NIOS
1)संस्कृतगुरुकुलस्य छात्राणां समस्या–
संस्कृतपाठाशाला गुरुकुलं वा संस्कृतस्य वेदव्याकरणादीन् विषयान् पाठयति स्वच्छात्रेभ्यः। परन्तु ते एव विषया दशम्याम् द्वादश्यां च कक्षायां पाठ्यत्वेन यदि स्युः तर्हि गुरुकुलीयाः छात्राः स्वविषयान् आदाय एव उत्तीर्णाः भवेयुः। परन्तु विहार–मध्यप्रदेश–उत्तरप्रदेश–राजस्थान–हरियाणा–असम–कर्णाटक–छत्तिसगढ इति एषु राज्येषु संस्कृतस्य परिषद्/मण्डलम् अस्ति। (State Sanskrit Board). अन्येषु राज्येषु तथा मण्डलम् नास्ति। अतः तेषु राज्येषु गुरुकुलीयाः छात्राः सर्वकारमान्यां परीक्षां दातुम् असमर्थाः इति महान् अन्तरायः संस्कृतशिक्षाक्षेत्रे। तथा परीक्षायाः अभावे तत्र अधीयानाः छात्राः कथञ्चित् काञ्चित् परीक्षां लिखन्ति, केचित्तु तथा परीक्षां नैव लिखन्ति। तत्र विषयोऽयं यत् संस्कृतपाठाशाला गुरुकुलं वा चालनीयं चेत् ततः उत्तीर्णैः छात्रैः दशमकक्षायाः द्वादशकक्षायाः च सर्वकारमान्यं प्रमाणपत्रं प्राप्तव्यम्। तेन च प्रमाणपत्रेण ते छात्राः सर्वत्र महाविद्यालयेषु विश्वविद्यालयेषु च संस्कृते B A + M A अथवा शास्त्री–आचार्य इति पाठ्यक्रमे प्रवेशं कर्तुम् समर्थाः भवेयुः। एवञ्च सर्वकारीयवृत्तिलाभेऽपि तेषाम् अर्हता स्यात्। एतदर्थं तथा प्रमाणपत्रदात्री काचित् सर्वकारस्य सर्वकारेण अनुमोदिता वा संस्था आवश्यकी। अष्टौ राज्यानि विहाय अन्यत्र तथा व्यवस्थायाः अभावे मार्गान्तरम् अन्वेष्टव्यम्। स च मार्गः भवति यद् केन्द्रियं संस्कृतसंस्थानम् (Central Sanskrit Board (Regular)). परन्तु तद् एतावता निर्मितं नास्ति। परन्तु उपायान्तरम् अस्ति। तद्धि –
2)समस्यासमाधानम् —
राष्ट्रीय–मुक्तविद्यालयीय–संस्था (National Institute of Open Schooling – NIOS) इति संस्था अस्ति यत्र संस्कृतस्य विषयाः पाठ्यत्वेन उपलभ्यन्ते। ते च संस्कृतमाध्यमेन लिखिताः सन्ति। संस्कृतमाध्यमेनैव परीक्षा भवेत्। एतान् विषयान् पठित्वा उत्तीर्णः छात्रः प्रमाणपत्रं लभेत। तत् प्रमाणपत्रं सर्वकारीयमेवास्ति। तस्य उच्चशिक्षायै स्वीकारः अस्ति एव। तत्र –
3)पाठ्यविषयाः —
अस्मिन् मुक्तविद्यालये विशिष्य गुरुकुलीयच्छात्राणां कृते संस्कृतस्य विषयाः सन्ति। एतस्याः शाखायाः नाम अस्ति– भारतीय–ज्ञान–परम्परा इति (Indian Knowledge Tradition-IKT)। अधिकविवरणम् यथा –
भारतीय–ज्ञान–परम्परायाम् दशमकक्षायाः चत्वारः विषयाः सन्ति– ते च—
(१) २४५–वेदाध्ययनम्
(२) २४६–संस्कृतव्याकरणम्
(३) २४७–भारतीयदर्शनम्
(४) २४८–संस्कृतसाहित्यम्
भारतीय–ज्ञान–परम्परायाम् द्वादशकक्षायाः चत्वारः विषयाः सन्ति– ते च—
(१) ३४५–वेदाध्ययनम्
(२) ३४६–संस्कृतव्याकरणम्
(३) ३४७–भारतीयदर्शनम्
(४) ३४८–संस्कृतसाहित्यम्
(यद्यपि विषयनामानि समानानि दृश्यन्ते माध्यमिककक्षायाम् उच्चतरमाध्यमिककक्षायां च तथापि विषयः भिद्यत एव।)
भारतीय–ज्ञान–परम्पराबहिर्भूताः द्वयोः कक्षयोः अन्येऽपि आधुनिका विषयाः पाठ्यत्वेन उपलभ्यन्ते। दशम्याः २८ विषयाः सन्ति। द्वादश्याः २८ विषयाः सन्ति। छात्रः तेषु कामं चित्वा पठितुं शक्नोति। तेषु – आंग्लम्, संस्कृतम् (इदम् उपरि उक्तेभ्यः संस्कृतविषयात् पृथगस्ति।), प्रादेशिकभाषाः, विज्ञानादिकम् इति विषयाः सन्ति। विषयाणां सविस्तरज्ञानाय इदं सम्पर्कसूत्रं द्रष्टुं शक्यते।
http://nios.ac.in/departmentsunits/academic/secondary-course-equivalent-to-class-x.aspx
4)विषयचयनम्
छात्रः दशमकक्षाम् उत्तीर्य एकादश्याम् द्वादश्यां च कक्षायां कान् विषयान् पठितुम् इच्छति इति विचिन्त्य दशम्यां विषयाः चेतव्याः। तथैव द्वादशकक्षाम् उत्तीर्य महाविद्यालये यान् विषयान् पठितुम् इच्छति तदनुकूलान् विषयान् द्वादश्याम् पठेत्। बहुत्र विविधाः विश्वविद्यालयाः नियमान् कुर्वन्ति यद् यः द्वादश्याम् आंग्लम् पठति स एव अग्रे प्रवेशार्हः इति। अतः एतान् नियमान् ज्ञात्वा द्वादश्याः विषयाः चेयाः।
राष्ट्रियशिक्षानीत्यनुसारं छात्रः दशम्यां द्वादश्याम् च न्यूनतः पञ्च विषयान् उत्तीर्णः चेत् सः अग्रिमाध्ययनाय योग्यः इति गण्यते। अतः न्यूनतः पञ्च विषयाः तेन चेतव्याः एव।
यदि कश्चित् छात्रः भारतीय–ज्ञान–परम्परायाः चतुर्भिः विषयैः सह संस्कृतम् (२०९, ३०९) पठति तस्मै छात्राय भारतीयज्ञानपरम्परायाः विशिष्टं प्रमाणपत्रं प्रदास्यते। परन्तु भारतीयज्ञानपरम्परायाः सदा सर्वे विषयाः चेतव्या इति नास्ति अनिवार्यता। छात्रः तादृशं भारतीयज्ञानपरम्परायाः विशिष्टं प्रमाणपत्रं न वाञ्छति चेत् स भारतीयपरम्परायाः एकं द्वौ त्रीन् चतुरः वा विषयान् स्वेच्छानुसारं चेतुम् शक्नोति एव। अन्ये विषयाः अवशिष्टेभ्यः आधुनिकविषयेभ्यः चेयाः। अन्ये नियमाः तत्र दत्ताः सन्ति।
5)प्रवेशप्रक्रिया—
सर्वोऽपि प्रवेशः साक्षात् जालपुटे (Online) भवति। प्रवेशाय छात्रस्य स्वकीयम् एकम् ईमेल आवश्यकम् अस्ति। जालपुटे साक्षात् धनदानाय क्रेडिट् कार्ड इत्यादिकम् आवश्यकम् अस्ति। छात्रः NIOS जालपुटे स्वकीयम् अकाउंट कुर्यात्। ततः स प्रवेशाय अग्रे सर्तुं शक्नोति।
प्रवेशद्वारम् उद्घाट्य तत्र क्रमशः रिक्तस्थानानि सन्ति तानि पूरणीयानि। अत्र मुख्यः विषयः भवति यत् किमपि एकम् अध्ययनकेन्द्रम् (Study Centre/AI) चेतव्यम्। तथा केन्द्रस्य नामानि तत्र आयान्ति। छात्रेण स्वेच्छानुसारं केन्द्रं चेतव्यम्। केन्द्रचयनकाले इदम् अवध्येयम् यद् – अन्तिमपरीक्षा प्रायः तस्मिन्नेव केन्द्रे भवति। अतः परीक्षार्थं गमनम् सुकरमस्ति न वेति विभावनीयम्।
तस्मिन् केन्द्रे काश्चन संपर्ककक्षाः भवन्ति। प्रतिविषयम् न्यूनतः ३० कक्षाः। परन्तु तत्र उपस्थितिः न अनिवार्या।अतः मुक्तशिक्षायां विद्यालयं प्रति पतिदिनं गमनस्य नियमः नास्ति, आवश्यकता वा नास्ति। नापि तत्र तथा नियततया वर्गाः भवन्ति। छात्रः स्वसौकर्यानुसारं यत्र कुत्रापि गुरुकुलेषु पठतु। केवलं परीक्षायै अध्ययनकेन्द्रं प्रति गच्छतु इति।
6)परीक्षा
प्रतिविषयम् पत्रस्य (१००) शतम् अङ्काः सन्ति। परीक्षाकालः होरात्रयात्मकः। समेषाम् पत्राणां लिखितस्वरूपमेवास्ति (Theory)। प्रायोगिकरूपं (Practical) किमपि नास्ति। क्रमिकम् (Formative), समुच्चितं (Summative) चेति द्विविधं मूल्यायनं भविष्यति। (Internal Marks 20%, Final Exam Marks 80%)
-
क्रमिकं मूल्यायनम् – विंशतेः अङ्कानां (२०) शिक्षकाङ्कितस्य कार्यस्य (TMA, Internal submission) एकं पत्रं लेख्यं स्यात्। किं लेख्यं तत् सर्वमपि जालपुटे प्रदत्तमस्ति। अस्य मूलायनम् अध्ययनकेन्द्रे (Study Centre) भवेत्। अस्य कार्यस्य अङ्काः अङ्कपत्रिकायां (Marks sheet) पृथक् उल्लिखिताः स्युः।
-
समुच्चितं मूल्यायनम् – वर्षे वारद्वयं (मार्चमासि अक्टोबरमासि च) बाह्यपरीक्षा भविष्यति। तत्र परीक्षायां समुच्चितं मूल्यायनं भविष्यति।
-
उत्तीर्णतायै पणः (condition) – प्रतिशतं त्रयस्त्रिंशद् (३३%) अङ्काः उत्तीर्णतायै पणः (मानदण्डः) वर्तते।
-
मुक्तविद्यालयस्य परीक्षायाम् भारतीयज्ञानपरम्परायाः विषयाणाम् उत्तरलेखनभाषा – संस्कृतम् (अनिवार्यम्)
-
आदर्शप्रश्नपत्रम् , उत्तराणि, पाठ्यविषये अङ्गविभाजनम् इति अधिकविस्तरस्तु पाठ्यपुस्तकस्य अन्ते दत्तः अस्ति।
7)पाठसामग्री
मुक्तविद्यालयः भवतः स्थानसंकेते (Address) पाठ्यपुस्तकानि प्रेषयति। अतः उचितः स्थानसंकेतः देयः। तत्रैव स्थानसंकेते प्रवेशिका (Admit Card), अङ्कपत्रिका (Marksheet), प्रमाणपत्रम् (Certificate), स्थानान्तरणपत्रम् (Migration Certificate) अपि प्रेषयिष्यते।
प्रतिविषयं पुस्तकाः लिखिताः सन्ति। तेषु प्रश्नादिकं दत्तमस्ति। अन्तिमपुस्तकस्य अन्ते परीक्षादिविषये सविस्तरं प्रतिपादितमस्ति। अतः छात्रः तद् अवश्यमेव पठेत्।
8)कीदृशं गुरुकुलम् अध्ययनकेन्द्रं भवितुम् अर्हति।
कापि पाठशाला यावद् मुक्तविद्यालये आवेदनं कृत्वा स्वस्य अध्ययनकेन्द्रत्वेन स्वीकृतिं न लभते तावत् सा पाठशाला मुक्तविद्यालयस्य अध्ययनकेन्द्रत्वेन न गण्यते। अध्ययनकेन्द्रविषये निम्नविषयाः अवधेयाः –
-
या पाठशाला पूर्वतः एव अध्ययनकेन्द्रत्वेन वर्तते सा भारतीयज्ञानपरम्परायाः विषयान् पाठ्यत्वेन दातुं शक्नोति। तदर्थम् सा शाला मुक्तविद्यालयं प्रति आवेदनमेकं कुर्यात् यत्र अंशद्वयम् अस्ति – (१) तस्यां शालायां मुक्तविद्यालयेन प्रोक्तनियमानुसारं संस्कृतस्य शिक्षकाः सन्ति इति। (२) संस्कृतमाध्यमस्य अन्तर्भावः भवति। अतः माध्यमवर्धनस्य कृते रु.२०००/- दत्त्वा मध्यमवृद्धिं कुर्याद्। आवेदनपत्रम् अत्र प्रदत्ते सूत्रे उपलभ्यते। तस्मिन् एव सविस्तरं नियमाः लिखिताः सन्ति। http://nios.ac.in/media/documents/accr/AInormsIKT.pdf
-
यद् गुरुकूलम् सम्बन्धताम् (Accreditation) नूतनतया लब्धुम् इच्छति तद् गुरुकुलम् तथा आवेदनं कुर्याद्। तत्र प्रदत्तनियमानुसारेण आवेदनपत्रं सम्पूर्य मुक्तविद्यालयस्य राज्यस्तरीयकेन्द्राय (NIOS Regional Centres) दद्यात्। एतेषां केन्द्राणां तालिका नेट् मध्ये लभ्यते। ईदृशसम्बद्धतालाभेन तस्य गुरुकुलस्य नाम छात्राणां कृते प्रवेशकाले सूच्याम् लभ्यते। छात्राः तस्य गुरुकुलस्य भवन्ति। तस्मिन् गुरुकुले तेषाम् अन्तर्गताङ्काः निर्धार्यन्ते। तस्मिन् गुरुकुले अथवा तत्रैव समीपे अपरस्मिन् विद्यालये वा छात्राणां वार्षिकपरीक्षा भविष्यति।