Story





॥मनोमोदनम्॥
1. रामाय नमः। रामचन्द्राय नमः। रामभद्राय नमः। रामः वेधाः विधिः सृष्टिकर्ता। वेधसे नमः। रामः रघूनां नाथः। रघुनाथाय नमः। रामः सीतायाः पतिः। सीतायाः पत्यै नमः।
श्लोकः – रामाय रामचन्द्राय रामभद्राय वेधसे।
रघुनाथाय नाथाय सीतायाः पतये नमः॥
2. यः मूकः अस्ति, स माधवस्य कृपया वाचालः मुखरः भवति। एवम् माधवकृपा मूकं करोति वाचालम्। यः पङ्गुः अस्ति स माधवस्य कृपया गिरेः (पर्वतस्य) लङ्घनं करोति। पङ्गुद्वारा गिरिलङ्घनं कारयति माधवकृपा। एवम् माधवकृपा पङ्गुं लङ्घयते गिरिम्। यस्य कृपा स माधवः। स परमानन्दः। तम् अहम् वन्दे।
श्लोकः – मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम्।
यत्कृपा तमहं वन्दे परमानन्दमाधवम्।
3. कृष्णम् वन्दे। कृष्णः देवः। देवम् कृष्णम् वन्दे। (जगतः गुरुः जगद्गुरुः)। कृष्णः जगद्गुरुः। देवम् कृष्णम् जगद्गुरुम् वन्दे। (वसुदेवस्य सुतः वसुदेवसुतः) कृष्णः वसुदेवस्य सुतः। देवम् वसुदेव-सुतम् कृष्णम् जगद्गुरुम् वन्दे। कृष्णः कंसस्य मर्दनः। कृष्णः चाणूरस्य मर्दनः जेता। कृष्णः कंसचाणूरमर्दनः। देवम् वसुदेव-सुतम् कंस-चाणूर-मर्दनम् कृष्णम् जगद्गुरुम् वन्दे। कृष्णः परमः आनन्दः। कृष्णः देवक्याः परमानन्दः। देवम् वसुदेव-सुतम् कंस-चाणूर-मर्दनम् देवकी-परमानन्दम् कृष्णम् जगद्गुरुम् वन्दे।
श्लोकः – वसुदेव-सुतं देवं कंस-चाणूर-मर्दनम्।
देवकी-परमानन्दं कृष्णं वन्दे जगद्गुरुम्॥
4. माणवकः (बटुः, तरुणः) विद्याम् इच्छति। माणवकः गुरुकुलम् गच्छति। माणवकः गुरुं वन्दते (वन्दनां करोति।)। गुरुः माणवकं पश्यति (देखते है)। गुरुः नाम (अभिधानम् name) पृच्छति (पुछते है)। माणवकः नाम वदति (कथयति, बोलता है)। गुरुः धाम (स्थानम्, place) पृच्छति। माणवकः धाम गदति (वदाति, बोलता है)। गुरुः कुलम् पृच्छति। माणवकः कुलम् कथयति (वदति, बोलता है)। माणवकः विद्याम् प्रार्थयते (प्रार्थनां करोति, इच्छति)। माणवकः शिष्यः भवति। गुरुः मोदते (प्रमुदितः भवति, आनन्दितः भवति)। गुरुः शिष्यम् उपदिशति (उपदेशं करोति।)। शिष्यः गुरुम् उपास्ते (उपासनां करोति।)। गुरुः शिष्याय विद्याम् ददाति (दानं करोति।)। शिष्यः गुरोः विद्याम् विन्दते (लभते, प्राप्नोति, पाता है।)। शिष्यः विद्याम् श्रद्धया उपास्ते। एवम् शिष्यः विद्यावान् भवति।
5. ग्रामः – अयम् ग्रामः। अस्मिन् ग्रामे चित्रकारः वसति। चित्रकारः चित्राणि चित्रयति। चित्राणि सुन्दराणि सन्ति। अस्मिन् ग्रामे चौराः न वर्तन्ते। अस्मिन् ग्रामे मूर्खाः न विद्यन्ते। अस्मिन् ग्रामे रजकः (washerman) वसति। सः वस्त्राणि क्षालयति। स वस्त्राणि समीकरोति (press)। अस्मिन् ग्रामे नटाः अपि निवसन्ति। नटाः जनमनोरञ्जनाय नृत्यन्ति। अति रम्यम् तत् नृत्यम्। अस्मिन् ग्रामे मन्दिरम् राजते(shine)। मन्दिरे गोविन्दस्य विग्रहः (statue) विराजते। प्रतिदिनम् पूजा भवति। अर्चकः पूजाम् करोति। अर्चकः दिने दिने गोविन्दम् पूजयति। स गोविन्दाय नैवेद्यम् निवेदयति। अन्धाः बधिराः कुब्जाः चापि गोविन्दस्य प्रसादम् विन्दन्ति (प्राप्नुवन्ति, लभन्ते।)। ग्रामे उद्यानम् विलसति। उद्याने लताः लम्बन्ते। तृणानि रोहन्ति। वृक्षाः सन्ति। लतासु पुष्पाणि विकसन्ति। वृक्षाः फलैः नाना फलन्ति। भ्रमराः पुष्पात् पुष्पान्तरं गच्छन्ति। मधुकराः (honeybee) मकरन्दम् (honey) संगृह्णन्ति (संग्रहं कुर्वन्ति।)। पिकः (कोकिलः) मधुरम् कूजति। वानरः शाखासु लम्बते (hang)। मर्कटः लम्फं झम्फं च (jump) करोति। उद्याने बालाः कन्दुकैः क्रीडन्ति। वृद्धाः मन्दम् अटन्ति (walk)। तरुणाः व्यायामं कुर्वन्ति। आपणिकाः (shopkeeper) पेयानि (drinks) विक्रीणन्ति (sale)। तृषार्ताः (thursty) क्रीणन्ति (buy)। मधुराणि पेयानि (drinks) पिबन्ति। पेयरसम् (juice) आस्वदन्ति (taste)।
6. श्रीरामस्य चरिचतम् – पुरा दशरथः नाम नृपः बभूव। रामः भरतः लक्ष्मणः शत्रुघ्नः च तदीयाः पुत्राः। कौसल्या रामस्य अम्बा। सीता रामस्य भार्या। सीता जनकस्य नाम नृपस्य कन्या। जनकः मिथिलायाः नृपः। दशरथः तु अयोध्यायाः नृपः। भरतस्य कृते दशरथस्य आदेशेन रामः वनम् गच्छति। तत्र दण्डकायाम् वने रावणः सीतां पश्यति। रामः कनकमृगम् पश्यति मुग्धः च भवति। ततः सीताम् दुष्टः रावणः अपहरति, लङ्काम् च नयति। अनन्तरम् लक्ष्मणेन सह रामः लङ्काम् गच्छति। रावणम् हन्ति। विभीषणया लङ्काराज्यम् ददाति। सीतया सह अयोध्याम् पुनः प्रत्यागच्छति। श्रीरामाय नमः।
7. रामस्य वनवासः – रामः वनम् गच्छति। लक्ष्मणः अपि (भी, also) वनम् याति। सीता अपि वनम् गच्छति। दशरथः विलपति (विलापं करोति)। कौशल्या अपि विलपति। प्रजाः अपि विलपन्ति। नागरिकाः खिद्यन्ते (खिन्नाः भवन्ति distressed, suffering pain)। जनाः व्यथन्ते (व्यथिताः, Pain, agony, anguish)। अयोध्यावासिनः क्रन्दन्ति (weep)। भरतः मातुलगृहे अस्ति। भरतः वृत्तान्तम् (incident, tale, report) न जानाति (ज्ञानं नास्ति।)। शत्रुघ्नः अपि मातुलालये अस्ति। शत्रुघ्नः अपि उदन्तम् (news) न जानाति। अयोध्यायाम् शोकः वर्धते (वृद्धिं गच्छति।)। अयोध्यानगरम् शोकाकुलम् वर्तते (अस्ति।)। कैकेयी तुष्यति (सन्तुष्टा भवति।)। मन्थरा मोदते (प्रमुदिता भवति।)। रामः दुःखं सहते (सहनं)। लक्ष्मणः कष्टम् सहते। सीता व्यथाम् सहते। वनवासे लक्ष्मणः रामम् सेवते। सीता अपि रामम् सेवते॥ लक्ष्मणः वनात् फलानि आनयति। लक्ष्मणः रामाय फलानि ददाति। रामः लक्ष्मणात् फलानि आददाति। लक्ष्मणः सीतायै फलानि ददाति। सीता लक्ष्मणात् फलानि गृह्णाति। रामः फलानि खादति। सीता फलानि खादति। फलानां रसः मधुरः अस्ति। फलानि स्वादूनि सन्ति। अतः रामाय फलानि रोचन्ते। सीतयै च फलानि रोचन्ते। तेन लक्ष्मणस्य आनन्दः जायते।
8. कर्तरि कर्मणि – रामः दशरथं वन्दते। लक्ष्मणः दशरथस्य वन्दनां करोति। सीतया कौशल्या वन्द्यते। जानक्या सुमित्रा वन्दिता॥ ततः रामः वनम् गच्छति। लक्ष्मणः वनस्य गमनं करोति। सीतया वनम् गम्यते। जानक्या वनम् गतम्॥ वनगमनसमये रामः नदीम् पश्यति। तदानीम् लक्ष्मणः नद्याः दर्शनं करोति। तदा सीतया नदी दृश्यते। जानक्या नदी दृष्टा॥ इदानीम् रामः नदीम् तरति। तथा लक्ष्मणः नद्याः तरणं करोति। एवम् सीतया नदी तीर्यते। सीतया नदी तीर्णा॥ अत्र रामः जलम् पिबति। तत्र लक्ष्मणः जलस्य पानं करोति। तत्र एव सीतया जलम् पीयते। जानक्या जलं पीतम्॥ अधुना रामः अरण्यम् निरीक्षते। लक्ष्मणः अपि अरण्यस्य निरीक्षणं करोति। सीतया अरण्यम् निरीक्ष्यते। जानक्या अरण्यम् निरीक्षितम्॥ रामः वनं प्रविशति। लक्ष्मणः वनस्य प्रवेशं करोति। सीतया वनं प्रविश्यते। सीता वनं प्रविष्टा॥ वने रामः कन्दम् खादति। लक्ष्मणः कन्दस्य खादनं करोति। सीतया कन्दः खाद्यते। जानक्या कन्दः खादितः॥ अरण्ये रामः शब्दम् शृणोति। लक्ष्मणः शब्दस्य श्रवणं करोति। सीतया शब्दः श्रूयते। जानक्या शब्दः श्रुतः॥ रामः बाणं परीक्षते। लक्ष्मणः बाणस्य परीक्षाम् करोति। सीतया बाणः परीक्ष्यते। जानक्या बाणः परीक्षितः॥ रामः वाक्यम् भाषते। लक्ष्मणः वाक्यस्य भाषणं करोति। सीतया वाक्यम् भाष्यते। जानक्या वाक्यम् भाषितम्॥ (कर्तरि कर्मणि कृद्योगः क्तः च)
9. विद्यायाः महत्त्वम् – अस्ति उज्जयिनी नाम पट्टनम्। तत्र रामः सोमः इति मित्रद्वयम् अवसत्। रामः विद्याम् इच्छति। सोमः धनम् कामयते। एकदा मित्रद्वयं विदेशम् अगच्छत्। रामः तत्र विद्याभ्यासम् अकरोत्। सोमः धनम् अलभत। एवम् अनेकानि वर्षाणि अगच्छन्। ततः परम् मित्रद्वयमपि स्वनगरम् प्रति प्रस्थितम्। आगमनकाले मार्गे चोराः आगच्छन्। ते सोमस्य धनम् अहरन्। ततः मित्रद्वयं नगरम् अगच्छत्। नगरे महाराजः आसीत्। सः मित्रद्वयम् अपश्यत्। अनन्तरं विद्यावन्तं रामम् आह्वयत्। ‘त्वम् मन्त्री भव’ इति राजा अवदत्। रामः मन्त्री अभवत्। सोमः विद्याविहीनः आसीत्। अतः सः जीविकार्थः रामस्य सेवकः अभवत्।
10. संस्कृतिः – का संस्कृतिः। चित्तस्य संस्करणं या करोति सा संस्कृतिः। आत्मा विभुः। अतः संस्कार्यः नास्ति अर्थात् आत्मनि संस्कारः न भवति। चित्तस्य एव संस्कारः सम्भवति, भवति च। संस्कारक्षमे वयसि यदि उचितः संस्कारः न क्रियते तर्हि अनुचितः संस्कारः भवितुम् अर्हति॥ संस्कृतिः किं किं करोति। संस्कृतिः अज्ञानम् अपनयति। चित्तभ्रमम् अपहरति। अविद्यान्धकारं नाशयति। ज्ञानज्योतिः प्रकाशयति। सत्यवृत्तिं संस्थापयति। दुर्गुणततिम् दृणाति। निर्मलं चित्तं प्रसादयति। चित्ते समाजे च शान्तिं समादधति। मानवजीवनस्य लक्ष्यं बोधयति। लक्ष्यस्य प्राप्तये मार्गम् उपदिशति। संस्कृतिद्वारा जनः जीवनस्य वास्तविकं साफल्यं लभते। अतः संस्कृतिः मानवस्य क्षेमंकरी। सा विश्वबन्धुत्वभावनां जनयति। अखिललोकहिताय प्रेरयति। अभ्युदयं साधयति। निःश्रेयसं ज्ञापयति। नित्यानित्यविवेकम् उत्पादयति। मानस्य हृदि सहानुभूतिम् तनोति। बुद्धिम् विशदां विदधाति। अन्धश्रद्धाम् अवसादयति। अन्वीक्षणसामर्थ्यम् सूते। मानवान्तःकरणे बलम् उत्साहम् अभयम् दमम् तपः आर्जवम् इत्यादीन् सद्गुणान् उद्भावयति॥ का सर्वश्रेष्ठा संस्कृतिः। मानवजीवनस्य सर्वश्रेष्ठं लक्ष्यम् या संस्कृतिः विनिवेदयति लक्ष्यलाभस्य उपायं च निर्दिशति सा एव सर्वश्रेष्ठा संस्कृतिः। भारतीयसंस्कृतिः तथा लक्ष्यं बोधयति। तदर्थं समेऽपि गुणाः भारतीयसंस्कृतौ सन्ति। अतः भारतीयसंस्कृतिः सर्वासु संस्कृतिषु देदीप्यमानं रत्नम् अस्ति। अतः देशीयाः विदेशीयाः च विद्वांसः भारतीयसंस्कृतिम् सर्वश्रेष्ठां संस्कृतिम् मन्यन्ते। (दृणाति- to tear apart, cut. समादधति- establish, concentrate. क्षेमः- Conferring happiness, ease or comfort, good, well, beneficial, prosperous. तनोति- To stretch, extend, lengthen, spread, shed, diffuse, cover, fill. विशदाम्- Clear, pure, clean, spotless अवसादयति- end, terminate, defeat. अन्वीक्षणम्- Search, seeking for; investigation, Reflection; meditation. सूते- bring forth, give rise to, give birth)
11. बालाः॥ वृक्षः फलति (bears fruits)। बालाः फलानि (fruits) पश्यन्ति(see)। बालाः मोदन्ते(become happy)। बालाः शिलाम् (stone) क्षिपन्ति (throw)। फलानि पतन्ति(fall)। बालाः फलानि आहरन्ति (bring)। फलानि पक्वानि (ripe) न सन्ति। बालाः आमानि (unripe) फलानि तृणपुञ्जे (heap of grass) निक्षिपन्ति (keep)। फलानि पचन्ति (पक्वानि भवन्ति।)। बालाः फलानि आनयन्ति (bring)। बालाः फलानि भक्षयन्ति (eat)। फलानि मधुराणि (sweet) सन्ति। बालाः तुष्यन्ति (तुष्टाः भवन्ति।)।
12. पशवः॥ शुनकः (कुक्कुर) मार्जारम् खादितुम् इच्छति। अतः मार्जारः शुनकात् बिभेति(भयं करोति)। व्याघ्रः शुनकम् भक्षयितुम् इच्छति। तस्मात् शुनकः व्याघ्रात् बिभेति। काकः मूषकम् भक्षयितुम् इच्छति। अतः मूषकः काकाद् बिभेति। सिंहः मेषम् भक्षयितुम् इच्छति। तस्मात् मेषः सिंहाद् बिभेति। गर्दभः भारम् वहति। अश्वः द्रुतं धावति।
13. द्राक्षाफलानि अम्लानि॥ एकः जम्बूकः (jackal सियार, शृगालः) अस्ति। सः एकदा क्षुधार्तः (hungry) वने भ्रमति (wander)। एकत्र सः द्राक्षालतां (grape creeper) पश्यति। लतायाम् अनेकानि द्राक्षाफलानि सन्ति। कानिचित् पक्वानि (ripe), कानिचित् आमानि (unripe)। जम्बूकः चिन्तयति – ‘अद्य मम द्राक्षाफलानां भोजनम्’ इति। द्राक्षां लब्धुम् (to get) उत्पतति (jump)। किन्तु द्राक्षाफलानि न प्राप्नोति (get)। जम्बूकः पुनः पुनः उत्पतति। तथापि फलानि न लभते (get)। जम्बूकः कुप्यति(कुपितः भवति)। सः तानि द्राक्षाफलानि दूषयति (blame)। ‘द्राक्षाफलानि अम्लानि’(sour) इति वदति। अनन्तरं स्वस्थानं गच्छति।
14. सर्वनामानि॥ अहं वदामि। वदसि त्वम्। वदति सः॥ गछामि अहम्। त्वं गच्छसि। गच्छति सः। त्वं कुत्र गच्छसि। सः यत्र गच्छति तत्र अहं गच्छामि॥ पठामि अत्र अहम्। त्वं कुत्र पठसि। सः यत्र पठति तत्र अहं पठामि॥ यथा सः पठति तथा त्वं पठसि। अहं यथा पठामि तथा न पठति सः। एषः यत् पठति, सः तत् न पठति। पठामि अहं यद् , तत् पठति सः। अयं किं पठति। इयं क्व पठति। एषा तत्र पठति।
15. रामः दशरथस्य पुत्रः। रामः शिवम् स्मरति (recollect)। तत्पश्चात् (after that) लक्ष्मणः शिवम् स्मरति। अनन्तरम् शिवः लक्ष्मणम् पश्यति (see)। ततः उत्तरम् लक्ष्मणः शिवम् नमति (bow down)। ततः ऊर्ध्वम् सीता वनम् गच्छति। ततः पश्चात् सीता रामम् स्मरति। तदुत्तरम् रामः सीताम् स्मरति। तदूर्ध्वम् म् सीता रामं पश्यति। तदनन्तरम् लक्ष्मणः रामम् पश्यति। ततः परम् रामः सीताम् पश्यति। ततः परम् सीता रामम् नमति। अनन्तरम् लक्ष्मणः रामम् नमति। ऊर्ध्वम् भरतः रामम् स्मरति। पश्चात् रामः वृक्षम् पश्यति। ततः परम् शत्रुघ्नः रामम् स्मरति। ततः परम् अहं शिवम् स्मरामि। ततः परम् अहं रामम् नमामि।
16. छात्रः सरस्वतीम् स्मरति। ततः परम् जनः देवीम् स्मरति। ततः पश्चात् वृद्धः देवताम् नमति। ततः ऊर्ध्वम् गुरुः शिष्यं पश्यति। अनन्तरम् शिष्यः गुरुं नमति। ततः परम् आचार्यः छात्रम् पश्यति। ततः परम् छात्रः आचार्यम् नमति।
17. रामः दशरथस्य पुत्रः। रामः शिवम् स्मरति। शिवः गणेशस्य पिता। शिवः रामम् नमति। लक्ष्मणः रामस्य भ्राता(brother)। लक्ष्मणः शिवम् स्मरति। शिवः कार्तिकस्य पिता। शिवः लक्ष्मणम् पश्यति। लक्ष्मणः भरतस्य भ्राता (brother)। लक्ष्मणः शिवम् नमति (bow down)। सीता रामस्य पत्नी(wife)। सीता वनम् गच्छति (go)। रामः वसिष्ठस्य शिष्यः(disciple)। सीता रामम् स्मरति(remember)। वसिष्ठः रामस्य गुरुः(master/teacher)। रामः सीताम् स्मरति। सीता जनकस्य दुहिता (daughter)। सीता रामं पश्यति(see)। लक्ष्मणः रामस्य सेवकः (servant)। लक्ष्मणः रामम् पश्यति। रामः सीताम् पश्यति। सीता रामम् नमति। लक्ष्मणः वनं(forest) गच्छति। लक्ष्मणः रामम् नमति। भवान्(you) कस्य भक्तः(devotee)। भवान् रामम् स्मरति। भवान् रामस्य भक्तः। रामः वानरं पश्यति। वानरः रामस्य भक्तः। वानरः रामम् स्मरति। अहं शिवस्य सेवकः (servant)। अहं शिवम् स्मरामि।
18. यदा अहं रामम् नमामि तदा एषः(this) छात्रः (student) सरस्वतीम् स्मरति। अयं जनः देवीभक्तः devotee of goddess। अयम् जनः देवीम् स्मरति। स वृद्धः देवभक्तः devotee of god। सः वृद्धः देवताम् नमति। यदा गुरुः शिष्यं पश्यति तदा शिष्यः गुरुं नमति। यदा आचार्यः छात्रम् पश्यति तदा छात्रः आचार्यम् नमति।
19. गणेशाय नमः। अत्र बालाः क्रीडन्ति। तत्र शिष्याः पठन्ति। सर्वत्र संचरति पवनः(air)। मूर्खान् हसन्ति जनाः। न वहति तडागस्य(lake) जलम्। वातेन(wind) जले तरङ्गाः(waves) उद्भवन्ति। कदा गच्छसि। अद्य (today) गच्छामि। हे मर्खाः, सज्जनान् किं वृथा(unnecessarily) निन्दथ। ‘धूर्ताः क्रीडन्ति बालिशैः’ इति वदन्ति जनाः। कुत्र वससि (stay)। वेणुग्रामे वसामि। नेत्राभ्याम् पश्यामः, अन्धाः अपि पश्यन्ति, अहो आश्चर्यम्। कथमेवं वदसि। अनृतं (untruth) न वदामि, किं न पश्यन्ति अन्धाः स्पर्शेन (touch)। अजीर्णे भोजनं विषम्।(विषतुल्यम्)
20. सिंहः – अस्ति तत्र कश्चित् (some) सिंहः। स च विशालः क्रूरः क्षुधार्तः च अस्ति। स मां पश्यति। अहम् अपि सिंहं पश्यामि। सः त्वाम् अपि पश्यति। सः अत्र तत्र सर्वत्र अपि पश्यति। अहं न जानामि यत् सिंहः किं चिन्तयति इति। संभवतः अस्मान् खादितुं चिन्तयति। सिंहस्य चत्वारः पादाः सन्ति। सः च चपलः (quick, swift) जन्तुः (animal)। तस्मात् सः द्रुतं धावति। अस्माकं दौ पादौ स्तः। अतः वयं मन्दं (slow) धावामः। सिंहेन अस्माकं मृत्युः निश्चितः इति वयं चिन्तयामः। वयम् आत्मरक्षायाः उपायं चिन्तयामः। अयम् अति विषमः समयः। अस्यां विपदि भगवान् एव अस्मान् रक्षितुं समर्थः इति अस्माकं दृढः विश्वासः। अतः अस्माभिः देवः अवश्यं स्मरणीयः। तस्मात् नेत्रे निमिल्य देवं स्मर्तुम् आरभामहे वयम्। तत्पश्चात् वयं नेत्रे उन्मिल्य दृष्टवन्तः यत् सिंहः विनष्टः(तिरोभूतः/अन्तर्हितः)। अहो भगवतः कारुण्यम्। धन्याः वयम्। रक्षिताः वयम्। भगवान् दयालुः। भगवान् विपत्तारणः।
21. कृषकः – एषः कृषकः (farmer)। तस्य नाम गोपालः इति। गोपालः प्रभाते क्षेत्रं (farm) गच्छति। वृषभानां (ox) साहाय्येन भूमिं (land) कृषति (till, जोतना)। कृषीवलः बीजानि (seeds) च वपति (रोपण करना)। तस्मात् सस्यानि (Corn, grain; फसल, crop) विन्दति (get)। अतीव श्रमपूर्णं तस्य जीवनम्। तस्य बहुश्रमैः राष्ट्रस्य पोषणं भवति।
22. ग्रामः – अस्ति राधानगरं नाम ग्रामः। तस्मिन् ग्रामे एषः कश्चित् (some) कृषीवलः वसति। गोपालः इति तस्य नामधेयम्। तस्मिन् ग्रामे अन्ये अपि कृषकाः वसन्ति। प्रायः सर्वेषां कृषकाणां स्वक्षेत्राणि सन्ति। गोपालः प्रतिदिनं प्रभाते स्वक्षेत्रं गच्छति। बलीवर्दानां साहाय्येन एषः हलेन भूमिं कृषति। भूमौ बीजानि च यथाकालं (on time) वपति। जलेन च सिञ्चति अङ्कुरान् (sprout)। रक्षति सस्यानि कीटेभ्यः (insects) प्राणिभ्यः च। तस्मात् यथाकालं विपुलानि सस्यानि विन्दति। विपण्यां (विपणि) सस्यानि विक्रीणाति। सस्यानि विक्रीय वित्तं (money) लभते। अतीव श्रमपूर्णं तस्य जीवनम्। तस्य अपरिमितैः श्रमैः राष्ट्रस्य पोषणं भवति। अतः यत्र कुत्रापि कृषकस्य आदरः कर्तव्यः। तस्य साहाय्यं कर्तव्यम्। तस्मै सहानुभूतिः प्रकटनीया। तस्य सरलम् ग्राम्यजीवनं दृष्ट्वा उपहासः कदापि न कर्तव्यः।
23. परिचारिका – एषा परिचारिका (servent)। अर्पिता इति तस्याः नामधेयम्। अर्पिता सेवापरा वर्तते। एषा रुग्णसेवाव्रतम् आचरति। अतीव मृदुलं व्यवहारं करोति नित्यम्। रुग्णसेवा खलु जनसेवा। अतः अर्पिता जनसेविका एव।
24. अध्यापकः – एषः अध्यापकः। विद्यामन्दिरम् इति तस्य प्रशाला। सः प्रतिदिनम् पाठशालां गच्छति। विद्यालये सः संस्कृतभाषां छात्रान् अध्यापयति। सः अतीव वत्सलः। सः छात्रान् विद्याम् पाठयति, तेषु स्निह्यति च। संस्कृतविद्यायां निष्णातः सः अध्यापने च कुशलः। सः छात्रान् उत्तमान् पण्डितान् करोति।
25. मूर्खः वानरः – कश्चन नृपः (king) अस्ति। तस्य प्रासादे (palace) कश्चन वानरः अस्ति। सः वानरः महाराजस्य अतीव विश्वासपात्रम् अनुचरः (servent)। राजभवने सर्वत्र अपि प्रवेशं करोति। एकदा महाराजः कक्षे निद्रां करोति। तदा वानरः कक्षं गच्छति। सः निद्रितस्य महाराजस्य समीपं गच्छति। व्यजनेन (fan) वीजनम् (fanning) आरभते। तदा महाराजस्य बुक्के (chest) एका मक्षिका (fly) उपविशति। वानरः व्यजनेन तां ताडयति (hit)। सः ताडनाय मुहुर्मुहुः प्रयत्नं करोति। तथापि सा मक्षिका दूरं न गच्छति। तदा सः चपलः मूर्खः वानरः कुप्यति (angry)। तीक्ष्णं खड्गम् (large knife) आददाति (takes)। मक्षिकाम् बलेन प्रहरति (hits)। मक्षिका उड्डयते (fly)। परन्तु खड्गप्रहारेण महाराजस्य बुक्कम् विदीर्यते (tear)। तेन महाराजः म्रियते (die)।
26. मूर्खः वानरः – कश्चन महाराजः आसीत्। तस्य प्रासादे कश्चन वानरः आसीत्। सः महाराजस्य अतीव विश्वासपात्रम् अनुचरः। अतः राजभवने सर्वत्र अपि तस्य प्रवेशः अनुमतः आसीत्। एकदा महाराजः अन्तःपुरे निद्रितः आसीत्। तदा वानरः तत्र आगतवान्। सः निद्राङ्गतस्य महाराजस्य समीपं गत्वा व्यजनेन वीजनम् आरब्धवान्। अत्रान्तरे महाराजस्य वक्षस्स्थले एका मक्षिका उपविष्टा। वानरः व्यजनेन तां दूरीकर्तुं पुनः पुनः प्रयत्नं कृतवान्। तथापि मक्षिका ततः दूरं न गता। तदा सः स्वभावचपलः मूर्खः वानरः कुपितः सन् तीक्ष्णं खड्गं गृहीत्वा तेन नृपस्य बुक्के प्रहारं कृतवान्। मक्षिका उड्डीय ततः पलायिता। खड्गप्रहारेण महाराजस्य वक्षस्स्थलं विदीर्णम्। तेन महाराजः मृतः।
27. कुशलः वृद्धः – कश्चन वृद्धः आसीत्। सः क्षुधार्तः अभवत्। समीपे एकः आम्रवृक्षः आसीत्। वृद्धः आम्रवृक्षस्य समीपम् अगच्छत्। वृक्षे बहूनि फलानि अपश्यत्। सः अचिन्तयत् – “अहं वृद्धः। मम शरीरे शक्तिः नास्ति। वृक्षः उन्नतः अस्ति। कथम् वृक्षम् आरोहाणि। कथं फलानि प्राप्नवानि।” इति। तस्मिन् वृक्षे केचन वानराः आसन्। वृद्धः एकम् उपायम् अकरोत्। सः पाषाणखण्डान् आदाय वानरान् प्रति अक्षिपत्। तेन वानराः अकुप्यन्। ते वानराः फलानि स्वीकृत्य वृद्धं प्रति अक्षिपन्। तदा वृद्धः तानि फलानि आदाय सन्तोषेण अखादत्। स्वस्य क्षुधायाः निवारणम् अकरोत् च।
28. दैवमेव परम् – एकः अहितुण्डिकः आसीत्। सः सर्पान् गृहीत्वा जीविकां करोति स्म। एकदा सः सर्पमेकम् आनयति। सर्पं पेटिकायां स्थापयति च। प्रतिदिनं सर्पस्य प्रदर्शनं करोति। जीविकां करोति। कदाचित् अहितुण्डिकः अन्यं ग्रामम् अगच्छत्। तस्य पत्नी पुत्राः अपि अगच्छन्। सर्पः पेटिकायाम् एव बद्धः आसीत्। पञ्च दिनानि अभवन्। अहितुण्डिकः न आगच्छत्। सर्पस्य आहारः एव नास्ति। सः पेटिकातः बहिः गमनाय प्रयत्नम् अकरोत्। सः बुभुक्षितः आसीत्। अतः शक्तिः नासीत्। गमनाय विफलः अभवत्। तदा पेटिकासमीपे एकः मूषकः आगच्छत्। सः पेटिकाम् अपश्यत्। “पेटिकायां भक्ष्याणि सन्ति” इति मूषकः अचिन्तयत्। “रन्ध्रं करोमि” इति सः निश्‍चयम् अकरोत्। अनन्तरं सः रन्ध्रं कृत्वा अन्तः प्रवेशम् अकरोत्। मूषकः सर्पस्य मुखे एव अपतत्। सर्पः मूषकम् अखादत्। तेन रन्ध्रेण एव बहिः अगच्छत्। अहो! सर्पस्य सौभाग्यम्! मूषकस्य च दौर्भाग्यम्!!
यः क्रियावान् स पण्डितः
अस्ति तुङ्गभद्रायाः तीरे कश्चन ग्रामः। तत्र मायणः नाम कश्चित् गृहस्थः निवसति स्म। मायणस्य त्रयः पुत्राः – माधवः सायणः भोगनाथः च इति। त्रयः अपि तेजस्विनः। ग्रामस्य समीपे कश्चन आश्रमः आसीत्। ते तत्र विद्याभ्यासं कुर्वन्ति स्म। माधवः अध्ययने क्रीडाभ्यासे च अग्रगण्यः। तस्मात् स गुरूणां प्रियतमः।
उषःकाले माधवः सहाध्यायिभिः सह स्नानाय नदीम् आगतः। सः नद्यां तरति स्म। तदानीम् दूरे कस्याश्चित् स्त्रियाः चीत्कारः तेन श्रुतः। किम् इदम् इति चिन्तयन् माधनः परितः दृष्टवान्। अथच पुनरपि चीत्कारः जातः। माधवः सद्यः एव तीरम् आगतवान्। चीत्कारम् अनुसृत्य धावितवान् च।
माधवेन राजमार्गे शिबिका दृष्टा। शिबिकां परितः यवनसैनिकाः सन्ति। ते शिबिकावाहकान् भीषयन्ति। शिबिकायाम् काचित् तरुणी अस्ति। ताम् तरुणीम् अपहर्तुम् ते सैनिकाः प्रयतन्ते। अतः सा तरुणी भयाकुला क्रन्दति।
माधवः एतत् सर्वम् निरीक्षितवान्। अत्रान्तरे माधवस्य महान् क्रोधः उत्पन्नः। यवनाः भारतदेशे स्त्रियाः अपमाननं कुर्वन्ति किम्, यवनानाम् एतादृशम् औधत्यं किम् इति साकूतम् आलोचितवान् सः।
माधवः आयुधरहितः आसीत्। तथापि सः तत् न गणितवान्। सद्यः एव आक्रमणं कृतवान्। यवनानाम् उपरि हस्तेन प्रहारान् कृतवान्। स्त्रियाः विमोचनं च साधितवान्। एतत् आक्रमणं यवनानाम् अनपेक्षितम् आसीत्। ते अपि क्रुद्धाः सञ्जाताः। ब्राह्मणबालकं दृष्ट्वा ते परं कोपं गताः। ते सर्वे मिलित्वा बालकम् आक्रान्तवन्तः।
माधवः तु अत्यन्तं धीरः साहसी च। तस्य समीपे तेषु अन्यतमः योधः आसीत्। तस्य हस्तात् माधवः खड्गम् आकृष्टवान्। तेन खड्गेन द्वित्रान् प्रहृतवान् च। घर्मेण ओल्लः अभवत्। एतद् दृष्ट्वा इतरे तस्मात् स्थानात् तूर्णम् पलायितवन्तः। माधवः अपश्यत् यत् तरुणी भयेन कम्पते स्म इति। माधवः तां तस्याः गृहं प्रापितवान्। तदनन्तरम् स्वस्य मठम् प्रत्यागतवान्।
विग्रहसमये माधवस्य शरीरं क्षतविक्षतम् अभवत्। एतत् दृष्ट्वा गुरुः पृष्टवान् – किं सञ्जातम् इति। माधवः सर्वम् वृत्तान्तं गुरवे निवेदितवान्। तदा तत्रत्याः केचन गुरुं पृष्टवन्तः – अपि ब्राह्मणः युद्धं कर्तुम् अर्हति। एतत् धर्मविरुद्धं किल इति।
तदा गुरुः उक्तवान् – अथ किम्। माधवः युक्तम् एव आचरितवान्। पूजार्हाणां रक्षणं करणीयम् एव। अतः माधवः श्रेष्ठं धर्मम् आचरितवान् इति। स एव पण्डितः। यतो हि यथा तस्य विद्या तथा तस्य क्रिया अस्ति। तथाहि उक्तिः – यः क्रियावान् स पण्डितः। कच्चित् यूयम् अवगतवन्तः।
एषः एव माधवः ततः परं विद्यारण्यः इति प्रसिद्धिम् गतः। एषः एव विजयनगरं स्थापितवान्।
(शिबिका- palanquin. अत्रान्तरे – इसी बीच। अथच – और भी, इसी प्रकार। अथकिम् – और क्या, हाँ ठीक ऐसा ही, अवश्य ही। साकूतम् – भावनापूर्वक, साभिप्राय। आकुल- भरपूर, भरा हुआ, प्रभावित, व्यस्त। कच्चित् – मुझे आशा है कि। विग्रहः- कलह, युद्ध। पूजार्ह- पूजा के योग्य, पूज्य। तूर्णम् – शीघ्रम्। सद्यः – तुरन्त, फौरन, उसी दिन, आज )
पुरुषार्थः
मानवः जीवने किम् वाञ्छति। मानवः जीवने सुखम् इच्छति, दुःखम् च परिहर्तुम् कामयते। अतः जन्तोः सुखम् इष्टम् भवति, दुःखम् अनिष्टम् भवति। अतः सुखलाभस्य उपायान् आविष्कुर्वन्ति अनुतिष्ठन्ति च, एवञ्च दुःखपरिहारस्य उपायान् च जिज्ञासन्ति अवलम्बन्ते च सर्वेऽपि जन्तवः। इष्टप्राप्तेः अनिष्टपरिहारस्य च एते औषधादयः लौकिकाः उपायाः सुबोधाः सुलभाः च प्राणिनामपि। एवञ्च एतान् उपायान् धर्मशास्त्रं विना एव जन्तवः बोधन्ति कुर्वन्ति च। अत्र अयं विशेषः यत् इष्टप्राप्तेः अनिष्टपरिहारस्य च अलौकिकान् उपायान् यः उपदिशति स वेदः।
अर्थ्यते यः इति सः अर्थः। पुरुषस्य अर्थः पुरुषार्थः। अथवा पुरुषेण यः अर्थ्यते स पुरुषार्थः। अर्थात् पुरुषः, नरो वा नारी वा, यद् कामयते इच्छति अर्थयते स एव पुरुषार्थः।
पुरुषः सुखमेव अर्थयते। अतः सुखमेव पुरुषार्थः सकलप्राणिसाधारणः। सुखम् नित्यानित्यभेदेन द्विविधम् भवति। अतः एव पुरुषार्थस्य अपि प्रकाराः सन्ति। नित्यं सुखं मोक्षः कथ्यते। अनित्यसुखं कामः कथ्यते। इन्द्रियजन्या प्रीतिः आनन्दः सुखम् एव कामः उच्यते। इच्छा इति कामशब्दस्य अर्थः अत्र नाद्रियते। कामस्य कारणं हि धर्मः कथ्यते। धर्मशब्दस्य अर्थः पुण्यम्। धर्मस्य साधनम् अर्थः कथ्यते। अर्थो हि धर्मस्य सामग्री धनादिकम्। एवं धर्मार्थकाममोक्षाः चत्वारः पुरुषार्थाः सुप्रसिद्धाः वैदिकसंस्कृतौ। तेषु काममोक्षौ मुख्यौ। कामस्य साक्षात् कारणं धर्मः। धर्मस्य प्रयोजकः अर्थः। कामलाभाय एव धर्मः अर्थः च सेव्येते नान्यप्रयोजनाय। अतः धर्मार्थौ गौणौ पुरुषार्थौ। मुख्ययोः काममोक्षयोः अपि मोक्षः नित्यः। अतः मोक्षः एव परमः पुरुषार्थः मतः बुधैः। पुण्यार्जनस्य सामग्री धनादिकम् अनित्यम्। अतः अर्थः अनित्यः इति प्रत्यक्षेण ज्ञायते। इन्द्रियजन्यं सुखं क्षणिकम् अस्ति इति अतः तदपि अनित्यमेव इति अनुभवसिद्धम्। अत एव अनित्यसुखस्य कारणं धर्मः अपि अनित्यः एव। न हि कारणसत्त्वे कार्याभावः भवति। अर्थात् कारणं यदि विद्यते तर्हि तस्य कार्यमपि स्यात्। कारणमस्ति किन्तु कार्यं नास्ति इति कदाचिदपि न भवति। तत्र यदि कारणं नित्यम् अर्थात् सदा वर्तते तर्हि कार्यमपि नित्यमेव स्यात्। कार्यम् अनित्यं चेत् तत्कारणमपि अनित्यमेव। इत्थं धर्मस्य कार्यभूतः कामः अनित्यः चेत् तत्कारणभूतः धर्मः अपि अनित्यः एव।
संस्कृतप्रचारस्य आवश्यकता
संस्कृतभाषा अस्माकं भारतदेशस्य सर्वप्राचीना भाषा अस्ति। सम्प्रति अस्माकं देशे अनेकाः भाषाः व्यवह्रियन्ते। यथा हिन्दी-वङ्ग-गुर्जर-उत्कल-आसामी-प्रभृतयः। आभ्यः पूर्वं पाली-प्राकृताऽपभ्रंशप्रभृतयः भाषाः प्रचलिताः आसन्। आसां सर्वासामपि भाषाणां जननी संस्कृतभाषा एव अस्ति। संस्कृतभाषातः एव एतासां सर्वासाम् भाषाणाम् उत्पत्तिः अभवत्। अत एव इमाः भाषाः संस्कृतस्य सन्ततिरूपाः निगद्यन्ते। अत एव अद्यापि संस्कृतभाषा जननी इव आसां भाषाणां पालनं पोषणं संवर्धनं च करोति। अस्याः भाषायाः सुदृढानि व्याकरणानि अपि सन्ति। अतः नूतनानाम् विपुलशब्दानाम् निर्माणस्य सामर्थ्यम् संस्कृते अस्ति। अद्य विद्यमाना संस्कृतभाषा ज्ञाता चेत् पञ्चसहस्रवर्षपूर्वम् लिखिताः ग्रन्थाः अपि पठितुम् बोद्धुम् च शक्यन्ते। संस्कृतभाषायाम् पर्याप्तवर्णाः सन्ति। इयं भाषा यथा लिख्यते तथा उच्चार्यते, यथा उच्चार्यते तथा लिख्यते। अतः इयं भाषा सर्वकालेषु सर्वदेशेषु समाना विद्यते।
भारतीयसमाजस्य प्राचीनं साहित्यमपि संस्कृतभाषया एव लिखितमस्ति। यथा चत्वारः वेदाः चत्वारः उपवेदाः षड् वेदाङ्गानि चत्वारि उपाङ्गानि बहुविधानि दर्शनानि धर्मशास्त्राणि अर्थशास्त्रं कामशास्त्रं पुराणानि उपपुराणानि काव्यानि नाटकानि रामायणं महाभारतं चेत्यादि समस्तमपि सुविशालं विपुलं च ज्ञान-विज्ञान-वैभवं संस्कृतभाषया एव निबद्धं वर्तते। वैदिकसाहित्यातिरिक्तं जैनधर्मस्य बौद्धधर्मस्य च महत्त्वपूर्णाः ग्रन्थाः संस्कृतभाषया एव लिखिताः सन्ति। भोगवादीनाम् चार्वाकाणाम् अपि भाषा संस्कृतमेव।
एवमेव भारतस्य सम्पूर्णः इतिहासः अपि अनया एव भाषया समुपनिबद्धो वर्तते। देवासुराणाम् आख्यानम्, अवताराणां कथाः, महापुरुषाणां चरित्राणि, राजनीतिकथाः, वृत्तान्ताः, वंशोपवंशानां विस्तृतं वर्णनम्, भारतीयानां विदेशेषु गमनं स्वसंस्कृतेः प्रचारः चेति सर्वमपि भारतीयम् इतिवृत्तं रामायण-महाभारत-पुराण-प्रभृतिषु ग्रन्थेषु संस्कृतभाषया समुल्लिखितं वर्तते। संस्कृतम् ऋते भारतस्य इतिवृत्तस्य परिज्ञानाय नान्यः कोऽपि पन्थाः विद्यते।
इत्थमेव भारतीयानां धर्म-संस्कृति-सभ्यता-सदाचारादि-विषयाणाम् अपि ज्ञानं संस्कृतग्रन्थेभ्यः एव लब्धुं शक्यते, न अन्यतः।
एतेन इदं सिद्धं भवति यत् संस्कृतभाषायाः ज्ञानं विना भारतीयानां धर्मः साहित्यं संस्कृतिः सभ्यता इतिहासः आयुर्वेदः कला ज्ञानं विज्ञानं रीतिः नीतिः वा किमपि यथार्थरूपेण ज्ञातुं न शक्यते। अनेनैव कारणेन भारतीयजनतायाः कृते संस्कृतशिक्षायाः महती आवश्यकता वर्तते। यः संस्कृतभाषाम् जानाति सः भारतीयताम् मनागपि न ज्ञातुमर्हति। एतदतिरिक्तं भारतीयराष्ट्रस्य विभिन्नेषु प्रदेशेषु सांस्कृतिकदृष्ट्या ऐक्यसंरक्षणाय अपि संस्कृतस्य महती उपयोगिता अस्ति।
वैदिशिकानाम् अपप्रचारवशाद् पराधिने भारते संस्कृतभाषा भारतीयैः ईषद् उपेक्षिता। धूर्ताः केचिद् वैदेशिकाः इयम् मृतभाषा इति वदन्ति स्म। परन्तु इयं भाषा वस्तुतः उपेक्षणीया वा मृता वा न वर्तते। प्रसन्नतायाः अयं विषयो वर्तते यत् स्वतन्त्रतायां प्राप्तायां दास्यत्वरूपाद् दुष्टग्रहाद् निर्मुक्ताः सर्वेऽपि भारतीयाः संप्रति संस्कृतप्रचारस्य महिमानम् उपयोगिताम् च अङ्गीकुर्वन्ति। भारतस्य कृते इदं शुभलक्षणं वर्तते। यद् राष्ट्रं स्वकीयस्य साहित्यस्य स्वकीयायाः संस्कृतेश्च संरक्षणं गौरवस्य वर्धनं च न करोति तद् राष्ट्रं कदापि समुन्नतिं कर्तुं न शक्नोति, परकीयेभ्यः स्वरक्षाम् कर्तुम् न शक्नोति। इदं सर्वसम्मतं तथ्यं वर्तते। अतः वयम् आशास्महे अनया एव दृष्ट्या भारतराष्ट्रस्य कर्णधाराः तथा सर्वे भारतीयाः जनाश्च संस्कृतभाषायाः रक्षणाय प्रचाराय प्रसाराय संवर्धनाय च बद्धपरिकराः प्रयतेरन् इति शम्।
_/\_ _/\_ _/\_
धातुप्रयोगः
कृषकः उद्गृह्णाति (उद्+गृह्-विश्वासं करोति) यत् वृक्षः वायुम् पुनाति (पू- पवित्रं करोति)। अतः स धान्यम् विक्रीणाति (वि+क्री- विक्रयं करोति)। ततः लब्धेन धनेन एकम् वृक्षम् क्रीणाति (क्री-क्रयं करोति)। स तस्य वृक्षस्य शुष्काः शाखाः लुनाति (लू- छेदनं करोति)। लूताभ्यः शाखाभ्यः उचितानि काष्ठानि वृणाति (वृ- पसन्द/चयन करना)। तानि काष्ठानि संगृह्णाति (सम्+गृह्- संग्रहं करोति)। स काष्ठसंग्रहम् इष्णाति (इष्- पुनः पुनः करोति।)। तानि काष्ठानि कलापाकारेण दाम्ना बध्नाति (बध्- बन्धनं करोति। दामन्(नपुं) गुणः रज्जुः। कलापः bundle)। तान् काष्ठकलापान् गृह्णाति (गृह्- ग्रहणं करोति, लेता है)। तैः काष्ठकलापैः शकटं पृणाति(पृ- पूर्णं करोति। शकटम्- यानम्)। शकटे कलापान् गुणेन आबध्नाति (आ+बध्- समन्तात् बध्नाति। गुणः रज्जुः)। शकटे पटम् स्तृणाति(स्तृ- आच्छादनं करोति)। वृषान् शकटे युनाति(यु- योगं करोति। वृषः – बलीवर्दः वृषभः)
सिंहः सारमेयम् धर्तुम् इच्छति (सारमेयः कुक्कुरः)। सारमेयः प्रतिकुरुते (प्र+कृ- प्रतीकार करना)। सिंहः आकुरुते। (आ+कृ- वेषान्तर करना)। तत्र गुल्मानि उपकुर्वन्ति। (उप+कृ- उपकारं कुर्वन्ति। गुल्मः म् bush, thicket) सिंहः सारमेयम् अधिकुरुते।(अधि+कृ- जितना, अधिकार करना) सिंहः सारमेयम् उत्कुरुते। (उत्+कृ- मार डालना) सिंहः सारमेयस्य शरीरम् परिष्करोति। (परि+कृ- स्वच्छ करना)
उषायाम् नदीम् तितिर्षुः नद्याः तीरे सीदति। (सद्-बैठना, लेटना, आराम करना। उषा- प्रभातम्) तेन सह तस्य मित्रम् अपि तत्र निषीदति। (नि+सद्- बैठना; लेटना; आराम करना) प्रत्यूषे शैत्यम् अस्ति। शैत्येन गात्राणि सीदन्ति। (सद्- अवसन्न, म्लान, क्लान्त होना) शैत्यनिवारणस्य उपायम् सः अभ्युहति। (अभि+ऊह्-अटकल लगाना; अंदाज अनुमान करना) सः काष्ठानि समूहति।(सम्+ऊह्-समूहं करोति) अग्निम् प्रज्वालयति। अग्नेः उष्णता शैत्यम् निवारयति। तदा यद्यपि महान् अन्धकारः महिका च अपि अस्ति तथापि स न विषीदति। (वि+सद्- खिन्न, निराश होना। महिका- कोहरा) अन्धकारः पारगमनम् प्रत्यूहति। (प्रति+ऊह्- बाधा, रुकावट डालना) स प्रतीक्षते। (प्रति+ईक्ष्- प्रतीक्षा करना) सः वेलयति। (समयं गणयति।) स ईश्वरम् प्रणमति। ईश्वरम् प्रसादयति। (प्र+सद्+णिच्- प्रसन्न, प्रार्थना, राजी करना) ईश्वरः प्रसीदति। (प्र+सद्- प्रसन्न होना) सूर्यः उदेति। (उद्+इ) प्रकाशः अन्धकारम् उत्सादयति। (उत्+सद्+णिच्- नष्ट, उन्मूलन करना)। रश्मयः अन्धकारम् अपोहन्ति। (अप+ऊह्- हटाना, दूर करना) यदा सूर्योदये दिशाः प्रसीदन्ति (प्र+सद्- निर्मल, स्वच्छ, स्पष्ट होना) तदा तस्य प्रतीक्षा प्रसीदति। (प्र+सद्- फल आना, सफल होना)
_/\_ _/\_ _/\_
ईश्वरवन्दना
ईश्वरः संसारस्य सृष्टिकर्ता अस्ति। स एव सूर्यं सृजति। स एव चन्द्रं सृजति। स एव ग्रहान् सृजति। स एव नक्षत्राणि सृजति। स एव पशून् सृजति। स एव पक्षिणः सृजति। स एव वृक्षान् सृजति। स एव वनस्पतीन् सृजति। स एव नरान् सृजति। स एव नारीः सृजति। सर्वं स एव सृजति।
ईश्वरः सर्वव्यापकः अस्ति। स सर्वत्र अस्ति। स जले अस्ति। स्थले अस्ति। आकाशे अस्ति। पाताले अस्ति। पशौ अस्ति। पक्षिणि अस्ति। वृक्षे अस्ति। वनस्पतौ अस्ति। स कणे कणे अस्ति। स तृणे तृणे अस्ति। स एव अग्रे अस्ति। स एव पश्चाद् अस्ति। स एव उपरि अस्ति। स एव नीचैः अस्ति। स एव वामे अस्ति। स एव दक्षिणे अस्ति। स सर्वत्र अस्ति।
ईश्वरः सर्वशक्तिमान् अस्ति। तस्मिन् सर्वाः शक्तयः सन्ति। स रचयितुं शक्नोति। नाशयितुं शक्नोति। उत्थापयितुं शक्नोति। पातयितुं शक्नोति। दातुं शक्नोति। ग्रहीतुं शक्नोति। मारयितुं शक्नोति। जीवयितुं शक्नोति। कर्तुं शक्नोति। अकर्तुं शक्नोति।
अन्यथा कर्तुं शक्नोति। संहर्तुं शक्नोति।
ईश्वरस्य अनेकानि अद्भुतानि च रूपाणि सन्ति। स निराकारः अपि अस्ति। साकारः अपि अस्ति। निर्गुणः अपि अस्ति। सगुणः अपि अस्ति। स्थूलः अपि अस्ति। सूक्ष्मः अपि अस्ति। महीयान् अपि अस्ति। अणीयान् अपि अस्ति। सः अनादिः अस्ति। सः अनन्तः अस्ति। सः अनेकरूपः अस्ति।
स एव ब्रह्मरूपेण जगतः निर्माणं करोति। स एव विष्णुरूपेण जगतः पालनं करोति। स एव शिवरूपेण जगतः संहारं करोति। स एव वायुरूपेण वाति। स एव इन्द्ररूपेण वर्षति। स एव सूर्यरूपेण प्रकाशते। स एव अग्निरूपेण ज्वलति। इदं सर्वं जगद् ईश्वरस्य एव रूपं वर्तते। ततः भिन्नं किमपि नास्ति।
यथा ईश्वरस्य अनेकानि रूपाणि सन्ति तथैव तस्य अनेकानि नामानि अपि सन्ति। ब्रह्म परमात्मा परमेश्वरः जगदीश्वरः ओङ्कारः इत्यादीनि तस्य अनन्तानि नामानि सन्ति। स एव अरबीभाषायाम् अल्ला, पारसीभाषायां खुदा तथा अंग्रेजीभाषायां गाॅड इति कथ्यते। एक एव ईश्वरः विभिन्न-नामभिः व्यपदिश्यते। भिन्नभिन्नपद्धतिभिः भिन्नभिन्नस्थानेषु च पूज्यते।
ईश्वरः अतीव दयालुः अस्ति। स दीनानां पालकः अस्ति। अनाथानां सहायः अस्ति। पतितानाम् उद्धारकः अस्ति।
अहं तं महेश्वरं वन्दे। अहं तं परमेश्वरं वन्दे।
काकस्य उपायः
कश्चन महावृक्षः आसीत्। तत्र कश्चन काकः पत्न्या सह वसति स्म। तस्य एव वृक्षस्य कोटरे कश्चन कृष्णसर्पः अपि वसति स्म। यदा काकी प्रसूता भवति स्म तदा कृष्णसर्पः तस्याः शवकान् खादति स्म। एतेन काकः काकी च महत् दुःखम् अनुभवतः स्म।
अतः एकदा काकः स्वमित्रं शृगालं गत्वा उक्तवान् -”भो मित्र! स कृष्णसर्पः कथञ्चित् मारणीयः। भवान् कमपि उपायं सूचयतु” इति। शृगालः एकम् उपायं सूचितवान्। तम् उपायम् श्रुत्वा काकः अति सन्तुष्टः।
तदनन्तरं काकः उड्डीय राजनगरम् गतः। तत्र महाराजस्य प्रासादस्य सरोवरे अन्तःपुरस्त्रियः जलक्रीडायां मग्नाः आसन्। तासां वस्त्राणि आभरणानि च सरोवरस्य सोपानेषु स्थापितानि आसन्। काकः तत्र गतवान्। राजभटानां पश्यताम् एकं सुवर्णहारम् आदाय अरण्याभिमुखं प्रस्थितवान्। तत् दृष्ट्वा राजभटाः काकम् अनुसृतवन्तः।
काकः अरण्यम् आगत्य महावृक्षस्य कोटरे तं हारं पातितवान्, स्वयं च ततः दूरं गतवान्। राजभटाः तत्र आगतवन्तः। कोटरे च तं हारं दृष्टवन्तः। तदा तत्र स्थितः कृष्णसर्पः कोपेन बहिः आगतवान्। राजभटाः दण्डप्रहारेण तं कृष्णसर्पं मारितवन्तः। हारं च गृहीतवन्तः। तदनन्तरं काकः पत्न्या सह सुखेन जीवितवान्।
–०:)०(:०–
नीलभाण्डे पतितः शृगालः
कस्मिंश्चित् वने चण्डरवः नाम शृगालः वसति स्म। एकदा सः आहारं लब्धुं नगरम् आगतवान्। तं दृष्ट्वा अनेके शुनकाः भषन्तः समीपम् आगतवन्तः। चण्डरवः भीत्या धावितुम् उद्युक्तः। शुनकाः अपि तस्य अनुसरणं कृतवन्तः। चण्डरवः प्राणभयात् धावन् मार्गे दृष्टं रजकगृहं प्रविष्टवान्।
तत्र नीलरसेन परिपूर्णम् एकं महाभाण्डम् आसीत्। चण्डरवः तस्मिन् भाण्डे पतितवान्। यदा सः भाण्डात् बहिः आगतः तदा तस्य शरीरं समग्रं नीलम् आसीत्।
‘एष एव स शृगालः’ इति अजानन्तः शुनकाः अन्यत्र कुत्रापि गतवन्तः। चण्डरवः इतस्ततः अटन् कथञ्चित् वनम् आगतवान्।
तत्र अन्ये मृगाः एतं नीलं शृगालं दृष्ट्वा भीताः पलायनं कुर्वन्ति स्म। तदा चण्डरवः तान् उक्तवान्- “भो प्राणिनः! भीतिः मास्तु। भवतां सर्वेषां रक्षणार्थम् एव चतुर्मुखः ब्रह्मा मां प्रेषितवान् अस्ति। अतः इतः परम् अहमेव भवतां राजा। मम आज्ञा भवद्भिः पालनीयाः” इति।
सिंहः गजः व्याघ्रः इत्यादयः सर्वे अपि मृगाः तत् अङ्गीकृतवन्तः। एवं चण्डरवः तस्य वनस्य राजा अभवत्।
प्रतिदिनं सिंहादयः मृगान् मारयित्वा मांसम् आनीय चण्डरवस्य पुरतः स्थापयति स्म। चण्डरवः आनन्देन तत् खादति स्म। एवमेव सः विना आयासं सुखेन जीवति स्म।
एकदा चण्डरवः सभायाम् उपविष्टवान् आसीत्। अन्ये प्राणिनः अपि पार्श्वे आसन्। तदा अकस्मात् दूरप्रदेशतः शृगालसमूहस्य कोलाहलः श्रुतः। स्वबान्धवानां ध्वनेः श्रवणात् चण्डरवस्य महान् आनन्दः जातः। तस्य शरीरं पुलकितम्। स उत्थाय आनन्दातिरेकेण नेत्रे निमील्य तारस्वरेण विरौतुम् आरब्धवान्। तदा सिंहादयः प्राणिन् ‘एष सामान्यः शृगालः एव , न तु ब्रह्मणा प्रेषितः’ इति ज्ञातवन्तः। अतः एकेन एव प्रहारेण ते तं मारितवन्तः।
–०:)०(:०–
धनपालः
एकस्मिन् ग्रामे कश्चित् निर्धनः युवकः आसीत्। तस्य नाम धनपालः आसीत्। सः प्रतिदिनं भिक्षायै ग्रामं ग्रामं प्रति भ्रमति स्म। भिक्षया प्राप्तैः सक्तुभिः तस्य घटः पूर्णः अभवत्। सः घटं नागदन्ते अवलम्ब्य तस्य नीचैः खट्वायां शेते स्म, शयनकाले च निरन्तरम् एकदृष्ट्या घटं पश्यति स्म।
स एकदा रात्रौ एवम् अचिन्तयत् – मम अयं घटः सक्तुभिः पूर्णः अस्ति। यदा दुर्भिक्ष्यं भविष्यति तदा सक्तु-विक्रयेण प्रचुरं धनं प्राप्स्यामि। ततः तेन धनेन अहम् अजाद्वयं क्रेष्यामि। अजाद्वयस्य शिशुभिः अजानां समूहः भविष्यति। अजानां विक्रयेण गवां महिषीणाम् अश्वानां च क्रयं करिष्यामि, तासां शिशुभिः बहवः पशवः भविष्यन्ति। तेषां विक्रयेण मम बहु धनं भविष्यति। धनेन विशालस्य भवनस्य निर्माणं कारयिष्यामि। तदा मां धनिकं मत्वा कोऽपि रूपवतीं कन्यां मह्यं प्रदास्यति। ततः मम पुत्रः भविष्यति। तस्य नाम सोमशर्मा इति करिष्यामि। कदाचित् क्रीडन् सः पुत्रः मम समीपम् आगमिष्यति। तदा कुपितः अहं स्वपत्नीं वदिष्यामि – “गृहाण एनं बालकम्।” सा गृहकार्ये संलग्ना मम वचनं यदा न श्रोष्यति तदा अहं पत्नीम् पादेन प्रहरिष्यामि।
एवं स्वप्नेन प्रेरितः सः पादप्रहारम् अकरोत्। तेन सक्तुभिः पूर्णः घटः भूमौ पतितः भग्नः च। भग्नेन घटेन सह एव तस्य मनोरथाः अपि भग्नाः। अतः युक्तमेव उक्तम् “अतिस्वप्नरञ्जनं किमर्थम्। अति सर्वत्र वर्जयेत्।”
यः क्रियावान् स पण्डितः
अस्ति तुङ्गभद्रायाः तीरे कश्चन ग्रामः। तत्र मायणः नाम कश्चित् गृहस्थः निवसति स्म। मायणस्य त्रयः पुत्राः – माधवः सायणः भोगनाथः च इति। त्रयः अपि तेजस्विनः। ग्रामस्य समीपे कश्चन आश्रमः आसीत्। ते तत्र विद्याभ्यासं कुर्वन्ति स्म। माधवः अभ्यासे क्रीडादिषु च अग्रगण्यः। गुरूणां प्रियतमः।
उषःकाले माधवः सहाध्यायिभिः सह स्नानाय नदीम् आगतः। सः नद्यां तरति स्म। तदानीं दूरे एकस्याः स्त्रियाः चीत्कारः श्रुतः। माधवः – किम् इदम् इति चिन्तयन् परितः दृष्टवान्। पुनः अपि चीत्कारः। माधवः सद्यः एव तीरम् आगतवान्। चीत्कारम् अनुसृत्य धावितवान् च।
राजमार्गे एका शिबिका। शिबिकां परितः यवनसैनिकाः सन्ति। ते शिबिकावाहकान् भीषयन्ति। शिबिकायाम् काचित् तरुणी अस्ति। तां तरुणीम् अपहर्तुम् ते सैनिकाः प्रयत्नं कुर्वन्ति। सा तरुणी भयात् क्रन्दनं करोति।
माधवः एतत् सर्वं दृष्टवान्। माधवस्य महान् क्रोधः उत्पन्नः। यवनाः भारतदेशे स्त्रियाः अपमाननं कुर्वन्ति किम्। यवनानाम् एतादृशम् औधत्यं किम्। इति आलोचितवान् सः।
माधवः आयुधरहितः आसीत्। सः तत् न गणितवान्। सद्यः एव आक्रमणं कृतवान्। यवनानाम् उपरि हस्तप्रकारं कृतवान्। स्त्रियाः विमोचनं साधितवान् च।
एतत् आक्रमणं यवनानाम् अनिरीक्षितम् आसीत्। ते अपि क्रुद्धाः सञ्जाताः। ब्राह्मणबालकं दृष्ट्वा तेषां कोपः प्रवृद्धः। ते सर्वे मिलित्वा बालकस्य उपरि आक्रमणं कृतवन्तः।
माधवः तु धीरः। समीपे एकः योधः आसीत्। तस्य हस्तात् माधवः खड्गम् आकृष्टवान्। तेन खड्गेन द्वित्रान् मारितवान् च। एतत् दृष्ट्वा इतरे इपि पलायनं कृतवन्तः। तरुणी भयकम्पिता आसीत्। माधवः तां तस्याः गृहं प्रापितवान्। तदनन्तरम् आश्रमं प्रत्यागतवान्।
युद्धसमये माधवस्य शरीरं क्षतविक्षतम् आसीत्। एतत् दृष्ट्वा गुरुः पृष्टवान् – किं सञ्जातम् इति। माधवः सर्वं वृत्तान्तं निवेदितवान्।
तदा तत्रत्याः केचन गुरुं पृष्टवन्तः – ब्राह्मणः युद्धं कर्तुम् अर्हति किम्। एतत् धर्मविरुद्धं किल इति।
तदा गुरुः उक्तवान् – माधवः युक्तम् एव आचरितवान्। पूजार्हाणां रक्षणं करणीयम् एव। अतः माधवः श्रेष्ठं धर्मम् आचरितवान् इति। स एव पण्डितः। यतो हि यथा तस्य विद्या तथा तस्य क्रिया अस्ति। तथाहि उक्तिः – यः क्रियावान् स पण्डितः।
एषः एव माधवः ततः परं विद्यारण्यः इति प्रसिद्धः। एषः एव विजयनगरं स्थापितवान्।
/\/\/\/\/\
कूपः कस्य
कश्चन ग्रामः। तत्र काचित् वृद्धा निवसति स्म। तस्याः गृहस्य पार्श्वे कश्चन कूपः आसीत्। सा वृद्धा ततः एव जलम् आनीय दैनन्दिनकार्याणि निवर्तयति स्म। तस्याः गृहस्य पार्श्वे भैरवः नाम कश्चन दुष्टः निवसति स्म। परपीडणे एव तस्य महान् सन्तोषः। कदाचित् स वृद्धायाः कूपं स्वस्य इति प्रतिपादयन् तस्य उपयोगम् आरब्धवान्। कूपसमीपे आगमनाय अपि वृद्धायै अनुमतिं न दत्तवान्। भैरवस्य सेवकाः अपि दुष्टाः क्रूराः च आसन्। अतः ग्रामजनाः तस्मात् भीताः भवन्ति सर्वदा। कूपः भैरवेण वशीकृतः इत्यतः वृद्धायाः कष्टम् आरब्धम्। पातुं जलं लब्धुम् अपि तया अन्यः कूपः आश्रयणीयः अभवत्। एतस्मात् खिन्ना सा राजधानीं गत्वा एतं विषयं राजानं निवेदितवती। राजा ‘अहं विचारयिष्यामि ’ इति उक्त्वा ततः ताम् प्रेषितवान्।
गुप्तचरैः राजा ज्ञातवान् यत् वृद्धायाः वृत्तान्तः सत्यः इति। अतः अनन्तरदिने स तं ग्रामं गत्वा वृद्धायाः गृहं विचार्य तस्याः कूपसमीपं गत्वा स्थितवान्। तस्य आगमनं ज्ञात्वा बहवः जनाः तत्र उपस्थिताः। परितः अवलोक्य राजा उच्चैः उक्तवान्- “एष कूपः कस्य? अहम् एषु दिनेषु ज्ञातवान् यत् एतस्मिन् कूपे महती सम्पत् आसीत् इति। अतः एष कूपः कस्य इति ज्ञातुम् इच्छामि।” इति।
सर्वे ग्रामजनाः उक्तवन्तः- “एष कूपः इदानीं भैरवस्य जातः अस्ति” इति।
राजा भैरवं कोपेन पश्यन् अवदत्- “भो कूपे स्थिता सम्पत्तिः क्वा गता? तां भवानेव स्वीकृतवान् स्यात्, भवतः पिता वा स्वीकृतवान् स्यात्। कूपादिषु विद्यमाना सम्पत् राजकोषाधीना स्यात्। अतः सा सम्पत्तिः भवता इदानीम् एव अर्पणीया। अन्यथा कारागारवासः अनुभोक्तव्यः” इति।
एतत् श्रुत्वा भीतः भैरवः झटिति- “एष कूपः मम न। एष कूपः एतस्याः वृद्धायाः एव” इति उक्तवान्।
“सत्यम् उच्यते खलु भवता?”- राजा पुनः अपृच्छत्।
“अहं सत्यम् एव वदामि महाराज! एष कूपः एतस्याः वृद्धायाः एव।” इति अवदत् भैरवः।
“अस्तु नाम” इति तम् उक्त्वा राजा वृद्धां पश्यन् अवदत् – “एष भैरवः सर्वेषां पुरतः अङ्गीकृतवान् अस्ति यत् एष कूपः भवत्याः इति। इतः परं भवती एतस्य उपयोगं करोतु क्लेशं विना। यदि एष पुनः कामपि पीडां दातुम् उद्यतः भवेत् तर्हि अस्मदीयान् जनान् भवती सूचयतु। ते एतं निग्रहीष्यन्ति” इति।
एवं चातुर्येण न्यायनिर्णयं कृतवतः राज्ञः नाम रणजित् सिंहः इति। स पञ्जाबप्रदेशस्य शासकः आसीत्। एतस्य शासनकाले एव अमृतसरसि स्थितः सुवर्णालयः निर्मितः।
~^/\^~
दानम्
कस्यचित् नृपस्य महान् गुरुः आसीत्। स राजा स्वस्य गुरोः माहात्म्यं श्लाघते स्म। कदाचित् स सहर्षं गुरवे दुकूलवस्त्राणि उपायनेन समर्पितवान्। वस्त्राणि लब्ध्वा प्रमुदितः गुरुः तानि वस्त्राणि आदाय गृहं प्रति प्रस्थितवान्। मध्येमार्गं तेन कश्चन भिक्षुकः दृष्टः। तस्य दरिद्रतायाः दर्शनात् गुरोः मनसि महती करुणा उत्पन्ना। अतः स राज्ञा दत्तानि वस्त्राणि भिक्षुकाय दत्त्वा अग्रे गतवान्। (दुकूल – very fine cloth)
परेद्यवि तेनैव मार्गेण गच्छन् राजा तं भिक्षुकं दृष्टवान्। किञ्च गुरवे उपायनीकृतानि दुकूलवस्त्राणि भिक्षुकेण परिधृतानि इति दृष्टवान्। “मया यत् गुरवे दत्तं तत् भिक्षुकस्य शरीरे दृश्यते। अर्थात् यत् मया दत्तं तद् गुरुः भिक्षुकाय दत्तवान् इति। एतेन गुरुः मम अपमानं कृतवान् इव” इति चिन्तयन् सः अतीव क्रुद्धः सञ्जातः।
कतिपयदिनानाम् अनन्तरं राजा गुरवे उपायनरूपेण सुवर्णकङ्कणं प्रदत्तवान्। गुरुः तत् सुवर्णकङ्कणम् आदाय आस्थानात् तु निर्गतः। तेन ज्ञातं यत् राजास्थानस्य कश्चन अनुचरः पुत्र्याः विवाहं कर्तुं क्लेशम् अनुभवति इति। अतः स तत् सुवर्णकङ्कणं राजास्थानस्य अनुचराय अयच्छत्।
एतं विषयं ज्ञात्वा राजा गुरुम् आहूय अवदत् – “भवतः महिमानम् ज्ञात्वा मया भवते उपायनानि दत्तानि। किन्तु भवान् कामम् अन्येभ्यः वितरति! किम् एतत् उचितम्” इति।
तदा गुरुः अवदत् – “राजन्! प्रदत्ते वस्तुनि धने वा सम्पूर्णतया स्वामित्वस्य त्यागः एव दानम् इति कथ्यते। परन्तु अधुनापि दानरूपेण दत्ते वस्तुनि स्वस्य स्वामित्वम् मन्यने भवान्। अत एव एवम् मां पृच्छति। तद्वस्तु आत्मनः एव इति भवान् भावयति। एतेन भवान् दानफलं न प्राप्स्यति। किञ्च, भवान् पृच्छति इत्यतः अहं किं वृत्तम् इति भवते निवेदयामि। वस्तुतः भवता मह्यं प्रदत्तानां वस्तूनाम् आवश्यकता मम अल्पा अस्ति। ततोऽपि अधिका आवश्यकता तेषाम् एव अस्ति। अतः एव अहं तानि वस्तूनि तेभ्यः दत्तवान्। अनेन भवन्तं प्रति धिक्कारः प्रकटनीयः इति तु मम उद्देशः नास्ति” इति। गुरोः प्रभावजनकवचोभिः राजा स्वदोषं विज्ञाय गुरुं क्षमां प्रार्थयत, दानस्य महिमानं च अजानात्।
मैत्र्याः सीमा*
देवदत्तः नाम राजा पूर्वम् आसीत्। तस्य भवनस्य वाटिकायां काचित् चटका निवसति स्म। राजा देवदत्तः पक्षिणां भाषां जानाति। अतः स चटकया सह सम्भाषणं करोति।
अथ एकदा राजकुमारेण सह राजा वाटिकां गत्वा चटकया सह सम्भाषणं कृतवान्। तदा चटका- “मया पुत्रः प्राप्तः अस्ति” इति उक्त्वा स्वशावकं राज्ञे अदर्शयत्। राजा तं शावकं दृष्ट्वा नितरां सन्तुष्टः अभवत्। चटकायाः राजकुमारस्य च मैत्री प्रवृद्धा। चटका राजकुमारं प्रीत्या एव पश्यति स्म। सा आहारार्थं गत्वा प्रत्यागमनसमये फलद्वयम् आनीय एकं राकुमाराय अन्यत् स्वशावकाय च ददाति स्म। एकस्मिन् दिने प्रातः चटका आहारार्थं गता आसीत्। तदा राजकुमारः चटकायाः नीडस्य समीपम् आगतवान्। राजकुमारस्य मनसि दुर्विचारः आविष्टः। स चटकाशावकं स्वीकृत्य मारितवान्। किञ्चित् समयानन्तरं माता चटका तत्र आगता। स्वस्य शावकस्य मरणस्थितिं दृष्ट्वा दुःखिता सा अश्रूणि अस्रावयत्। ‘मम पुत्रस्य मरणस्य कारणं राजकुमारः एव’ इति चिन्तयित्वा सा नीडात् राजभवनं गत्वा चञ्च्वा राजकुमारस्य नेत्रयोः नाशं कृतवती। राजा एतं विषयं ज्ञातवान्। ‘स्वस्य पुत्रस्य एव दोषः’ इति अवगतवान्। स चटकया कृतम् अपराधं क्षान्तवान्।
ततः चटका राजानं नमस्कृत्य अवदत्- “महाराज! इतःपरम् अहम् अत्र वासं कर्तुं न इच्छामि। अतः देशान्तरं गमिष्यामि।”
तदा राजा उक्तवान्-“किमर्थम् एवम् उच्यते? किं मया प्रमादः आचरितः? मम पुत्रस्य एव दृष्टिहानिः जाता चेदपि अहं तव विषये न्याय्यम् एव व्यवहारं कृतवान्। एवं स्थिते अपि अन्यत्र गमनं किमर्थं चिन्त्येत? अत्रैव वासं कुरु कृपया” इति।
किन्तु चटकया एष प्रस्तावः न अङ्गीकृतः। सा अवदत्-“महाराज! भवत्पुत्रेण मम पुत्रो मारितः, मया च भवत्पुत्रस्य दृष्टिहानिः कल्पिता इति तु सत्यम्। एवं परस्परविरोधः यत्र स्यात् तत्र वासः न करणीयः। इदानीं भवान् मां क्षान्तवान् चेदपि अग्रे पुत्रं यदा यदा द्रक्ष्यति तदा तदा मया कृतं दोषं भवान् स्मरिष्यति एव। तदवसरे न्यायदृष्टिः विलुप्ता भवेत्। अतः अधुनैव अहम् इतः प्रस्थानं करोमि” इति उक्त्वा आकाशे उड्डीय अगच्छत्।
–०:)०(:०–
॥भारद्वाजस्य निःस्पृहता॥
महर्षिः भारद्वाजः महान् प्राज्ञः इति भारतीये ऋषिकुले प्रसिद्धः। तस्य सहस्रशः शिष्याः आसन्। तेषु राजकुमाराः धनिकपुत्राः दरिद्राः च अपि आसन्। आश्रमे तु ते सर्वे समानाः। भारद्वाजः सर्वान् अपि प्रीत्या पालयति स्म।
भारद्वाजः वृद्धः जातः। एकदा ब्रह्मा तम् आगत्य उक्तवान् – महर्षे, भवान् इदानीं शतायुः अस्ति। इदानीं भवतः आयुः समाप्तम्। तथापि भवान् लोकोपकारी। अतः भवति अहं तुष्टः अस्मि। अहम् इदानीम् भवते वरम् एकं ददामि। तेन वरेण भवान् पुनः युवकः भविष्यति। पुनः शतवर्षपर्यन्तं जीवतु इति।
ब्रह्मदेवस्य अनुग्रहं श्रुत्वा आश्रमवासिनः नितराम् आनन्दिताः। पुनः देशविदेशेभ्यः अधिकाधिकाः शिष्याः समागताः। वेदघोषः, उपनिषच्चर्चा, शास्त्रवाक्यार्थः इत्यादयः पुनरपि प्रवृत्ताः। एवं शतं वर्षाणि समाप्तानि।
ब्रह्मा पुनः आगतवान्। तेजस्वी भारद्वाजः तं वन्दितवान्। ब्रह्मा तं पृष्टवान् – भारद्वाज, मया अधिकम् आयुः दत्तं खलु। कथं स कालः त्वया यापितः इति।
भारद्वाजः उक्तवान् – देव, मया पूर्वापेक्षया अधिकाधिकम् अध्ययनं कृतम्। अध्यापनकार्यमपि करोमि इति। तदा ब्रह्मा पृष्टवान् – भारद्वाज, अहं पुनः आयुः यौवनं च दास्यामि चेत् शतवर्षप्रर्यन्तं भवान् किं करिष्यति इति। भारद्वाजः उक्तवान् – भगवन्, पुनः अधिकज्ञानार्थम् अध्ययनं करिष्यामि। पुनः अपि अधिकाधिकशिष्यान् अध्यापयिष्यामि इति।
किं विवाहः पत्नीपुत्रादयः वा न अपेक्षिताः तव। किं सुखं न अभिलषति भवान् इति पृष्टवान् ब्रह्मा। भारद्वाजः उक्तवान् – देव, शिष्याः एव मम पुत्राः इव। वेदपरम्परां रक्षामि। सर्वत्र ज्ञानज्योतिः प्रज्वालयामि। इतोपि अधिकः आनन्दः परमं सुखं अन्यद् किम् भवितुम् अर्हति इति।
तदा ब्रह्मा – महात्मन्, धन्यः भवान्। कीर्तिमान् भवतु इति उक्त्वा प्रतिनिवृत्तः।
अहो भारद्वाजस्य अनुकरणीया निःस्पृहता विद्याप्रेम च।
(यत्र क्रियापदं नास्ति तत्र अस्ति/भवति/वर्तते/विद्यते इति एतेषु एकस्य प्रयोगः कर्तव्यः)
॥बालकः ध्रुवः॥
पुरा उत्तानपादः नाम कश्चिद् राजा आसीत्। तस्य द्वे भार्ये आस्ताम् – सुनीतिः सुरुचिः च। ज्येष्ठा सुनीतिः कनिष्ठा सुरुचिः च। कनिष्ठा सुरुचिः महाराजस्य अधिकं प्रिया आसीत्। सुरुचिपुत्रः उत्तमः पितुः प्रियतरः आसीत्। किन्तु सुनीतिपुत्रः ध्रुवः न तथा स्नेहभाजनम्।
जातु (कदाचिद्) राजा उत्तानपदः सिंहासने उपविष्टः आसीत्। तस्य अङ्के उत्तमः आसीनः आसीत्। तम् अवलोक्य ध्रुवः अपि पितुः अङ्कम् आरोढुम् अकामयत। ततः सुरुचिः ईर्ष्यया दर्पेण च ध्रुवं तर्जयित्वा अवदत्- “वत्स वृथा एव ते मनोरथः। सपत्न्याः गर्भजातः त्वं कथं मम पुत्रेण समः भवितुम् इच्छसि। राजसिंहासनाय योग्यः मम पुत्रः उत्तमः एव अस्ति।
अनेन अपमानितः बालकः ध्रुवः मातरं स्वदुःखं निवेदितवान्। ततः माता सुनीतिः अवदत् – पुत्र दुःखं मा कुरु। भगवन्तं शरणं गच्छ। स एव प्रसन्नः सन् तव मनोरथं पूरयिष्यति इति।
मातुः आज्ञया ध्रुवः मधुनामकं महावनम् अगच्छत्। सप्तर्षीणां परामर्शात् तत्र स महत् तपः आचरितवान्। तस्य तपसा प्रसन्नः भगवान् विष्णुः ध्रुवस्य पुरतः आविर्भूतः।
भगवतः प्रसादेन ध्रुवः उत्तमोत्तमं पदम् लब्धवान्। पितुः प्रसादं राजपदं च लब्धवान्। मरणाद् अनन्तरं च स आकाशस्य उत्तरदिशायां सप्तर्षिमण्डलस्य समीपे ध्रुवतारारूपेण स्थिरोऽभवत्। तस्य माता च अतिनिर्मला तारका भूत्वा नक्षत्रमण्डले चिरं निवसति। बालकः अपि ध्रुवः ध्रुवसङ्कल्पेन सर्वोच्चपदम् लब्धवान्। सत्यम्, ध्रुवा इच्छाशक्तिः निष्फला न भवति। दृढस्य मनोरथस्य मार्गे निष्फलता नास्ति।
॥सा योग्यता॥
महर्षिः याज्ञवल्क्यः स्वस्य आश्रमे प्रतिदिनं धर्मम् उपदिशति स्म। उपदेशं श्रोतुं बहवः जनाः आगच्छन्ति स्म। मिथिलायाः अधिपतिः महाराजः जनकः अपि आगच्छति स्म।
वस्तुतः प्रतिदिनं नृपस्य जनकस्य आगमनात् पूर्वम् एव बहवः ॠषयः तत्र आगत्य उपविशन्ति स्म। किन्तु याज्ञवल्क्यः तदा एव उपदेशस्य आरम्भं करोति स्म, यदा महीपालः जनकः आगत्य उपविशति स्म।
कदाचित् ऋषयः परस्परं वार्तालापं कृतवन्तः – अस्मासु अविद्यमाना तादृशी का योग्यता जनके महाराजे अस्ति यत् महर्षिः याज्ञवल्क्यः तम् अधिकम् आद्रियते।
ऋषीणां वार्तालापः याज्ञवल्क्येन ज्ञातः। स तेषां बोधनाय उपायम् एकं चिन्तितवान्।
अथ कस्मिंश्चिद् दिने याज्ञवल्क्यः यथापूर्वम् उपदेशं करोति। जनकमहाराजः अन्ये ऋषयः च श्रद्धया शृण्वन्ति। तदा एव कश्चन बटुः धावन् तत्र आगत्य ॠषीन् उक्तवान् – भो भो ऋषयः युष्माकं कुटीराणि ज्वलन्ति इति। तद् श्रुत्वा अपि याज्ञवल्क्यः उपदेशदानं तथा एव अनुवर्तितवान्। तदा सर्वे अपि ॠषयः झटिति उत्थाय कुटीराणि प्रति धावितवन्तः। ज्वलतः कुटीरात् स्वीयानि दण्ड-कमण्डलु-मृगचर्मादीनि वस्तूनि आनीतवन्तः च। इतोऽपि उपदेशः अनुवर्तमानः एव आसीत्। राजा जनकः एकाग्रेण चेतसा उपदेशं शृण्वन् निश्चलम् उपविष्टः आसीत्।
किञ्चित् कालाद् अनन्तरम् अन्यः कश्चन तत्र आगत्य उक्तवान् – प्रभो जनकमहाराज मिथिलानगरे अग्निस्पर्शः अभवत्। महान् अनर्थः सम्भवति इति।
तत् श्रुत्वा अपि जनकमहाराजः किञ्चिद् अपि न विचलितः। स यथापूर्वम् उपदेशश्रवणम् अनुवर्तितवान्। ततः किञ्चित् परम् अपरः आगत्य उक्तवान् – महाराज अधुना तु राजभवनम् अपि ज्वलति। भवतः अन्तःपुरम् अपि ज्वलति इति।
तदापि जनकमहाराजः अविचलितः सन् उपदेशं शृण्वन् एव स्थितः। ततः पश्चात् याज्ञवल्क्यः उपदेशं समाप्य अन्यान् ऋषीन् उक्तवान् – भो ऋषयः कुटीरं ज्वलति इति वार्तां श्रुत्वा विरक्ताः अपि भवन्तः तत्र धावित्वा स्वीयानि वस्तूनि आनीतवन्तः। परन्तु जनकमहाराजः स्वस्य नगरं भवनम् अन्तःपुरं च ज्वलति इति वार्तां श्रुत्वा अपि किञ्चिदपि न विचलितः। भवद्भ्यः तस्य एष एव भेदः अस्ति । अतः एव अहं तस्य आगमनोत्तरम् एव उपदेशस्य आरम्भं करोमि इति।
जनकस्य योग्यतां, स्वस्य च स्थितिं बुद्ध्वा सर्वे ऋषयः लज्जया नतमस्तकाः अभवन्।
॥कुलोचितः व्यवहारः॥
विजयपुरस्य वीरवर्मा नाम राजा आसीत्। कुलोचितेषु व्यवहारेषु महान् तस्य आदरः। कदाचित् सः सभासमाप्तेः अनन्तरं विदूषकेण सह विनोदवार्तालापे मग्नः आसीत्। तदा द्विवर्षीयः राजकुमारः कुमारवर्मा मन्दं पदानि स्थापयन् तत्र आगतवान्। राजा सन्तोषेण पुत्रम् उन्नीय सिंहासने उपवेश्य “वत्स! राजगाम्भीर्यं कथं भवति इति प्रदर्शयतु तावत्। विदूषकः पश्यतु तत् ” इति उक्तवान्। राजकुमारः पितुः आशयं जानन् पादस्य उपरि पादं सम्स्थाप्य रजगाम्भीर्येण सिंहासनस्य उपरि उपविष्टवान्। एतत् दृष्ट्वा महता सन्तोषेण राजा विदूषकम् “दृष्टं खलु भवता। एतस्मिन् एव वयसि एषः राजकुलोचितव्यवहारं सम्यक् जानाति” इति। तदा विदूषकः “प्रभो! भवतः पुत्रः खलु सः। वृक्षस्य स्वरूपम् अङ्कुरावस्थायाम् एव ज्ञायते। सिंहस्य शिशुः सिंहः एव भवति, नान्यः” इति उक्तवान्। विदूषकेण कृतया एतया प्रशम्सया सन्तुष्टः राजा एकं मणिहारं विदूषकाय दत्तवान्। विदूषकः कृतज्ञतापूर्वकं स्वीकृतवान्। राजकुमारः सिंहासनात् अवतीर्य क्रीडने मग्नः जातः। तदा विदूषकः राजकुमारम् उक्तवान् “वत्स! पुनरपि एकवारं राजगाम्भीर्यं प्रदर्शयतु तावत् ” इति। किन्तु एतत् अशृण्वन् इव राजकुमारः क्रीडने मग्नः स्थितवान्। एतत् दृष्टवतः राज्ञः मुखं म्लानं जातम्। तदा विदूषकः हसन् उक्तवान् “प्रभो! पुनरपि भवत् पुत्रेण कुलोचितः एव व्यवहारः प्रदर्शितः। राज्ञः पितुः ऋते अन्यस्य कस्यापि वचनं न पालयाम इत्येतम् अंशं स्वव्यवहारेण प्रदर्शितवान् अस्ति राजकुमारः” इति। विदूषकस्य एतां चतुरोक्तिं शृत्वा नितरां सन्तुष्टः राजा तस्मै अपरम् अमूल्यं हारं प्रदत्तवान्।
(एतां कथां भूतकाले परिवर्त्य पुनः वदन्तु।)
॥त्यजेदेकं कुलस्यार्थे॥
सगरः नाम नृपः अस्ति। तस्य पत्नीद्वयम् अस्ति। किन्तु एकः अपि पुत्रः नास्ति। अतः सगरः दुखितः भवति। एकदा सः वनं गच्छति। तत्र एकः मुनिः अस्ति। सगरः मुनिवरस्य आश्रमं प्रविशति। मुनिवरं नमस्करोति। आश्रमे एव वासं करोति। श्रद्धया मुनिवरस्य सेवां करोति। एतेन मुनिवरः सन्तुष्तः भवति। सगरः स्वदुःखं वदति। मुनिवरः सर्वं शृणोति। मन्दहासं प्रकटयति। अनन्तरं सगराय वरं ददाति। सगरः सन्तोषेण राजधानीं प्रत्यागच्छति। कालः गच्छति। सगरस्य ज्येष्ठपत्नी एकं पुत्रं प्राप्नोति। तस्य नाम असमञ्जः। कनिष्ठपत्नी षष्टिसहस्रं पुत्रान् प्राप्नोति। सर्वे पुत्राः प्रवृद्धाः भवन्ति। राजकुमारः असमञ्जः श्रद्धया विद्याभ्यासं न करोति। वृथा नगरे अटति। दुष्टानां सहवासं करोति। स्वयं दुष्टः भवति। एकदा सः नदीतीरं गच्छति। तत्र सः एकं बालकं पश्यति। विकटहासं कुर्वन् सः बालकसमीपं गच्छति। बालकं गृह्णाति। जले क्षिपति। बालकः रोदनं करोति। असमञ्जः सन्तोषं प्राप्नोति। एवं सः बहून् बालकान् जले क्षिपति। जनाः एतत् पश्यन्ति। ते अतीव दुःखिताः भवन्ति। सर्वे सम्मिलन्ति। राजसमीपं गच्छन्ति। महाराजं नमस्कुर्वन्ति। असमञ्जस्य दुराचारं वदन्ति। एतत् श्रुत्वा महाराजः खिन्नः भवति। सः सचिवान् आह्वयति। सचिवाः आगच्छन्ति। आसने उपविशन्ति। सगरः पुत्रस्य विषयं वदति। “इदानीं किं न्याय्यम्” इति पृच्छति। “राज्यात् प्रजापीडकस्य असमञ्जस्य निष्कासनं वरम् ” इति सचिवाः वदन्ति। राजा सचिवानां निर्णयम् अङ्गीकरोति। पुत्रम् असमञ्जं राज्यात् निष्कासयति। जनाः महाराजस्य न्यायश्रद्धायाः प्रशंसां कुर्वन्ति।
॥जातस्य हि ध्रुवो मृत्युः॥
प्रयोगक्षेत्रे गौतमी नाम कापि नारी वसति स्म। तारुण्ये एव तस्याः पतिः दिवं गतः। तेन च पुत्रः एव तस्याः जीविताधारः। मातृभक्तः सुसंस्कृतः च स पुत्रः नित्यं मातृमोदाय प्रयतते स्म।
किन्तु अकस्मादेव स पुत्रः अपि सर्पेण दष्टः मृतः च। गौतमी पुत्रस्य कलेवरं दृष्ट्वा दुःखस्य परां कोटिं गता। शोकविह्वला सा तत्क्षणमेव बुद्धं प्रति गच्छति, वदति च – भगवन्, मम अभागिन्याः जीविताधारं मम पुत्रमपि मृत्युः अपहरति, दुःखमेतत् सोढुं नाहं प्रभवामि। मम पुत्रस्य प्राणान् एव इच्छामि। भवान् तदर्थं कमपि उपायम् कथयतु।
कारुणिकः बुद्धः वदति – ‘अम्ब, सत्यमेव अपारं खलु तव दुःखम्। तव दुःखशमनाय कश्चिद् उपायः वर्तते’। कः उपायः इति सत्वरं कथयतु भवान् इति हर्षेण पृच्छति सा बुद्धम्। बुद्धः कथयति – अम्ब, मुष्टिमात्रान् तण्डुलान् तस्मात् गृहाद् आनय यस्मिन् गृहे अद्यापि कोऽपि न मृतः इति।
अतीव उत्साहेन सा गृहमेकं गच्छति। गृहस्वामिनीं पृच्छति – ‘भवति, अपि एतत् गृहम् अद्यापि कालेन अस्पृष्टं वर्तते’। गृहस्वामिनी तद् आकर्णयति वदति च – ‘गतसंवत्सरे एव मम पतिः मृतः। कथमपि जीवामि अहम्’। तदा गृहमन्यत् गच्छति सा। तत्र गृहस्वामी कथयति – ‘गतमासे एव मम पत्नी मृता। नाहं स्पृहये जीविताय’ इति।
एवं च गृहात् गृहान्तरं गच्छति, भृशं भ्रमति, परं मृत्युविरहितमेकमपि तथा गृहं सा न पश्यति। अतः तण्डुलान् लब्धुं सा असमर्था। एकत्र गृहे अनाथाः बालकाः, अपरत्र गृहे पुत्रविहीनाः वृद्धाः। अन्यत्र गृहे भ्रातृवियोगेन दुःखिता भगिनी, परत्र भगिनीवियोगेन खिन्नः भ्राता। एवं च प्रियपुत्रस्य जीवितार्थं गौतमी भृशम् अटति, किन्तु मृत्युविरहितं गृहं न लभते सा। निराशा सा सायंकाले बुद्धं प्रत्यागच्छति। भगवान् बुद्धः तां पृच्छति – अम्ब, अपि लब्धा त्वया तण्डुलाः। गौतमी तं प्रणमति, अधोमुखी सा बुद्धं वदति – भगवन्, क्षमस्व माम्। इदानीम् अवगच्छामि अहम् यत् एतत् शाश्वतं सत्यं यत् जातस्य हि ध्रुवो मृत्युः इति। गृहे गृहे मादृशाः जनाः वर्तन्ते, ये प्रियजनानां मरणजं दुःखं सहन्ते। अहमपि अन्येषाम् अनाथानां बालानां माता भविष्यामि। तान् च स्नेहेन पालयिष्यामि।
ततः प्रभृति गौतमी स्वजीवितम् अन्येषां बालानां सुखाय अर्पयति।
॥अतिलोभो न कर्तव्यः॥
अस्ति हेमप्रियः नाम भूपः। स स्वनगरीम् आगतान् मुनिवरान् समुचितेन आतिथ्येन सर्वदा सन्तोषयति स्म। नृपस्य तस्य एकः एव दोषः। धनलुब्धः स धनेन विना सर्वं तृणाय मन्यते स्म। एकदा कश्चिन मुनिः हेमप्रियस्य प्रासादम् आगच्छति। नृपतिः तस्य मुनेः सत्कारं करोति। तुष्टः मुनिः गदति – भूपते, तव आतिथ्येन प्रसन्नः अस्मि। अभीष्टं वरं वृणु इति। लोभाविष्टः नृपतिः भाषते – मुने, सुवर्णं मम अतीव प्रियम्। यद् यद् हस्तेन स्पृशामि तद् तद् अखिलं सुवर्णमयं भवतु इति मे इच्छा। तथास्तु इति मुनिः वदति निष्क्रामति च। मुनेः लब्धेन वरेण हेमप्रियः हर्षोत्फुल्लः भवति। कुतूहलेन स प्रथमं प्रासादस्य वातायनं स्पृशति। अहो आश्चर्यम्। तत्क्षणमेव वातायनं सुवर्णमयं भवति सूर्यस्य रश्मिभिः अधिकं प्रकाशते च। तदनन्तरं स प्रासादस्य द्वारं स्पृशति, नैकानि पात्राणि स्पृशति। स्पर्शमात्रेण तानि सुवर्णमयानि भवन्ति।
अथ स पिपासाकुलः भवति। काचन दासी जलम् आहरति। जलपानाय यावत् स हस्तेन जलपात्रं स्पृशति, तावदेव जलसहितं तत् पात्रं सुवर्णमयं भवति। हन्त। पिपासितः अपि जलपानाय न प्रभवामि। किं करोमि इति चिन्ताकुलः भवति सः। एवं च बुभुक्षितस्य अपि तस्य कस्यापि पदार्थस्य भक्षणं न शक्यं भवति। सः अतीव निराशः खिन्नः च भवति। नृपकन्या जनकं खिन्नं पश्यति पृच्छति च – तात, किं ते दुःखस्य कारणम्। महीपतिः अनवधानेन एव स्वकन्यां स्पृशति, तत्क्षणे एव नृपकन्या सुवर्णमयी भवति। सुवर्णमयीं स्वकन्यां नृपः पश्यति। प्राणप्रियां कन्यां प्राणरहितां पश्यति शोकविह्वलः च भवति। धिक् मां लोभाविष्टम्। सुवर्णस्य लोभेन मम कन्या अपि नष्टा। न एतद् युक्तम्। मम तनयां विना न जीवामि अहम् इति चिन्तयति सः।
अकस्मात् एव स मुनिः प्रासादम् आगच्छति, नृपं च पृच्छति – भोः नृप, अपि तुष्टः त्वम्। नृपः तस्य पादयोः पतति, वदति च – मुनिवर, क्षमस्व माम्। न इच्छामि सुवर्णम् इतः परम्। मम कन्या पुनः जीवतु। मुनिः नृपस्य परिवर्तनं पश्यति वरं प्रत्यावर्तयति च। तेन वरस्य प्रभावः अपि नश्यति। जीवितां कन्यां नृपः पश्यति, अतीव मुदितः च भवति।
॥पाणिनिव्याकरणम्॥
पाणिनिः व्याकरणरचनात् पूर्वं तपः तप्तवान्। तस्य तपः दृष्ट्वा महेश्वरः शिवः प्रसन्नः अभवत्। नृत्यं कुर्वन् नृत्यस्य अवसाने सः चतुर्दश वारं ढक्कां निनादितवान्। अयं ढक्कानादः एव चतुर्दश सूत्राणि। तानि माहेश्वरसूत्राणि इति उच्यन्ते। अक्षरसमाम्नायः वर्णसमाम्नायः चतुर्दशसूत्री इत्यपि तेषाम् नामान्तराणि। तानि सूत्राणि आदाय पाणिनिः व्याकरणं रचितवान्। अत एव व्याकरणस्य अयं माहेश्वरसम्प्रदायः इति प्रसिद्धः।
पाणिनिः अष्टाध्यायीम् रचितवान्। अष्टध्याय्याम् अष्टौ अध्यायाः सन्ति। प्रति अध्यायम् चत्वारः पादाः सन्ति। पादे पादे सूत्राणि सन्ति। अष्टाध्यायी व्याकरणस्य अपूर्वः ग्रन्थः। पाणिनिना धातुपाठः इति अपरः ग्रन्थः रचितः। किञ्च गणपाठः अपि अन्यः ग्रन्थः प्रणीतः। धातुपाठे क्रियावाचकाः धातवः संकलिताः सन्ति। गणपाठे विविधाः शब्दाः गणशः संगृहीताः सन्ति। लिङ्गानुशासनम् इति अपरः ग्रन्थः पाणिनेः। तत्र लघुना उपायेन शब्दानां लिङ्गस्य ज्ञानं कारितम् तेन। अष्टाध्यायीसूत्ररचनायाम् यत् लाघवं सम्पादितं पाणिनिना ततोऽपि अर्धमात्रालाघवमपि न केनापि सम्पादयितुं शक्यम्। अतः एव अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः इति प्रवादः संस्कृतजगति सुप्रसिद्धः।
कात्यायनः अष्टाध्याय्याम् वार्तिकानि रचितवान्। स एव कात्यायनः वररुचिः इति नाम्ना अपि प्रसिद्धः। अपि च वाक्यकारः इति अपि स आदृतः।
ततः परम् पतञ्जलिः पाणिनिसूत्रेषु भाष्यम् कृतवान्। तत् भाष्यम् महाभाष्यम् इति सर्वविदितम् एव। पतञ्जलिः एकस्मिन् दिने यावत् पाठितवान् तावान् भागः आह्निकम् इति कथ्यते। पतञ्जलिः सर्पमुखः आसीत्। अत एव फणी इति अपि स व्याकरणपरम्परायाम् प्रसिद्धः। पाणिनिः कात्यायनः पतञ्जलिः इति व्याकरणस्य त्रयः प्रमुखाः आचार्याः। अत एव पाणिनीयं व्याकरणम् त्रिमुनिव्याकरणम् इति संस्कृतजगति सुप्रसिद्धम्। महाभाष्ये अति सरला भाषा अस्ति। आशयः अति गभीरः अस्ति। लघुवाक्यविन्यासः इति महाभाष्यस्य अपरं वैशिष्ट्यम्। तत्र पूर्वपक्ष-उत्तरपक्षरूपेण संवादात्मकशैल्या विषयः उपस्थापितः अस्ति।
पाणिनिव्याकरणे यत्र कुत्रापि सन्देहः विरोधः वा भवति तत्र पतञ्जलेः मतमेव प्रमाणम् इति सर्वे अङ्गीकुर्वन्ति। अत एव ‘यथोत्तरं मुनीनां प्रामाण्यम्’ इति प्रवादः प्रचलितः।
महाभाष्यानन्तरम् अष्टाध्याय्याः टीकाः लभ्यन्ते। तासु काशिका नाम टीका मुख्या। तस्याः लेखकौ वामनजयादित्यौ। महाभाष्यस्य टीकाः समुपलभ्यन्ते। तासु प्रदीपः नाम टीका मुख्या। तस्याः प्रणेता कैयटः। प्रदीपस्य अपि एका सुप्रसिद्धा समादृता च उद्योतः नाम टीका अस्ति। नागेशभट्टः उद्योतटीकायाः प्रणेता। महात्मा भर्तृहरिः व्याकरणस्य दार्शनिकं ग्रन्थं विरचितवान्। तस्य नाम वाक्यपदीयम्। पाणिनिसूत्राणाम् क्रमस्य परिवर्तनम् कृत्वा अभिनवं ग्रन्थं विरचितवान् भट्टोजिदीक्षितः। तस्य ग्रन्थस्य नाम भवति वैयाकरणसिद्धान्तकौमुदी। अयं ग्रन्थः प्रक्रियाग्रन्थः इतिरूपेण प्रसिद्धः। बालमनोरमा तत्त्वबोधिनी प्रौढमनोरमा लघुशब्देन्दुशेखरः इति काश्चन प्रसिद्धाः टीकाः अस्य गन्थस्य।
॥भारद्वाजस्य निःस्पृहता॥
महर्षिः भारद्वाजः महान् प्राज्ञः इति भारतीये ऋषिकुले प्रसिद्धः। तस्य सहस्रशः शिष्येषु राजकुमाराः धनिकपुत्राः दरिद्राः च अपि आसन्। आश्रमे तु ते सर्वे समानाः। भारद्वाजः सर्वान् अपि प्रीत्या पालयति स्म।
भारद्वाजे वृद्धे जाते ब्रह्मा आगत्य उक्तवान् – महर्षे, भवान् इदानीं शतायुः अस्ति। इदानीं भवतः आयुः समाप्तम्। तथापि भवान् लोकोपकारी। अतः भवति अहं तुष्टः अस्मि। अहम् इदानीम् भवते वरम् एकं ददामि। तेन वरेण भवान् पुनः युवकः भूत्वा शतवर्षाणि जीवेत् इति।
ब्रह्मदेवस्य अनुग्रहं श्रुत्वा आश्रमवासिनः आनन्दिताः। ततः परं देशविदेशेभ्यः अधिकाधिकाः शिष्याः समागताः। वेदघोषः, उपनिषच्चर्चा, शास्त्रवाक्यार्थः इत्यादयः पुनरपि प्रवृत्ताः। एवं शतं वर्षाणि समाप्तानि।
तत्पश्चात् पुनः आगतं ब्रह्माणं तेजस्वी भारद्वाजः वन्दितवान्। ब्रह्मा तं पृष्टवान् – भारद्वाज, मया दत्ते अधिके आयुषि कथं कालः त्वया यापितः इति।
भारद्वाजः ब्रह्मणः वाचम् निशम्य उक्तवान् – देव, मया पूर्वापेक्षया अधिकाधिकम् अध्ययनं अध्यापनं च कृतम्। तदा ब्रह्मा पृष्टवान् – भारद्वाज, अहं पुनः आयुः यौवनं च दास्यामि चेत् शतवर्षप्रर्यन्तं भवान् किं करिष्यति इति। भारद्वाजः उक्तवान् – भगवन्, पुनः अधिकज्ञानलाभाय अध्ययनं करिष्यामि। पुनः अपि अधिकाधिकशिष्यान् अध्यापयिष्यामि इति।
किं विवाहः पत्नीपुत्रादयः वा न अपेक्षिताः तव। किं सुखं न अभिलषति भवान् इति पृष्टवान् ब्रह्मा। भारद्वाजः उक्तवान् – देव, शिष्याः एव मम पुत्राः इव। वेदपरम्परां रक्षामि। सर्वत्र ज्ञानज्योतिः प्रज्वालयामि। इतोपि अधिकः आनन्दः परमं सुखं वा अन्यद् किम् भवितुम् अर्हति इति। तदा ब्रह्मा – महात्मन्, धन्यः भवान्। कीर्तिमान् भवतु इति उक्त्वा प्रतिनिवृत्तः।
अहो भारद्वाजस्य अनुकरणीया निःस्पृहता विद्याप्रेम च।
॥त्रिपीडं तेऽस्तु भूपते॥
धाराधीशो भोजराजः परमोदार इति श्रुत्वा कश्चिद् अकिञ्चनो विप्रो द्रविणाशया भोजसभां प्रातिष्ठत। गच्छन् च पथि महाकविना कालिदासेन दृष्टः पृष्टश्च स स्वमनोरथम् अकथयत्। तदाकर्ण्य कालिदासः तम् अन्वयुङ्क्त, कविर्भवान् आहोस्वित् शास्त्रज्ञः। विप्र आह – नाहं कविर्नापि शास्त्रज्ञः किन्तु याचकोऽस्मि। केवलं धनलाभाय राजसमीपं गन्तुकामोऽस्मि। कालिदासोऽब्रवीत् – भद्र, भोजराजसभायां कविभ्यः शास्त्रज्ञेभ्यश्च सम्भावनाधनं दीयते, न तु याचकेभ्यः। मन्ये तत्र त्वया वराटिकापि न लभ्येत। तन्निशम्य विषण्णो विप्रोऽपृच्छत् – महाकवे, अप्यस्ति कश्चिदुपायो येन मया किञ्चिदपि धनं राज्ञः सकाशाल्लभ्येत। तस्य दीनं वचः श्रुत्वा संजातकरुणः कालिदास आह – अस्त्युपायो यदि मद्वचनम् अनुवर्तसे। तथेति तस्मिन्नुक्तवति कालिदासः तं विप्रं स्वगृहे समुपवेश्य तस्मिन्नहनि चिरेण राजसभाम् अगच्छत्। राजा तमाह – महाकवे कुतोऽयं विलम्बः। कलिदासोऽवदत् – राजन् वाराणसीतः चतुःशास्त्रपारगाः मम गुरुचरणाः समागताः। तेषां सेवारतस्य मम एतावान् विलम्बः। तच्छ्रुत्वा राजावदत् – कालिदास, परमसन्तुष्टोऽस्मि। तेषामिह सन्निधानेन अहमात्मानं सभां च कृतकृत्यतां नेतुमिच्छामि। श्वः एव तेषाम् इह आगमनं भवतु। कालिदासोऽवदत् – राजन्, ते पञ्चषानेव निमेषानत्र स्थास्यन्ति। मितभाषिणस्ते त्रिचतुराणि पदान्येव वदिष्यन्ति। राज्ञा तदन्वमन्यत।
कालिदासो गृहं गत्वा विप्रमाहूय अवदत् – त्वामहं श्वो राजान्तिकं नेष्यामि। तत्र च राजानं दृष्ट्वा त्रिपीडं मास्तु भूपते इत्येतावदेवोक्त्वा विष्टरे तूष्णीमासितव्यं त्वया इति। विप्रः तदङ्गीकृत्य सर्वान् व्यापारान् परित्यज्य कालिदासोक्तानि पदानि महता यत्नेन कण्ठगतानि अकरोत्। अपरेद्युः कालिदासः सविप्रः राजसभामगच्छत्। तं च पुरतः कृत्वा स स्वयं तस्य पृष्ठतो भक्तिमान् शिष्य इव बद्धाञ्जलिः अगच्छत्। सभाद्वारागतं विप्रं सवाद्यघोषम् अन्तः प्रवेश्य सादरं सत्कृत्य च राजा तस्य पादयोः अपतत्। विप्रो राजसभाविभवस्य दर्शनमात्रेण सम्भ्रान्तः कालिदासोक्तानि पदानि कानिचन विस्मृत्य राज्ञः समक्षं – त्रिपीडं तेऽस्तु भूपते इत्युक्त्वा विष्टरे समुपविष्टः। तच्छ्रुत्वा परिम्लानवदनं राजानं कालिदासः- अहो महाराजस्य सुकृतम् इत्याह। तदा विस्मितो राजाऽब्रवीत् – न जानाम्यहं तव गुरुचरणानां वचसोऽभिप्रायम्। त्वं तावत् तं विशदीकुरु। कालिदास आह – महाराज, श्रूयताम् –
सम्पद्गणपीडास्तु धूलिपीडास्तु बालकैः।
विद्वत्सत्कारपीडास्तु त्रिपीडं तेऽस्तु भूपते॥
इत्येवं वदद्भिः मम गुरुचरणैः भवान् सम्पदः, सन्ततेः, कीर्तेश्च भाजनताम् उपनीतः। तदाकर्ण्य चकितचकितो राजा कालिदासगुरुं साक्षाद् भगवत्याः सरस्वत्या अवतारम् अमन्यत। सन्तुष्टश्च तस्मै विप्राय द्रविणराशिम् अयच्छत्। कालिदासोऽपि रहस्यभेदभयेन तं भूसुरं सत्वरं स्वदेशं प्राहिणोत्।
॥अबलोऽपि सबलस्य सहायः॥
अस्ति भागीरथीतीरे किमपि गहनम् आरण्यम्। तस्मिन् कोऽपि सिंहः वसति स्म। पर्वतस्य गुहायां स दिवा स्वपिति स्म। रात्रौ च वने इतस्ततः परिभ्रमति स्म। भ्रमणकाले पशून् भक्षयति स्म। अथ एकदा स प्रभूतम् आहारम् अकरोत्। ततः परम् कस्यचित् वृक्षस्य छायायां सुखेन अस्वपत्। तदा बहवः मूषकाः बिलात् निरगच्छन्। सानन्दं सिंहस्य शरीरे इतस्ततः अनृत्यन्। तेन पीडितः सिंहः प्राबोधत्। तदा सर्वे मूषकाः बिलम् प्राविशन्। तावता तेषु अन्यतमम् मूषकम् सिंहः करतलेन अगृह्णात्। तदा स मूषकः सिंहम् आर्तस्वरेण अवदत्। ‘भो महाराज, त्वं किल पशूनां राजा। प्रसिद्धः तव पराक्रमः। अहं तु क्षुद्रः जन्तुः। मम अपराधं तावत् क्षमस्व। मां मा जहि। मयि दयां कुरु। कदाचिद् अहं तव साहाय्यम् करिष्यामि’ इति। एतद् तस्य आर्तवचनं श्रुत्वा सिंहः तम् अमुञ्चत्।
अथ एकदा कश्चित् व्याधः तस्मिन् वने जालम् अबध्नात्। सः सिंहः तस्मिन् जाले अपतत्। जालात् आत्मनः मोक्षाय स बहु प्रायतत। परन्तु स जालात् बहिः गन्तुम् न अशक्नोत्। जालात् आत्मनः मोक्षाय उच्चैः आक्रोशत्। तस्य आक्रोशम् अशृणोत् सः मूषकः। शीघ्रं सिंहस्य समीपम् अगच्छत् अवदत् च – ‘भो महाराज, कथम् भवान् जाले अपतत्। तथापि अलं भयेन। एषः अहं तव सहायः। अहं त्वाम् अस्मात् जालात् मुञ्चामि’ इति। स मूषकः सत्वरं तद् जालं दन्तैः अकृन्तत् च। ततः तस्मात् जालाद् उदपतत् सिंहः अवदत् च। ‘अहो कृतज्ञता मम मित्रस्य’ इति।
॥नारी अपि दुष्टा चेद् वध्या॥
पुरा किल दशरथः नाम नृपतिः आसीद् अयोध्यायाम्। तस्य चत्वारः पुत्रा अभवन् – रामः लक्ष्मणः भरतः शत्रुघ्नश्चेति। अतीव सुरूपाः सुशीलाश्च ते राजपुत्राः। ते दशरथं स्वक्रीडाभिः आनन्दयन्। तेषु ज्येष्ठः रामचन्द्रः तावत् सर्वेषां प्रियतमः। वेदविद्यायां धनुर्विद्यायां च स प्रवीणः। स प्रीणयति स्म गुरुदेवं वसिष्ठमुनिम् सर्वान् च नागरिकान्। तस्य एतान् अलौकिकान् गुणान् जानन् ब्रह्मनिष्ठः वसिष्ठः अचिन्तयत् – ‘अहो गुणवान् खलु मे रामभद्रः। असंशयं, भगवान् विष्णुः एव खलानां नाशाय अवतीर्णः’ इति।
अथ कदाचिद् विश्वामित्रः नाम मुनिः दशरथं द्रष्टुम् आगच्छत्। राजा तं प्रति उपसमगच्छत् समपूजयत् च। तेन प्रसन्नः स ऋषिः अवदत्। ‘धन्योऽसि दशरथ। सुष्ठु शोभसे अनेन विनयेन। अपि कुशलाः तव कुमाराः’ इति। ततः बद्धाञ्जलिः दशरथः न्यवेदयत्। ‘भो भवताम् आशीर्वादेन समे कुशलाः राजन्ते। अत्रभवताम् आज्ञापालने तत्परः अयं सेवकः’ इति। एतद् वचनं श्रुत्वा विश्वामित्रः अवदत् – ‘अस्माकं यज्ञेषु राक्षसाः बहून् विघ्नान् सृजन्ति सदा। राक्षसेभ्यः यज्ञानां रक्षणम् आवश्यकम्। त्वम् यज्ञस्य रक्षणाय रामं प्रेषय’ इति। प्रेषणाय राजा दशरथः गुरोः वसिष्ठस्य अनुज्ञाम् अलभत। स विश्वामित्रेण सह रामलक्ष्मणयोः गमनम् अन्वमन्यत। रामलक्ष्मणौ मुनिम् अन्वगच्छताम्। एवम् मुनिः स्वाश्रमं च प्रति अगच्छत्।
ततः बहुभिः ब्राह्मणैः सह पुनश्च विश्वामित्रः यज्ञान् आरभत। दिवा रात्रौ च अग्निकुण्डस्य समीपम् उपविश्य वेदान् अपठन् पुरोहिताः। ते हुताशनाय आहुतीः च अर्पयन्। घृतमिश्रिताः आहुतीः भक्षयतः अग्नेः ज्वालाः आकाशम् उदगच्छन्। तान् यज्ञान् दूषयितुम् अभ्यद्रवन् बहवः राक्षसाः। रामलक्ष्मणौ च तान् सुतीक्ष्णैः बाणैः न्यषूदयताम्। दिवा विश्रान्तिवेलायां भगवान् विश्वामित्रः ताभ्यां राजपुत्राभ्यां विविधाः सरसाः कथाः अश्रावयत्। अशिक्षयत् च कदाचित् नूतनान् अस्त्रप्रयोगान्। कस्मिंश्चिद् दिने यज्ञं नाशयितुम् आगच्छत् ताटका नाम राक्षसी। तां दृष्ट्वा रामः मुनिम् अवदत्। “भगवन्, कथम् एतां नारीम् अहं घातयेयम्। ‘क्षत्रियेण न कापि नारी शस्त्रेण प्रहर्तव्या’ इति धर्मानुशासनम्” इति। तदा विश्वामित्रः न्यवेदयत्। ‘अतीव दुष्टा आततायिनी दारुणा च एषा राक्षसी। बहवः जनाः अनया निहताः, उत्सादितः च अयं जनपदः। त्वाम् अन्तरेण न कोऽपि एनां दण्डयितुं शक्तः। तस्मात् निःशङ्कम् एनां निषूदय’ इति। इदं मुनिवचनम् श्रुत्वा रामचन्द्रः अभाषत – ‘भवतां धर्मज्ञानां वचनं प्रमाणम्, न नीतिविरुद्धम्, न वा धर्मविरुद्धम्’ इति। तदा रामः निशितेन बाणेन ताटकायाः प्राणान् अपाहरत्।
ताटकायाः वधस्य वृत्तान्तम् आकर्ण्य रामलक्ष्मणाभ्यां सह योद्धुम् मारीचः सुबाहुश्च ताटकापुत्रौ आगच्छताम्। तयोः महतीं गर्जनां यदा आश्रमस्थाः जनाः अशृण्वन् तदा ते सर्वे भयाक्रान्ताः अभवन्। सहसा एव चापबाणान् आदाय आश्रमात् निष्क्रान्तौ रामलक्ष्मणौ। ततो रामस्य शरैः विद्धौ पराभूतौ च सुबाहुमारीचौ। लक्ष्मणः च तयोः सैन्यम् अग्न्यस्त्रेण भस्मसात् अकरोत्। तयोः राजपुत्रयोः एतादृशम् अलौकिकं पराक्रमं दृष्ट्वा विस्मिताः ते वनवासिनः विश्वामित्रेण सह तौ समपूजयन्। अप्रतिमं खलु रामचन्द्रस्य धनुर्धारित्वम्। न कोऽपि वीरः तस्य पुरतः समरे स्थातुं समर्थः। इत्येषा तस्य कीर्तिः सर्वासु दिशासु प्रासरत्।
~~)~(~~
॥विद्यारण्यः॥
अस्ति तुङ्गभद्रायाः तीरे कश्चन ग्रामः। तत्र मायणः नाम गृहस्थः निवसति। माधवः सायणः भोगनाथः च इति मायणस्य त्रयः पुत्राः। त्रयः अपि तेजस्विनः। ग्रामस्य समीपे कश्चन आश्रमः अस्ति। ते तत्र अध्ययनं कुर्वन्ति। माधवः अध्ययने क्रीडादिषु च अग्रगण्यः। तस्माद् गुरूणां प्रियतमः।
उषःकाले माधवः सहाध्यायिभिः सह स्नानाय नदीम् आगतः। स नद्यां तरति स्म। तदानीं दूरे कस्याश्चित् स्त्रियाः चीत्कारः तेन श्रुतः। किम् इदम् इति चिन्तयन् माधवः परितः दृष्टवान्। पुनः अपि चीत्कारः अभवत्। माधवः सद्यः एव तीरम् आगतवान्। स चीत्कारम् अनुसृत्य धावितवान् च।
तेन राजमार्गे एका शिबिका दृष्टा। शिबिकां परितः यवनसैनिकाः सन्ति। ते शिबिकावाहकान् भीषयन्ति। शिबिकायाम् काचित् तरुणी अस्ति। तां तरुणीम् अपहर्तुम् ते सैनिकाः प्रयत्नं कुर्वन्ति। सा तरुणी भयात् क्रन्दनं करोति।
एतत् सर्वं दृष्ट्वा माधवः अतीव क्रुद्धः। यवनाः भारतदेशे स्त्रियाः अपमाननं कुर्वन्ति किम्। यवनानाम् एतादृशम् औधत्यं किम्। इति आलोचितवान् सः।
माधवः आयुधरहितः आसीत्। सः तत् न गणितवान्। सद्यः एव आक्रमणं कृतवान्। यवनेषु हस्तेन प्रहारान् कृतवान्। स्त्रियाः विमोचनं साधितवान् च।
एतद् आक्रमणं यवनैः अनपेक्षितम् आसीत्। अतः ते क्रुद्धाः अभवन्। ब्राह्मणबालकस्य दर्शनेन तेषां कोपः प्रवृद्धः। ते सर्वे मिलित्वा बालके आक्रमणं कृतवन्तः।
माधवः तु धीरः। तस्य समीपे एकः यवनयोधः आसीत्। तस्य हस्तात् माधवः खड्गम् एकम् आकृष्टवान्। तेन खड्गेन द्वित्रान् मारितवान् च। एतत् दृष्ट्वा इतरे पलायनं कृतवन्तः। तरुणी भयात् कम्पिता आसीत्। माधवः तां तस्याः गृहं प्रापितवान्। तदनन्तरम् आश्रमं प्रति आगतवान्।
युद्धेन माधवस्य शरीरं क्षतविक्षतम् आसीत्। एतद् दृष्ट्वा गुरुः पृष्टवान् – किं सञ्जातम् इति। माधवः सर्वं वृत्तान्तं निवेदितवान्।
ब्राह्मणः युद्धं कर्तुम् अर्हति किम् इति तत्रत्याः केचन तदा गुरुं पृष्टवन्तः। एतद् धर्मविरुद्धं किल इति। माधवः युक्तम् एव आचरितवान् । पूजार्हाणां रक्षणं करणीयम् एव। अतः माधवः श्रेष्ठं धर्मम् आचरितवान् इति तदा गुरुः उक्तवान्।
एषः एव माधवः ततः परं विद्यारण्यः इति प्रसिद्धः। एषः एव विजयनगरं स्थापितवान्।
॥विद्यारण्यः॥
तुङ्गभद्रायाः तीरस्थे कस्मिंश्चिद् ग्रामे मायणः नाम गृहस्थः निवसति स्म। आसन् मायणस्य त्रयः तेजस्विनः पुत्राः – माधवः सायणः भोगनाथः च इति। ग्रामस्य समीपेन कश्चन आश्रमः आसीत्। ते तत्र अध्ययनं कुर्वन्ति स्म। माधवः अध्ययने क्रीडादिषु च अग्रगण्यः। अतो गुरूणां प्रियतमः।
उषःकाले माधवः सहाध्यायिभिः सह स्नानाय नदीम् आगतः। नद्यां तरता तेन दूरात् कस्याश्चित् स्त्रियाः चीत्कारः श्रुतः। माधवः – किम् इदम् इति चिन्तयन् परितः दृष्टवान्। पुनरपि चीत्कारः अभवत्। माधवः तत्क्षणम् एव तीरम् आगत्य चीत्कारम् अनुसरन् धावितवान्।
राजमार्गे एका शिबिका तेन दृष्टा। शिबिकां परितः तेन यवनसैनिकाः परिलक्षिताः। ते शिबिकावाहकान् भीषयन्ति। शिबिकायाम् स्थितां काञ्चित् तरुणीं अपहर्तुम् ते सैनिकाः प्रयतन्ते। सा तरुणी भयात् क्रन्दन्ती आत्मरक्षायै साहाय्यं याचते। एतत् सर्वं पश्यन् माधवः नितराम् क्रुद्धः। यवनाः भारतदेशे स्त्रियाः अपमाननं कुर्वन्ति किम्। यवनानाम् एतादृशम् औधत्यं किम्। इति आलोचितवान् सः। माधवः आयुधरहितः सन्नपि तन्न गणितवान्। सद्यः एव यवनान् आक्रान्तवान्। यवनान् हस्तेन प्रहृत्य स्त्रियम् विमोचितवान्।
अनपेक्षितम् आक्रमणं दष्ट्वा ते यवनाः अतीव कुपिताः। ब्राह्मणबालकस्य दर्शनेन इतोपि कुपिताः ते सर्वे मिलित्वा बालकम् आक्रान्तवन्तः। धीरः माधवः समीपस्थस्य एकस्य यवनयोधस्य हस्तात् खड्गम् एकम् आकृष्य तेन खड्गेन द्वित्रान् यवनान् मारितवान्। एतान् म्रियमाणान् दृष्ट्वा इतरे आत्मरक्षायै पलायितवन्तः। यवनेभ्यः भयात् कम्पितां तरुणीं माधवः तस्याः गृहं प्रापितवान्। तदनन्तरम् आश्रमं प्रत्यागतवान्।
युद्धेन माधवस्य शरीरं क्षतविक्षतम् आसीत्। एतद् दृष्ट्वा गुरुः पृष्टवान् – किं सञ्जातम् इति। माधवः सर्वं वृत्तान्तं निवेदितवान्। तं तथा पश्यन्तः तत्रत्याः केचन गुरुं पृष्टवन्तः – ब्राह्मणः युद्धं कर्तुम् अर्हति किम्। एतद् धर्मविरुद्धं किल इति। तेषां वाचम् श्रुत्वा गुरुः उक्तवान् – माधवः युक्तम् एव आचरितवान्। सर्वैः पूजार्हाः रक्षणीयाः एव। अतः माधवेन श्रेष्ठः एव धर्मः आचरितः इति।
एषः एव माधवः परं विद्यारण्यः इति प्रसिद्धिं गतः। एषः एव विजयनगरं स्थापितवान्।
॥विद्यारण्यः॥
अस्ति (तुङ्गभद्रा) तीरे कश्चन ग्रामः। तत्र मायणः नाम कश्चित् गृहस्थः निवसति स्म। मायणस्य (त्रि) पुत्राः – माधवः सायणः भोगनाथः च इति। त्रयः अपि (तेजस्विन्)। (ग्राम) समीपे कश्चन आश्रमः आसीत्। (a) (तत्) तत्र विद्याभ्यासं कुर्वन्ति स्म। माधवः (अभ्यास) क्रीडादिषु च अग्रगण्यः। (गुरु) प्रियतमः।
(a) उषःकाले माधवः (सहाध्यायिन्) सह स्नानाय (नदी) आगतः। सः नद्यां तरति स्म। (p) तदानीं दूरे (एक) स्त्रियाः चीत्कारः श्रुतः। माधवः – किम् इदम् इति चिन्तयन् परितः दृष्टवान्। पुनः अपि चीत्कारः। (a) माधवः सद्यः एव तीरम् आगतवान्। चीत्कारम् अनुसृत्य धावितवान् च।
(a) राजमार्गे एका शिबिका। (शिबिका) परितः यवनसैनिकाः सन्ति। ते (शिबिकावाहका) भीषयन्ति। (a) (शिबिका) काचित् तरुणी अस्ति। (a) (तत्) तरुणीम् अपहर्तुम् ते सैनिकाः प्रयत्नं कुर्वन्ति। (a) (तत्) तरुणी भयात् क्रन्दनं करोति।
(a) माधवः एतत् (सर्व) (दृष्टवत्)। माधवस्य महान् क्रोधः उत्पन्नः। (a) यवनाः भारतदेशे स्त्रियाः अपमाननं कुर्वन्ति किम्। (यवन) एतादृशम् औधत्यं किम्। इति आलोचितवान् सः।
(a) माधवः (आयुधरहित) आसीत्। (a) सः तत् न गणितवान्। सद्यः एव आक्रमणं कृतवान्। (a) (यवन) उपरि हस्तप्रकारं कृतवान्। (स्त्री) विमोचनं साधितवान् च।
एतत् आक्रमणं यवनानाम् अनिरीक्षितम् आसीत्। (तत्) अपि क्रुद्धाः सञ्जाताः। ब्राह्मणबालकं दृष्ट्वा (तत्) अपि कुपिताः। (a) ते (सर्व) मिलित्वा (बालक) उपरि आक्रमणं कृतवन्तः। माधवः तु धीरः। समीपे (एक) योधः आसीत्। (a) तस्य (हस्त) माधवः खड्गम् आकृष्टवान्। (a) (तत्) खड्गेन द्वित्रान् मारितवान् च। (a) एतत् दृष्ट्वा (इतर) अपि पलायनं कृतवन्तः। (a) तरुणी (भयकम्पित) आसीत्। (a) माधवः तां तस्याः (गृह) प्रापितवान्। तदनन्तरम् (आश्रम) प्रत्यागतवान्।
(युद्ध) माधवस्य शरीरं क्षतविक्षतम् आसीत्। एतत् दृष्ट्वा (गुरु) पृष्टवान् – किं सञ्जातम् इति। (a) माधवः सर्वं वृत्तान्तं निवेदितवान्। (a) तदा तत्रत्याः (किम्)चन गुरुं पृष्टवन्तः – ब्राह्मणः युद्धं कर्तुम् अर्हति किम्। एतत् धर्मविरुद्धं किल इति। तदा गुरुः (वच्+क्तवतु) – (a) माधवः युक्तम् एव (आचरितवत्)। पूजार्हाणां रक्षणं करणीयम् एव। (a) अतः माधवः श्रेष्ठं (धर्म) आचरितवान् इति।
(एतत्) एव माधवः ततः परं विद्यारण्यः इति प्रसिद्धः। (a) एषः एव विजयनगरं स्थापितवान्। (a-active, p-passive)
>):o:(<