्य शब्दम् श्रुत्वा आकलयितुम् शक्नोमि स्म। तदानीम् मम आननम् अन्यादृशम् आसीत्अलङ्कृतम् , रक्तप्रान्ता शाटी। शरीराद् वस्त्रम् वायुना उड्डीय पतितम्, परन्तु चेतना नास्ति। कुमारः योगानन्दः तद्दिने श्रीठक्कुराय कमण्डलुम् दातुम् गच्छन् माम् तदवस्थाम् अपश्यत्। गतास्ते हि मे दिवसाः। ज्योत्स्नायाम् रात्रौ चन्द्रमण्डलम् दृष्ट्वा कृताञ्जलिः अवदम् – “तव एताम् ज्योत्स्नाम् इव मम मनः अपि निर्मलम् कुरु इति। हन्त! तदानीम् मम मनः कीदृशम् आसीत्। वृन्दा एकदा मम सम्मुखे एकाम् रौप्यस्थालिकाम् उपसर्पितवती, तदा मम बुक्कम् सा स्थालिका आहतवती इव।” श्रीमाता तदानीम् गभीरध्याने निमग्ना आसीत्। अत एव बाह्योऽयं शब्दः तस्याः प्राणेषु वज्रप्रहारम् इव चकार। तेन सा क्रन्दितवी अपि।

2. प्रसंगः

दक्षिणेश्वरे एकदा सन्ध्यायाः परम् श्रीमाता श्रीरामकृष्णस्य प्रकोष्ठम् भोजनम् स्थापयितुम् गता। तदानीम् श्रीरामकृष्णः नेत्रे निमिल्य खट्वायाम् शयानः आसीत्। अग्रजा लक्ष्मीः भोजनम् दत्त्वा गता इति मत्वा सः अवदत् द्वारम् पिधाय गच्छ” इति। श्रीमाता अवदत् – “आम् एषा पिदधामि”इति। श्रीमातुः कण्ठध्वनिम् श्रुत्वा श्रीरामकृष्णः संकुचितः भूत्वा अवदत् – “अहो भवती? अहम् अचिन्तयम् यत् लक्ष्मीः अस्ति। अन्यथा मा गृह्णातु।” पिधाय गच्छतु इति स्थले पिधाय गच्छ इति उक्तवान्। अतः महान् अपराधः कृतः इति सः अचिन्तयत्। न केवलम् तत् , रात्रौ स निद्रातुम् न शशाक। प्रातः मुरलीवादनगृहम् गत्वा श्रीमातुः समीपम् उपस्थाय अवदत् – “पश्यतु भोः। रात्रौ मया निद्रा न प्राप्ता, मुहुर्मुहुः अचिन्तयम् यत् कुतः एवम् रुक्षवचनम् अकथयम्।”

श्रीरामकृष्णः श्रीमातुः एवमेव समादरम् सदा करोति स्म। अत एव परवर्तिनि काले माता वदति स्म – अहम् ईदृशम् स्वामिनम् लब्धवती यत् स कदापि त्वम् इत्यपि माम् न उक्तवान्। ठक्कुरः मयि कदापि पुष्पेणापि आघातम् न कृतवान्।”

3.प्रसंगः (पृष्ठम् – 33, 35)

जयरामवाट्यां भोजनात् परं भक्ताः यदा उच्छिष्टम् अपसार्य तत्स्थानपरिष्करणाय प्रयुक्ताः तदा श्रीश्रीमा उक्तवती स्थापय, तदर्थं जनाः सन्ति इति। परं तत्कार्यं माता स्वयमेव करोति स्म। मातुः आत्मीयाः सर्वेषां वर्णीयाणाम् उच्छिष्टं परिष्कर्तुं नेच्छन्ति स्म, मातरमपि ते प्रार्थयन्ति यत् त्वं ब्राह्मणपुत्री गुरुरूपिणी। इमे सर्वे तव शिष्याः। कथमेतेषाम् उच्छिष्टं परिष्करोषि ? माता तदा उत्तरति अहं तु माता। पुत्रस्य माता न करिष्यति चेत् कः करिष्यति ? एकदा स्वामिविश्वेश्वरानन्दः यदा उच्छिष्टं स्वयं परिष्कर्तुं प्रवृत्तः तदा माता तस्य हस्तम् अवरुध्य तस्य सकाशात् स्थालिकां स्वीकृतवती, उक्तवती च – अहं त्वदर्थं किं वा कृतवती ? पुत्रः मातुः क्रोडे मलत्यागं करोति, अन्यदपि करोति, यूयं देवस्य अमूल्यरत्नानि। एकदा उच्छिष्टं परिष्कर्तुं मातरि प्रवृत्तायाम् नलिनीदिनामिका काचिद् उक्तवतीमातः, षट्त्रिंशज्जातीनाम् उच्छिष्टं स्वीकरोषि? माता श्रुत्वा उक्तवती सर्वं तु मम, षट्त्रिंशत् कुत्र?

4.प्रसंगः

कश्चित् सन्न्यासी एकदा मातरं पृष्टवान् – “भवती मठस्य सन्न्यासिनां सन्न्यासनाम्ना कथं तान्न आह्वयति ?” माता उत्तरितवती – “अहं माता किल, सन्न्यासनाम्ना आह्वानेन व्यथते मे मनः। अन्यः कश्चन सन्न्यासी पृष्टवान् – “भवती अस्मान् कथं पश्यति?” माता उत्तरितवती नारायणरूपेण पश्यामि। तदा सः उक्तवान् – “वयं तु भवत्याः पुत्राः। कथं नारायणरूपेण दृष्ट्वा पुत्ररूपेण द्रष्टुं शक्यते?” माता उक्तवती – “नारायणरूपेणापि पश्यामि, पुत्ररूपेणापि।

5.प्रसंगः

मातुलस्य प्रसन्नस्य पुत्री नलिनी एकदा ईस्लामीयकर्मकराय भोजनं परिवेशयति स्म, तदा आलिन्दात् क्षिप्त्वा क्षिप्त्वा भोजनं परिवेशयति स्म। सहसा तस्याः इत्थं व्यवहारः मातुः नयनपथगामी अभवत्। माता दृष्ट्वैव उक्तवती– “अरे किमिदम्। एवं रीत्या भोजनं परिवेश्यते वा?” माता नलिन्याः सकाशात् स्थालिकां स्वीकृत्य स्वहस्तेन परिवेशितवती। भोजनात्परम् उच्छिष्टम् अपसार्य यदा गोमयपयः सिञ्चति स्म, तदा नलिनी आगत्य उक्तवती – “पितृस्वसः, भवत्याः धर्मः गमिष्यति।तदा माता उक्तवती– “पुत्रस्य उच्छिष्टपरिष्करणेन धर्मः गच्छति वा?”

6.प्रसंगः

उद्बोधने पूर्ववङ्गस्य एकस्यै बालिकायै दीक्षां दत्तवती माता। दीक्षानन्तरं तां पार्श्वे उपवेश्य भोजनं भोजितवती। परं तस्याः हस्ते एककलशपरिमितं जलं स्थापयित्वा उक्तवती हस्तौ प्रक्षालय। हस्तप्रक्षालनानन्तरं तस्यै इतोऽपि कलशं जलं दत्त्वा उक्तवती चरणौ प्रक्षालय। सा बालिका मातृस्नेहास्वादं लब्ध्वा क्रन्दितवती। परन्तु अयम् आदेशः कथं पालयितुं शक्यः? तदा माता उक्तवतीत्वं मम का? सा उत्तरितवती – “अहं तव पुत्री।तदा माता उक्तवती – “तर्हि यदहम् आदिशामि तत् शृणु। चरणौ प्रक्षालय।

7.प्रसंगः (पत्रम् – 37, 38)

एकदा कश्चिद् गृहस्थः युवकभक्तः मातरम् प्रति उक्तवान् मातः, अहं संसारे बहु कष्टम् अनुभूतवान्। त्वमेव मे गुरुः, त्वमेव मे इष्टः। नाहम् अन्यत् किमपि वेद्मि। सत्यमेव अहं एतादृशानि अन्याय्यकार्याणि कृतवान् यत् त्वत्सकाशे वक्तुमपि न शक्नोमि। तथापि तव दयया जीवामि। माता सस्नेहं पुत्रस्य शिरसि हस्तं संस्थाप्य उक्तवती मातुः समीपे पुत्रः पुत्रः एव। सः पुत्रः मातुः स्नेहस्पर्शमवाप्य उक्तवान् सत्यं मातः। परन्तु एवं दया त्वत्सकाशात् प्राप्ता। तस्मात् मनसि कदापि अयं विषयो नायाति यत् तव दयाप्राप्तिः अत्यन्तं सुलभा।

8.प्रसंगः

श्रीरामकृष्णस्य महिलाभक्तायाः योगिनमातुः मनसि एकदा सन्देहः आगतः यत् श्रीठक्कुरम् कथं त्यागित्वेन अपश्यम्, परन्तु माता तु घोरसंसारिणी आदिनं भ्राता, भ्रातृष्पुत्रः, भ्रातृष्पुत्री एतैः साकमेव तिष्ठति। कियद्दिवसानन्तरं सा एकदा गङ्गातीरे जपं कुर्वन्ती भावचक्षुर्भ्याम् दृष्टवती श्रीरामकृष्णः तस्याः सम्मुखम् आगम्य अवदत्– “पश्य पश्य, गङ्गायां किं गच्छति।योगिनमाता दृष्टवती एकस्य रुधिरस्नातस्य नवजातकस्य देहः प्लवमानो गच्छति। श्रीरामकृष्णः हसन् उक्तवान् – “अनेन गङ्गा अपवित्रा भवति वा? तामपि(मातरमपि) तथैव पश्य। कदापि सन्देहं मा कार्षीः। तां मां च (स्वम् उद्दिश्य) अभिन्नत्वेन जानीहि।

9.प्रसंगः

मयमनसिंहाद् भक्तानाम् एकम् दलम् जयरामवाटीम् समागतम् अस्ति। तेषु अन्यतमः मातृगेहे अस्वस्थः समभवत्। अल्पानि दिनानि अतीतानि यद् श्रीमाता रुग्णशय्याम् त्यक्तवती। सेवकाः निश्चितवन्तः यत् अस्वस्थम् भक्तम् जयरामवाटीतः कोयालपाडाआश्रमे विस्थापयिष्यन्ति इति। तत्र चिकित्सा सम्यक् भवेद् एवञ्च मातुः गृहे समस्या न्यूना स्यात् इति। श्रीमात्रे अयम् सिद्धान्तो निवेदितः, सा तूष्णीम् स्थिता। एतेन अवगतम् यत् इयम् व्यवस्था तस्याः मनःपूता नास्तीति। सन्ध्यायाः प्राक् शिबिका आगता, एकः सन्न्यासी रोगिणम् आदाय कोयालपाडाम् प्रति प्रस्थितः, तदानीम् आकाशस्य क्वचित् कोणे कृष्णमेघानाम् अंशाः दृष्टिपथम् आगताः। अत्यल्पकाले एव सर्वत्र कृतान्धकारा प्रबला वर्षा प्रारब्धा, तया सह झञ्झावातोऽपि ताण्डवं करोति। श्रीमाता माध्याह्निकानि कार्याणि समाप्य किञ्चित् पूर्वमेव विश्रामाय गता आसीत्। दुर्योगस्य लक्षणम् दृष्ट्वा अस्तव्यस्तवस्त्रा सा आलिन्दम् आगत्य आकाशे दृष्टिम् निक्षिप्य कारुण्याकुलस्वरेण अवदत् – “हन्त मम वत्सस्य किम् भविष्यति।” सेवकः तस्यै गृहान्तः गमनाय अनुरोधम् कृतवान्। श्रीमाता श्रीठक्कुरम् प्रार्थयत – भो ठक्कुर, मम पुत्रम् रक्ष।” यदा झञ्झावातः किञ्चित् शाम्यति तदा माता अपि किञ्चित् शाम्यति। यदा पुनः झञ्झावातः वर्धते तदा श्रीमाता साश्रुनयना प्रार्थयते – “हे ठक्कुर, किञ्चित् मुखम् उत्तोल्य पश्य, मम पुत्रम् रक्ष।समग्रा रात्रिः एवमेव सोद्वेगम् यापिता। परस्मिन् दिने यदा श्रीमाता ज्ञातवती यद् झञ्झावातसमये ते देशरायाम् कस्यचिद् जनस्य गृहे रोगिणा सह आश्रयम् प्राप्तवन्तः इति तदा तस्याः चिन्ता दूरम् गता।