Mahavir Abhimanyu

महावीरः अभिमन्युः

स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे।
अवतारवरिष्ठाय रामकृष्णाय ते नमः।।

(नान्द्यन्ते) सूत्रधारः अलमतिविस्तरेण। अद्य खलु भगवतः भुवनमङ्गलविग्रहस्य श्रीरामकृष्णदेवस्य जन्मोत्सवमुपलक्ष्य समायोजिते महोत्सवे बेलुडमठपरिसरं समागच्छतः परमभागघेयभाजः तत्रभवतः भवतः विज्ञापयामि यद् अद्य श्रीरामकृष्णमठविवेकानन्दवेदविद्यालस्य छात्रवृन्दैः कृष्णद्वैपायनवेदव्यासविरचितस्य महाभारतस्य द्रोणपर्व समुपजीव्य विरचितं महावीरः अभिमन्युः इतिनामधेयं नाटकम् अभिनयद्वारा प्रदर्श्यते।

(नेपथ्ये शङ्खध्वनिः वाद्यध्वनिः च)

द्वापरयुगे लीलावतारस्य हरेः श्रीकृष्णस्य इच्छया साधूनां परित्राणाय दुष्कृतां विनाशाय धर्माणां संस्थापनाय च कौरवाणां पाण्डवानां च मध्ये धर्मक्षेत्रे कुरुक्षेत्रे यद् अष्टादशदिवसव्यापि युद्धम् अभूत् तद् महाभारतस्य कुरुक्षेत्रयुद्धम् इति नाम्ना प्रसिद्धम्। तस्मिन् युद्धे ये सर्वे वीराः महावीराः रथिनः महारथाः च वीरगतिम् अवाप्य भारतवर्षस्य इतिहासे अमरतां गताः, तेषु अन्यतमः सेनानीः आसीद् महारथः अभिमन्युः। अभिमन्युः अर्ज्जुनात् सुभद्रायां समजनि। भगवतः पाञ्चजन्यधारिणः श्रीकृष्णात् तथा जनकाद् विश्वप्रसिद्धधनुर्धराद् अर्ज्जुनात् स वेदादिशास्त्रं धनुर्विद्यां च जग्राह। विराटराजनन्दिनीम् उत्तरां स उपयेमे। परीक्षित् नाम तस्य पुत्रः परवर्तिनि काले आदर्शमहाराजरूपेण जगद्विख्यातः समभूत्। युद्धाद् अव्यवहितपूर्वकाले दुर्योधनकृतप्रश्नस्य उत्तरदानावसरे पाण्डवानुगानां कौरवानुगानां च महारथानां गुणगणगणनप्रसङ्गे महारथः भीष्मः पित्रा अर्ज्जुनेन मातुलेन श्रीकृष्णेन च समः अयं महारथः अभिमन्युः इति उक्तवान्। अभिमन्योः परिचयं प्रददत् सञ्जयः धृतराष्ट्रम् उवाच यद् अयं धैर्ये धर्मराजयुधिष्ठिर इव, महत्त्वे कृष्ण इव कर्मणि भीम इव, रूपे जनक इव, विक्रमे विद्यायां विनये च नकुलसहदेवौ इव भवति। अत एव अयं बालक आसीद् याथार्थ्येन पुरुषसिंहः सुदर्शनः विद्वान् सच्चरित्रः च। कुरुक्षेत्रयुद्धस्य द्वादश दिनानि समतीतानि। तस्मिन् दिने युद्धे अभिमन्युः तदीयशौर्येण युद्धविद्यावैशारद्येन च निखिलान् चकितचकितान् चकार। तस्मिन् दिवसे सायं पाण्डवशिविरे प्रचलन्ती अस्ति इयम् आलोचना……..

प्रथमं दृश्यम्

(ततः प्रविशन्ति श्रीकृष्णः युधिष्ठिरः भीमः अर्ज्जुनः अभिमन्युः च )

युधिष्ठिरः वयम् अद्य सुतस्य अभिमन्योः युद्धवैशारद्यं दर्शं दर्शम् अतीव प्रसन्नाः आत्मनश्च अखर्वेण गर्वेण विभूषितान् भृशं मन्यामहे।

श्रीकृष्णः धर्मराज ! न केवलं युद्धे निखिलविद्यापारदर्शी अस्माकम् अयम् अभिमन्युः।

पुत्रस्ते युद्धविद्यायां केवलायां न चाग्रणीः।

श्रेष्ठोऽयं सर्वविद्यासु पृथिव्यामिति मे मतिः।।१।

भीमः अद्यैव महावीरेण कर्णेन घोरे युद्धे प्रवर्तमानः नः सर्वान् गोपायति।

श्रीकृष्णः अलं बहुना, यं कमपि व्यूहं भेत्तुं, विपक्षाणां यावन्ति अस्त्राणि च प्रतिकर्तुं परं समर्थः अस्मदभिमन्युः।

(ततः प्रविशति अभिमन्युः)

भीमः अयम् अस्ति अस्माकं पुत्रः अभिमन्युः। पुत्र! पश्य पश्य सर्वे तवाधुना प्रशंसनशंसनपरायणाः सन्ति।

अभिमन्युः – (प्रणिपत्य समुपस्थितान् सर्वान्) भो मातुल! भवतः आशीर्वादः पूज्यपितृव्यचरणानां च शुभाकाङ्क्षा एव मे अप्रतिहता शक्तिः। भवताम् आदर्शशिक्षणं हि ममायं पराक्रमः।

अर्ज्जुनः – (सस्नेहं विलोक्य) पुत्र ! विनयः अहंकारशून्यता च वीरपुरुषाणां समुत्कृष्टः गुणः। परन्तु पुत्र! एतद् अवश्यं स्मरणीयं यद् युद्धं यावद् भीषणं भवतु विपक्षाणां यावान् पराक्रमः वा भवतु कथमपि युद्धाद् मा भैषीः पलायनं च मा कार्षीः। तदपेक्षया मरणस्य वरणमेव ज्यायः क्षात्रधर्मनिरतानां वीरवराणाम्। भीरेव वीराणां भीषणः सपत्नः।

अभिमन्युः यथाज्ञा तातपादस्य।

वचनं ते पितः ! सम्यक् पालयिष्याम्यतन्द्रितः।

प्राणाः यान्तु न वै युद्धादभिमन्युः प्रयास्यति।।२।

(सर्वे निष्क्रान्ताः)

द्वितीयं दृश्यम्

(ततः प्रविशन्ति कौरवाणां शिविरे प्रचलन्त्याम् आलोचनासभायां निरताः दुर्योधनः दुःशासनः आचार्यद्रोणः कर्णः शकुनिः जयद्रथः च)

दुर्योधनः – (सक्रोधम्) भो द्विजोत्तम! नूनं भवता वयं प्रवञ्चिताः। अस्मद्दत्तम् अन्नं भुञ्जानः अस्मदाश्रयः च भवान् अस्माभिः सह विश्वासघातं करोति। अद्य भवान् युधिष्ठिरं समीपे प्राप्यापि कथं न निग्रहं कृतवान्? प्रवाहिता गलद्रुधिरधारा पाण्डवैः किं न अवलोकिता ? वयमपि पाण्डवानां नयनेभ्यः वहन्ति रक्ताश्रूणि द्रष्टुकामाः।

द्रोणः – (सलज्जम्) वयमपि सर्वदा ते प्रियाय यतामहे। हन्त न अलं तद् बोद्धुं त्वम्। यत्र पक्षे विद्यते साक्षाद् योगेश्वरः कृष्णः, अर्ज्जुनश्च यत्र एकवीरः, तं पक्षं भेत्तुं को नामास्ति अस्मिन् संसारे समर्थः विना पिनाकपाणिना?

यत्र योगेश्वरः कृष्णः यत्र पार्थो धनुर्धरः।

स पक्षो दुर्बलो नास्ति सुखेन नैव भिद्यते ।।३।

दुर्योधनः असमर्थः अस्मि इति ब्रूतां भवान् ।

शकुनिः प्रियभागिनेय ! आचार्यं वयोवृद्धं किं न पश्यसि ? तदर्थम् इदं वचनं तन्मुखात् श्रूयते। अथवा यदि एतद् न युज्यते तदा परपक्षे आचार्यदेवः प्रियशिष्यः अर्ज्जुनः अस्ति इति हेतोः

कर्णः मातुल ! वीराणां विषये ससम्मानं वक्तव्यम्। आचार्यद्रोणस्तु वीराग्रगण्यः इति न कदापि विस्मर्तव्यम्।

शकुनिः जानासि अङ्गराज ! एतादृशाः महावीराः याथार्थ्येन भवन्ति महामूर्खाः।

कर्णः कथं मयि अङ्गराज इति सम्बोधनं विधीयते भवता?

शकुनिः अङ्गराजम् एव अङ्गराज इति अनुक्त्वा किमहं वदेयम्?

दुर्योधनः अलम् अनया परस्परदूषणदर्शिन्या वाचा। कथमेव पाण्डवाः पराजेतव्याः तद् एकमेव लक्ष्यम् अस्तु अधुना।

कर्णः मित्र! आदिश्यताम् अयं जनः। एकाकी अयं बिभर्ति सामर्थ्यं पाण्डवसेनाविध्वंसनाय।

शकुनिः शान्तो भव वत्स! शान्तो भव। अस्मदाचार्यः विश्वप्रसिद्धधनुर्धरः यावद् वर्तते, तावत्

दुर्योधनः – (द्रोणमुद्दिश्य) आचार्यदेव! स्पष्टीक्रियताम् अस्मिन् विषये भवतां मनोगतः अभिप्रायः।

द्रोणः अहं परशुरामशिष्यः महारथः द्रोणः प्रतिज्ञां कुर्वे यत् श्वः पाण्डवपक्षस्य अवश्यम् एकं महारथं हन्तास्मि। एतादृशं सुदृढं व्यूहमहं रचयिष्यामि, यं भेत्तुं भवन्ति अमराः अपि असमर्थाः। युष्माभिः च केनापि कपटाचरणेन अर्ज्जुनः दूरे नेयः।

दुर्योधनः – (साट्टहासम्) श्वस्तनः दिवसः पाण्डुपुत्राणां भागधेयं करिष्यति तमसाच्छन्नम्।

नेपथ्ये – (परस्मिन् दिवसे दुर्योधनस्य आदेशं शिरोभिः उह्यमानेन संशप्तकगणेन दक्षिणे दिग्भागे युद्धाय समाहूतः शक्रसुतः अर्ज्जुनः तेन सह युध्यमानः बहुदूरं गतः। आचार्येण द्रोणेन निर्मितस्य चक्रव्यूहस्य मध्यभागे आसन् दुर्योधनः, दुःशासनः, कर्णः, अश्वत्थामा, शकुनिः कृपाचार्यः, शल्यः, भूरिश्रवाः चेत्यादयः तथा सम्मुखभागे युद्धाय कृतनिश्चयौ सन्तौ आस्तां स्वयमेव आचार्यः द्रोणः सिन्धुराजः जयद्रथः च। युद्धशङ्खाः ध्मायन्ते। युधिष्ठिरः विरचितम् इमं व्यूहं युद्धं च अवलोक्य चिन्ताक्रान्तमनाः संजातः।)

तृतीयं दृश्यम्

युधिष्ठिरः – (सचिन्तः सन्) अद्य आचार्यवर्येण चक्रव्यूहः यथा निर्मितः अस्ति, युद्धं च यादृशं प्रचलति तेन ध्रुवो नः पराजयः प्रतिभाति।

भीमः कथमयं व्यूहः भेत्तव्यः?

युधिष्ठिरः ऋते कृष्णार्जुनाभ्यां मन्ये न केनचिद् अयं भेत्तव्यः। दुर्दैवाद् अद्य गाण्डीवधारी अर्ज्जुनः युध्यमानः अनेकदूरं गतः। हन्त ध्रुव एव नः पराजयः।

(ततः प्रविशति अभिमन्युः)

अभिमन्युः तात ! भवदाशिषा जानाति अयं जनः व्यूहम् इमं दुर्भेद्यं भेत्तुम्।

भीमः अत्युत्तमम् इदं वचः।

अभिमन्युः किन्तु कथंकारं व्यूहाद् निःसरणम् इति न जाने। युद्धं तु अवश्यं करिष्ये। यदि व्यूहः अद्य न भेदनीयः, विध्वस्ताः भवेयुः पाण्डवानां सेनाः। सेनानां पराजयो नाम अस्माकमेव पराजयः।

युधिष्ठिरः पुत्र ! अस्मासु समुपस्थितेषु विपन्मुखं ते अलं गत्वा। त्वं हि नः भावि रत्नम्। यदि ते किञ्चिद् अशिवं भवेत् तर्हि कथमेव वयम् अर्ज्जुनस्य पुरतः मुखं दर्शयिष्यामः।

अभिमन्युः वीरः खलु अऽहम् । न मे मरणाद् भयमस्ति किञ्चित्। एषोऽहम् अद्य यदि किञ्चिद् न अकरिष्यम्, तर्हि मदीयं नाम यत् कलङ्कपङ्कलिप्तं भवेत् तत् कथं सोढुं समर्थः अभविष्यम्। यदि एष व्यूहः न रोधनीयः, तदा पाण्डवानां पराजयः सुनिश्चित इति मे भाति। किं तेन नः पिता प्रीणीयात्?

भीमः पुत्र! त्वं केवलं व्यूहभेदप्रकारं नः दर्शय। ध्रुवं त्वा अनुसर्तास्मः वयम्।

अभिमन्युः आदिश्यतां ज्येष्ठतात!

युधिष्ठिरः विजयी भव पुत्र ! विजयी भव।

चतुर्थं दृश्यम्

नेपथ्ये – (दृश्यतां दृश्यतां करिकुम्भभेदनधुरन्धरः कण्ठीरवः करिणं वीक्ष्य यथा अभिधावति, तथैव वीरपुंगवः अभिमन्युः व्यूहं विभिद्य कथं घोरं युद्धं कुर्वन् अस्ति…)

दुःशासनः लोकतां भ्रातः ! दन्ताबलमध्यगतं निर्भयं विचरन्तम् इन्दूरम् एकम्।

अभिमन्युः – (साट्टहासम्) एकम् एव इन्दूरं निहन्तुं षड् दन्ताबलाः खट्वारूढाः युगपत् समापतिताः अत्र भोः।

शकुनिः हंहो ! कियान् अतः परं ते जीवितावधिः ?

अभिमन्युः यावद् जीवेयम् तावत् हन्याम्। उच्यतां तात दुर्योधन ! केन प्रथमं योत्स्ये ?

दुर्योधनः युद्धम् ! तत् पुनः त्वया …. हा हा त्वं तु बालः। जानासि किं तद् युद्धं नाम ?

शकुनिः क्रीडाक्षेत्रं ते समुचितं स्थानम्। नेदं कुरुक्षेत्रम्। प्रमादाद् अत्र समायातोऽसि। ततः ब्रवीमि।

कर्णः धिक् तव पितरम्। भयादेव यः त्वा मृत्युदंष्ट्रामध्यगतं कृत्वा पलायितः।

अभिमन्युः – (सक्रोधम्) वीरोऽहम्।

विख्यातकीर्तिः गाण्डीवधारी यस्य पिता मम।

मातुलः केशवः चक्री तस्य किं मरणाद् भयम्।।४।

दुर्योधनः गम्यताम् एतद् युद्धक्षेत्रं त्यक्त्वा मूर्ख ! गम्यताम्।

शकुनिः गच्छ। जननीक्रोडगतं मस्तकं कृत्वा शयनसुखम् अनुभूयताम्।

अभिमन्युः तत् कथं मयि युज्यते शत्रून् अहत्वा गान्धारराज !

दुर्योधनः भिक्षतां तावद् अस्मान् ते प्राणान्।

अभिमन्युः किमेतद् न जानासि। युज्यते भिक्षणं भिक्षुके, न तु राजनन्दने। भवन्ति भवन्तः केवलं वाक्यवीराः। यदि नाम यूयं साहसिकाः, आगम्यतां तर्हि युद्धाय।

(युद्धे प्रचलति मध्ये मध्ये युद्धगानम्)

नेपथ्ये .-

(दुर्योधनः दुःशासनः शकुनिः कर्णः अश्वत्थामा द्रोणः चेति प्रमुखाः योद्धारः अभिमन्युं परितः स्थिताः युद्धं कुर्वन्तः सन्ति। वयसा अवरोऽपि अभिमन्युः बाणेन विविधेन विध्यन् कौरवाणां अनेकान् महारथान् किंकर्तव्यविमूढान् करोति। असंख्याः कौरवसेनाः तस्य हस्तेन निहताः संजाताः। अनेके अपि रणक्षेत्रं परित्यज्य पलायिताः। एकाकिनः तस्मात् त्रस्ताः सर्वे। हर हर महादेव इति साम्रेडध्वनिः तस्य मुखात् विनिःसृतः)

द्रोणः – (साश्चर्यम्) कियत् तेजः अस्य बालकस्य। न कस्मादपि बिभेति।

अनेन सदृशो योद्धा न कुत्राप्यवलोकितः।

इच्छेद् यदि क्षणादेष एकाक्यस्मान् हनिष्यति।।५

दुर्योधनः हन्यताम् एष मूर्खः भवता।

शकुनिः प्रिय भागिनेय ! किं न जानासि। प्रियशिष्यस्य अर्जुनस्य पुत्रोऽस्ति। ततः

दुर्योधनः मूर्खस्य अस्य वर्धमानः मानः मर्यादामतिक्रामति।

शकुनिः पिपीलिकायाः पक्षोत्पत्तिः मरणाय खलु।

कर्णः याथार्थ्येन अयं वीरोऽस्ति।

शकुनिःअवितथम् उक्तम्। विषमविषधरस्य पुत्रोऽयं नाम। सम्भूय सर्वैः हन्तव्यः एष मूर्खः।

द्रोणःकिन्तु एकेन अनेकेषां युद्धं युद्धनीतिं विरुणद्धि । अतः एकेन एकः युध्येत।

दुर्योधनःकिमु शोभते एतद् नीतिवचनं भवतो मुखे ।

शकुनिःआदौ प्राणैः प्रयोजनम्, ततो न्यायविचारः इति इयमेव नीतिः।

दुःशासनःघातिते अस्मिन् एकस्मिन् शोकसागरमग्नः अर्जुनः स्वयमेव मरिष्यति।

शकुनिःमरिष्यति अर्जुने वराकाः अवशिष्टाः पाण्डवाः अपि न जीविष्यन्ति। अहो कीदृशोऽयम् आनन्दसन्दोहः।

जयद्रथःशितिकण्ठवरेण अद्य मे नास्ति मृत्युः। अहम् एक एव सर्वान् पाण्डवसैनिकान् ध्वस्तुं समर्थः। अभिमन्युः युष्माभिः निर्दयं हन्तव्यः। रोत्स्यामि अद्याहं पाण्डवान्। तेन तेषां मध्येव्यूहं प्रवेशः कथमपि न सम्भवति। नाहं तान् हन्तास्मि। दृश्यताम् तैः समक्षं भ्रातुः पुत्रस्य शोचनीयं मरणम्। तदेवास्माकं भविष्यति अपमानस्य उपयुक्तः प्रत्यपकारः।

दुःशासनःअग्रज ! आदिश्यताम् एष जनः। अद्यैव इमं यमनगरातिथिं करिष्यामि।

(नेपथ्ये युद्धगानम्)

(अवरुद्धं व्यूहद्वारं जयद्रथेन, कोऽपि पाण्डवः तत्र प्रवेशाय समर्थो न जातः। एकाकी अभिमन्युः घोरे युद्धे प्रवृत्तः। बहवः रथिनः महारथाश्च तदीयशस्त्राघातेन व्रणिताः। तदा शकुनिबुद्ध्या सर्वे मिलित्वा त्यक्तयुद्धमर्यादाः तम् आक्रामन्ति। इतस्तु अर्जुनमन्तरेण पाण्डवान् अन्यान् पराजेतुम् अद्य समर्थो भवति इत्येवं वरं शङ्करसमाराधनेन जयद्रथो लभते। ततस्तदीयेन पराक्रमेण सकलाः पाण्डवसेनाः पराजिताः, अतः कोऽपि पाण्डवः अभिमन्योः सहायकरो न जातः। एवं प्रचलति युद्धे शकुनिः पृष्ठभागतः अभिमन्युमाक्रामति।)

अभिमन्युःअर्जुनपुत्रोऽस्मि अहम्। एवमहं न मरिष्यामि। यावत् मे प्रचलति श्वासः तावद् अहं योत्स्ये। मम पितुः वीरत्वस्य मर्यादा न कथमपि क्षुण्णा भवेत्।

दुर्योधनःएतम् एवं सशोकं सकष्टं मारय, येन एतस्य मातुः क्रन्दनं अस्मात् युद्धस्थानाद् अपि श्रोतुं शक्यते।

शकुनिःतेजीयान् एष बालकः, न अस्य तेजः कदाचित् हीयते।

(एतत् सर्वमभिनयेन प्रदर्शनीयम्।)

(एवं योद्धारः क्रमेण आगत्य अभिमन्युना अपमानिताः भवन्ति। क्रमेण कौरवाणां बोधः सञ्जातः यद् अस्य हस्तात् न कथमपि तेषां रक्षणं सम्भवति।)

अभिमन्युःभीमं गर्जति व्याघ्रे समागते हरिणगणानां प्राणभिया धावनं दर्शनयोग्यं नाम, कौरवाणां तादृशीम् अवस्थाम् अद्य पश्यन् अस्मि। एते कर्मणा न किमपि दर्शयन्ति, वज्रवाणीं वदन्तः वचनवीराः नूनं लोके।

शकुनिः आगम्यताम्, सर्वे मिलित्वा एनं हनिष्यामः।

दुर्योधनः आचार्यश्रेष्ठ ! शीघ्रं कश्चन उपायः अस्य निधनाय अन्वेषणीयः, अन्यथा नः रक्षणम् असम्भवम्।

द्रोणःअस्य कवचः भेत्तुं न शक्यते। धनुः अस्त्राणि शस्त्राणि च भेद्यानि कृते महति प्रयत्ने। अश्वान् सूतञ्च निहत्य युद्धम् अवरोद्धुं शक्यते।

कर्णःदृश्यताम् आचार्य! अधुनैव बाणेन कथम् अहम् अस्य धनुः अस्त्राणि च छिनद्मि।

अभिमन्युःहर हर महादेव वीरोऽहम्, युष्मत्तः न मे भयम् अस्ति। युद्धनियमं तिरस्कुर्वाणाः यूयं मां हन्तुम् उद्यताः। यावन्मे प्राणः स्थास्यति, नास्ति तावन्मे युद्धाद् विरमणम्। वीर इव मृत्युम् अहम् अभिनन्दामि।

(नेपथ्ये गानम्)

(एतत् सर्वम् अभिनयेन प्रदर्शनीयम्)

(एवं महासङ्कटं पतितेन अभिमन्युना निर्दयाः ते कौरवमहारथाः युगपत् युद्ध्यमाना आसन्। नास्ति तद्धनुः न वास्ति रथः, तथापि अभिमन्युः वीरः। परितः पतितेन बाणगणेन विद्धः अभिमन्युः अतिशयं शोभते। ततः सः अवनितलं पतितः। अनन्तरम् उत्थाय कदा गृहीतासिः कदाचिच्च धृतरथचरणः युद्धं कृतवान्। एतदन्तरे दुःशासनसुतः गदया पश्चाद्भागतः तन्मस्तके प्रचण्डं प्रहृतवान्। तेन स भूमौ पतितः। ततः सर्वे मिलित्वा हसन्तः तं पादैः प्रहरन्ति। कश्चिद् गदया, कश्चिद् असिना, कोऽपि वा बाणेन तं विद्ध्यति। एवं तं सर्वे सकष्टं सनिष्ठुरञ्च घ्नन्ति। एवं कुरुक्षेत्रस्य त्रयोदशस्य दिवसस्य तद् अन्याय्यं युद्धं परिसमाप्तम्। वीरः अभिमन्युः वीरगतिं गतः।)

कर्णः– (स्वगतम्) पुत्र! त्वमेव वास्तवेन महावीरः। अवश्यं त्वं मत्तः तथा अर्जुनात् ज्यायान्।

द्रोणः– (स्वगतम्) वत्स, महान् असि त्वम्। इतिहासे महावीररूपेण चिराय स्मरणीयः स्थास्यसि त्वम्।

(इतस्तु अर्जुनः संशप्तकान् निहत्य सकृष्णः पाण्डवशिविरे प्रविशन् अस्ति।)

पञ्चमं दृश्यम्

(पाण्डवानां शिविरे)

एतद् सर्वम् अभिनयद्वारा प्रदर्शनीयम्।

(तदा सायाह्ने वीरगतिं गतम् अभिमन्युम् अवलोक्य पाण्डवसैनिकाः भयेन पलायमानाः सन्ति। हाहाकारध्वनिः समुत्थितः तेषु। शोकस्य करालच्छाया पाण्डवशिविरं ग्रसितुम् आरभते। क्रन्दन्ति कण्ठं भित्त्वा सर्वे। न प्रज्वलन्ति प्रदीपाः। निश्शब्दं जातं दिक्चक्रम्।)

अर्ज्जुनः केशव ! किम् आपतितम् ? कथमद्य पाण्डवशिविरः दृश्यते निरालोकः ? कथं वाद्यानि नैव वाद्यन्ते, शङ्खध्वनिश्च न श्रूयते ?

श्रीकृष्णः किमपि अशिवं मन्ये आपतितमस्ति।

(एतद् सर्वम् अभिनयद्वारा प्रदर्शनीयम्)

(ततः प्रविशतः शिविरं केशवार्ज्जुनौ। नीरवास्तत्र सकलाः। सर्वेषां नयनानि सन्ति विनिर्गतवारिधाराणि। निखिलम् ऊहितम् अर्ज्जुनेन। समालिङ्गितभूमिशयनम् अभिमन्युं परित उपविश्य परिदेवनरताः सर्वे)

अर्ज्जुनः – (सक्रन्दनम्) सुभद्रानयनानन्दनं द्रुपदात्मजायाः प्रियसखस्य केशवस्य अस्माकं च परमस्नेहभाजनम् एतम् अभिमन्युं को नाम इह जगति शमननगरं गन्तुकामः हत्वा निद्राणफणिफणाराजितमणौ प्रसारितहस्तोऽस्ति मूर्खः ? यो वीरधुरन्धरः, बाल्यमनुभवन्नपि न्यायपरायणः, युद्धे विपक्षप्रहरणात् पूर्वम् न प्रहरति, यो धीरतां न जहाति, भीरपि यस्माद् बिभेति, यो मत्तोऽस्ति समधिकविक्रमालंकारविराजितः, माधवार्ज्जुनयोः प्रियशिष्यः, तादृशम् कोऽस्ति घातुकः? पुत्र! क्व गतं त्वया? तव वचनामृतं श्रवणाञ्जलिपुटेन पातुकामा वयम्। अवलोकय नयनाभ्याम् अस्मान्। हासेन हासमुत्पादय नः त्वदीयेन। उत्तिष्ठ पुत्र ! निद्रेयं ते संप्रति न युज्यते ?

(एवं विध्वस्तधैर्यबन्धः स क्रन्दितुम् आरभते निरुद्धवाक् च संजातः)

श्रीकृष्णः विरम्यताम् अर्जुन! विरम्यताम्। निखिलक्षत्रियवीरवराणाम् अयमेवास्ति पन्थाः। तव अभिमन्युः चिराय अमरः स्थास्यति। शरीरं तु अद्यैव वा युगान्तरे वा अवश्यमेव नश्यति। अतः आत्मनः अमरत्वं विज्ञाय विज्ञाः नैव शोचन्ति। भगवती श्रुतिरपि कथयति

अजो नित्यः शाश्वतोऽयं पुराणो

न हन्यते हन्यमाने शरीरे ।।

अशरीरं शरीरेष्वनवस्थेषु अवस्थितम्।

महान्तं विभुमात्मानं मत्वा धीरो न शोचति।। ६। इति

(अनन्तरम् अर्जुनो भ्रातृगणं सगद्गदं गदति)

अर्ज्जुनः अस्मत्प्रियतनयस्य अभिमन्योः मरणं कथंकारं जातमिति शुश्रूषते मे हृदयम्। विपक्षाः अवश्यम् अन्याय्यं युद्धमाचरन्तः पराजयन्ते तमिति मे द्रढीयान् विश्वासः। हन्त कापुरुषः अस्मि। नालं मे पुत्रं रक्षितुम् । अहम् अधार्मिकः। नरकमेव मम शरणं स्यात् ।

युधिष्ठिरःभो महाबाहो ! संशप्तकैर्युद्ध्यमानः यदा दूरं त्वं चलितः, तदा आचार्यवर्यो दुर्भेद्यमेकं चक्रव्यूहम् अस्माकमसाध्यं विधत्ते। अस्माकमादेशानुगुणं चक्रव्यूहभेदनधुरन्धरः स तम् अविशत्।

भीमःअभिमन्युप्रदर्शितमार्गैकशरणा व्यूहभेदनाय आस्म वयं चेष्टमानाः। परन्तु शितिकण्ठवरवीतव्यथः जयद्रथः सर्वेषां गतिम् अरुणत्। तदीयकपटसमुद्भवं नः इदं परिदेवनम्। एक एव व्यूहमध्यगतो निखिलैरसंख्यं संख्यं कुर्वन् निहतानेकमहारथः पुत्रः अभिमन्युः कौरवसेनासु त्रासमसृजत्। परन्तु दुर्दैवात् सर्वे मिलित्वा शस्त्रास्त्ररहितम् इमं छलेन निर्दयम् अघ्नन्।

युधिष्ठिरःअनुज ! वयं तव सुतजीवितरक्षणे असमर्थाः। कृपया क्षमस्व नः। सर्वं निशम्य अर्जुनः हा पुत्र ! हा पुत्र ! इति ब्रुवाणः शोकसागरमग्नो भूमौ छिन्नवृक्ष इव निपतति।

(अनन्तरं प्राप्तचैतन्यः क्रोधेन कम्पमानः बद्धमुष्टिः अर्जुनः धनुः करे कृत्वा उच्चैर्घोषयति।)

अर्जुनःयस्मै जयद्रथाय प्राणदानम् अहं कृतवान्, स एव नो जीवतः संहरन् अस्ति। अहं पाण्डुपुत्रः अर्जुनः प्रतिजाने यदि जयद्रथः भयं कुर्वन् न पलायेत, तर्हि श्वः अवश्यं तं हन्तास्मि। अर्ज्जुनोऽहं पुनः उद्घोषयामि यदि सूर्यास्तगमनात् परं जीवितः अयं पापः अस्थास्यत्, तर्हि ज्वलन्तं जातवेदसम् अहं प्रावेक्ष्यम्। देवदानवमानवगन्धर्वादिभिश्च अशक्यं भवेत् पाण्डुपुत्राद् अर्ज्जुनात् तदीयरक्षणम्। भुवि दिवि रसायां च यत्र कुत्रापि स तिष्ठतु नाम, तस्य शिरच्छेदः मदीयशस्त्रेण अनिवार्यः इतीयम् अमोघा मे प्रतिज्ञा।

(एतत्सर्वम् अभिनयेन प्रदर्शनीयम् )

(अनन्तरम् अर्जुनः तस्य धनुर्ज्यां कर्षति। तदीयज्याकर्षणध्वनिना श्रीकृष्णस्य पाञ्चजन्यनिनदेन च द्यौः भूः रसा च कम्पमानाः सन्ति। सन्त्रस्ताः सञ्जाताः शत्रवः, वादितानि विविधानि वाद्यानि, पाण्डवाः उच्चैः सिंहनादं विनद्य हर हर महादेव इति साम्रेडेन ध्वनिना दिक्चक्रं कम्पयन्ति।

(अनन्तरं गानम्)

समाप्तमिदं नाटकम्

युद्धगीतम्

कुरुध्वमद्य सज्जताम् रणाय भोः सशस्त्रताम्।
प्रयात धर्मसैनिकाः प्रयात धर्मसैनिकाः।।

समिद्ध एष सङ्गरः प्रयान्ति सैनिका रणम्
समेत्य कुर्महे वयम् रिपुंश्च धूलिसात् क्षणम्।

संहताश्च संञ्जाताः युद्ध्येमहि युद्ध्येमहि
प्रयात रे, अभियात रे, प्रयात धर्मसैनिकाः।। ।।कुरुध्वम्।।

मरुत्सुताः प्रकुर्महे स्वमुष्टिसाद् दिवाकरम्
अगस्त्यवत्पिबेम छुल्लुकीकृतं च सागरम्।

बाला ह्यभिमन्यवः क्षणाज्जयेम चान्तकम्
प्रयात रे, अभियात रे, प्रयात धर्मसैनिकाः।। ।।कुरुध्वम्।।

अग्निकुण्डमत्र चण्डताण्डवं समन्ततं
निहत्य शक्तिमासुरीं विदध्महे तदाहुतीम्।

वंश एष विख्यातो मार्ग एष नो महान्
प्रयात रे, अभियात रे, प्रयात धर्मसैनिकाः।। कुरुध्वम्।। ।।