Karnabharam
कर्णभारम्
प्रस्तावना
महाभारतयुद्धकाले शक्रः अर्थात् इन्द्रः ब्राह्मणवेशेन आगत्य कर्णं भिक्षां याचते। दानवीरः कर्णः शक्राय बहुविधं धनं दातुम् उद्यतः। परन्तु शक्रः तत् सर्वम् त्यक्त्वा कर्णस्य कवचकुण्डलानि एव भिक्षारूपेण आददाति। स एव वृत्तान्तः अत्र नाटकरूपेण प्रस्तूयते। प्रायः सार्धद्विसहस्रवर्षपूर्वकालीनः चाणक्याद् अपि पूर्ववर्ती प्रथितः नाटककारः भासः। कालिदासोऽपि भासस्य नाम सश्रद्धं गृह्णाति। अयं भासः कर्णस्य कवचकुण्डलदानस्य ताम् घटनाम् अवलम्ब्य कर्णभारम् इति नाटकं रचितवान्। द्रष्टॄणां सुबोधाय तदेव नाटकम् भाषायाम् ईषत् परिवर्तनं विधाय अत्र प्रस्तूयते।
(नान्द्यन्ते सूत्रधारः)
सूत्रधारः –
नर–मृगपति–वर्ष्मालोकन–भ्रान्त–नारी–
नर–दनुज–सुपर्व–व्रात–पाताल–लोकः।
करज–कुलिश–पाली–भिन्न–दैत्येन्द्र–वक्षाः
सुर–रिपु–बलहन्ता श्रीधरोऽस्तु श्रिये वः॥१॥
एवम् आर्यमिश्रान् विज्ञापयामि। (परिक्रम्य, कर्णं दत्त्वा।) अये किं न खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते। अङ्ग! पश्यामि।
भो भो! निवेद्यतां निवेद्यतां महाराजाय अङ्गेश्वराय।
सूत्रधारः – भवतु। विज्ञातम्। संग्रामे तुमुले जाते, कर्णाय कलिताञ्जलिः निवेदयति सम्भ्रान्तो भृत्यो दुर्योधनाज्ञया॥२॥
(निष्क्रान्तः)
[प्रस्तावना]
(ततः प्रविशति भटः।)
भटः– भो भो! निवेद्यतां निवेद्यतां महाराजाङ्गेश्वराय, युद्धकाल उपस्थित इति।
करि–तुरग–रथस्थैः पार्थकेतोः पुरस्तात् मुदित–नृपति–सिंहैः सिंहनादः कृतोऽद्य।त्वरितम् अरिनिनादैः दुस्सहालोकवीरः समरम् अधिगतार्थः प्रस्थितो नागकेतुः॥३॥
(परिक्रम्य विलोक्य) अये अङ्गमहाराजः समर–परिच्छद–परिवृतः शल्यराजेन सह स्वभवनात् निष्क्रम्य इत एव अभिवर्तते। भोः किं नु खलु युद्धोत्सवप्रमुखस्य दृष्टपराक्रमस्य अभूतपूर्वो हृदयपरितापः।
एष हि –
अत्युग्र–दीप्ति–विशदः, समरे अग्रगण्यः, शौर्ये च सम्प्रति सशोकम् उपैति धीमान्। प्राप्ते निदाघसमये घनराशिरुद्धः सूर्यः स्वभावरुचिमान् इव भाति कर्णः॥४॥
यावद् अपसर्पामि।
(निष्क्रान्तः)
(ततः प्रविशति यथानिर्दिष्टः कर्णः शल्यश्च। )
कर्णः – मा तावन्मम शरमार्गलक्षभूताः सम्प्राप्ताः क्षितिपतयः सजीवशेषाः। कर्तव्यं रणशिरसि प्रियं कुरूणाम्। द्रष्टव्यो यदि स भवेद् धनञ्जयो मे॥५॥
शल्यराज! यत्र असौ अर्जुनः तत्रैव चोद्यतां मम रथः।
शल्यः – बाढम्। (चोदयति)
कर्णः – अहो नु खलु।
अन्योन्य–शस्त्र–विनिपातेन निकृत्त–गात्र–योधाश्व–वारण–रथेषु महाहवेषु क्रुद्धान्तक–प्रतिम–विक्रमिणः ममापि वैधुर्यम् आपतति चेतसि युद्धकाले॥६॥
भोः कष्टम्।
पूर्वं कुन्त्यां समुत्पन्नः राधेय इति विश्रुतः। युधिष्ठिरादयः ते मे यवीयांसः तु पाण्डवाः॥७॥ अयं स कालः क्रम–लब्धशोभनः गुणप्रकर्षः दिवसः अयमागतः। निरर्थम् अस्त्रं च मया हि शिक्षितम्। पुनश्च मातुः वचनेन वारितः॥८॥
भोः शल्यराज ! श्रूयतां मम अस्त्रस्य वृत्तान्तः।
शल्यः – ममापि अस्ति कौतूहलम् एनं वृत्तान्तं श्रोतुम्।
कर्णः – पूर्वम् एव अहं जामदग्न्यस्य सकाशं गतवान् अस्मि।
शल्यः – ततस्ततः
कर्णः – ततः
विद्युल्लता–कपिल–तुङ्ग–जटाकलापम् उद्यत्प्रभा–वलयिनं परशुं दधानम् क्षत्रान्तकं मुनिवरं भृगुवंशकेतुं गत्वा प्रणम्य निकटे निभृतः स्थितोऽस्मि॥९॥
शल्यः – ततस्ततः।
कर्णः – ततो जामदग्न्येन मम आशीर्वचनं दत्त्वा पृष्टोऽस्मि। को भवान् , किमर्थम् इह आगत इति।
शल्यः – ततस्ततः।
कर्णः – ततः, भगवन्! अखिलानि अस्त्राणि अपशिक्षितुम् इच्छामि, इति उक्तवान् अस्मि।
शल्यः – ततस्ततः।
कर्णः – तत उक्तोऽहं भगवता ब्राह्मणेषु उपदेशं करिष्यामि, न क्षत्रियाणामिति।
शल्यः – अस्ति खलु भगवतः क्षत्रियवंश्यैः पूर्ववैरम्। ततस्ततः।
कर्णः – ततः, नाहं क्षत्रिय इति अस्त्रोपदेशं ग्रहीतुम् आरब्धं मया।
शल्यः – ततस्ततः।
कर्णः – ततः कतिपयकालातिक्रमे कदाचित् फलमूल–समित्कुश–कुसुमाहरणाय गतवता गुरुणा सह अनुगतोऽस्मि।
शल्यः – ततस्ततः।
कर्णः – ततः स गुरुः वनभ्रमणपरिश्रमाद् मदङ्के निद्रावशम् उपगतः।
शल्यः – ततस्ततः।
कर्णः – ततः।
कृत्ते वज्रमुखेन नाम कृमिणा दैवाद् मम ऊरुद्वये। गुरोः निद्राच्छेदभयाद् असह्यत धैर्यात् तदा वेदना। उत्थाय क्षतजाप्लुतः स सहसा रोषानलोद्दीपितः, बुद्ध्वा, मां च शशाप। कालविफलानि अस्त्राणि ते सन्तु इति॥१०॥
शल्यः – अहो कष्टम् अभिहितं तत्रभवता।
कर्णः – परीक्षामहे तावद् अस्त्रस्य वृत्तान्तम्। (तथा कृत्वा) एतानि अस्त्राणि निर्वीर्याणीव लक्ष्यन्ते। अपि च –
इमे हि दैन्येन निमीलितेक्षणा, मुहुः स्खलन्तः विवशाः तुरङ्गमाः। गजाश्च सप्तच्छद–दान–गन्धिनः निवेदयन्ति इव रणे निवर्तनम्॥११॥
कर्णः – शङ्खदुन्दुभयश्च निःशब्दाः।
शल्यः – भोः कष्टं किं नु खलु इदम्।
कर्णः – शल्यराज! अलम् अलं विषादेन।
हतोऽपि लभते स्वर्गम् , जित्वा तु लभते यशः। उभे बहुमते लोके, नास्ति निष्फलता रणे॥१२॥
कर्णः – अपि च
इमे हि युद्धेषु अनिवर्तिताशाः हया, सुपर्णेन समानवेगाः। श्रीमत्सु काम्बोजकुलेषु जाताः, रक्षन्तु माम् , यद्यपि रक्षितव्यम्॥१३॥
कर्णः – अक्षयोऽस्तु गोब्राह्मणानाम्। अक्षयोऽस्तु पतिव्रतानाम्। अक्षयोऽस्तु रणेषु अपराङ्मुखानां योधपुरुषाणाम्। अक्षयोऽस्तु मम प्राप्तकालस्य। एष भोः प्रसन्नोऽस्मि।
समरमुखम् असह्यं पाण्डवानां प्रविश्य प्रथितगुणगणाढ्यं धर्मराजं च बद्ध्वा। मम शरवरवेगैः अर्जुनं पातयित्वा, वनम् इव हतसिंहं सुप्रवेशं करोमि॥१४॥
शल्यराज! यावद्रथम् आरोहावः।
शल्यः – बाढम्।
(उभौ रथारोहणं नाटयतः)
कर्णः – शल्यराज! यत्र असौ अर्जुनः तत्रैव चोद्यतां मम रथः।
(नेपथ्ये)
भो कण्ण ! महत्तरं भिक्खं याचेमि। [भोः कर्ण ! महत्तरां भिक्षां याचे।]
कर्णः – (आकर्ण्य) अये वीर्यवान् शब्दः।
श्रीमान् एष न केवलं द्विजवरः। यस्मात् प्रभावः महान्। आकर्ण्य स्वरम् अस्य धीरनिनदं चित्रार्पिताङ्गा इव उत्कर्ण–स्तिमिताञ्चिताक्ष–वलित–ग्रीवार्पिताग्राननाः तिष्ठन्ति अस्ववशाङ्गयष्टि सहसा यान्तो मम एते हयाः॥१५॥
आहूयतां स विप्रः। न न। अहम् आवाह्वयामि। भगवन् इतः इतः।
(ततः प्रविशति ब्राह्मणरूपेण शक्रः)
शक्रः – भो मेघाः, सूर्येण एव निवर्त्य गच्छन्तु भवन्तः। (कर्णमुपगम्य)
भोः कर्ण! महत्तरां भिक्षां याचे। [भो कण्ण! महत्तरं भिक्खं याचेमि।]
कर्णः – दृढं प्रीतोऽस्मि भगवन्!
यातः कृतार्थगणनाम् अहम् अद्य लोके। राजेन्द्रमौलिमणिरञ्जितपादपद्मः। विप्रेन्द्रपादरजसा तु पवित्रमौलिः, कर्णः, भवन्तम् अहम् एष नमस्करोमि॥१६॥
शक्रः – (आत्मगतम्) किं नु खलु मया वक्तव्यं, यदि दीर्घायुर्भव इति वक्ष्ये, दीर्घायुः भविष्यति। यदि न वक्ष्ये मूढ इति, मां परिभवति। तस्माद् उभयं परिहृत्य किं नु खलु वक्ष्यामि। भवतु दृष्टम्। (प्रकाशम्) भो कर्ण! सूर्य इव, चन्द्र इव, हिमवान् इव, सागर इव तिष्ठतु ते यशः। [भो कण्ण! सुय्ये विअ, चन्दे विअ, हिमवन्ते विअ, सागले विअ, चिट्ठदु दे जसो।]
कर्णः – भगवन्! किं न वक्तव्यं ‘दीर्घायुर्भव‘ इति। अथवा एतदेव शोभनम्। कुतः –
धर्मो हि यत्नैः पुरुषेण साध्यः। भुजङ्गजिह्वाचपला नृपश्रियः। तस्मात् प्रजापालनमात्रबुद्ध्या हतेषु देहेषु गुणा धरन्ते॥१७॥
भगवन् किम् इच्छसि। किम् अहं ददामि।
शक्रः – महत्तरां भिक्षां याचे। [महत्तरं भिक्खं याचेमि।]
कर्णः – महत्तरां भिक्षां भवते प्रदास्ये। श्रूयन्तां मद्विभवाः।
गुणवद् मृतकल्पक्षीरधाराभिवर्षि, द्विजवर, रुचितं ते तृप्तवत्सानुयात्रम् , तरुणम् अधिकम् अर्थिप्रार्थनीयं पवित्रं , विहितकनकशृङ्गं गोसहस्रं ददामि॥१८॥
शक्रः – गोसहस्रमिति। मुहूर्तकं क्षीरं पिबामि। नेच्छामि कर्ण! नेच्छामि। [गोसहस्सं त्ति। मुहुत्तअं खिरं पिबामि। णेच्छामि कण्ण! णेच्छामि।]
कर्णः – किं नेच्छसि भवान्। इदमपि श्रूयताम्।
रवि–तुरग–समानं साधनं राजलक्ष्म्या सकल–नृपति–मान्यं मान्य–काम्बोज–जातम्। सुगुणम् , अनिलवेगं, युद्धदृष्टापदानं, सपदि बहुसहस्रं वाजिनां ते ददामि॥१९॥
शक्रः – अश्व इति। मुहूर्तकम् आलुभामि। नेच्छामि कर्ण, नेच्छामि। [अस्स त्ति। मुहूत्तअं आलुहामि। णेच्छामि कण्ण! णेच्छामि।]
कर्णः – किं नेच्छति भगवान्। अन्यदपि श्रूयताम्!
मदसरितकपोलं षट्पदैः सेव्यमानं गिरिवर–निचयाभं मेघगम्भीरघोषम् सित–नख–दशनानां वारणानामनेकं रिपु–समर–विमर्दं वृन्दम् एतद् ददामि॥२०॥
शक्रः – गज इति। मुहूर्तकम् आलुभामि। नेच्छामि कर्ण, नेच्छामि। [गअ त्ति। मुहुत्तअं आलुहामि णेच्छामि कण्ण! णेच्छामि।]
कर्णः – किं नेच्छति भवान्। अन्यदपि श्रूयताम्। अपर्याप्तं कनकं ददामि।
शक्रः – गृहीत्वा गच्छामि।(किञ्चिद् गत्वा) नेच्छामि कर्ण! नेच्छामि। [गह्णिअ गच्छामि। (किञ्चिद् गत्वा) णेच्छामि कण्ण! णेच्छामि।]
कर्णः – तेन हि जित्वा पृथिवीं ददामि।
शक्रः – पृथिव्या किं करिष्यामि। [पुहुवीए किं करिस्सम्।]
कर्णः – तेन हि अग्निष्टोम–फलं ददामि।
शक्रः – अग्निष्टोमफलेन किं कार्यम्। [अग्निट्ठोमफलेन किं कय्यं। ]
कर्णः – तेण हि मच्छिरो ददामि। [तेन हि मच्छिरो ददामि।]
शक्रः – अविहा अविहा। [अविहा अविहा!]
कर्णः – न भेतव्यं न भेतव्यम्। प्रसीदतु भवान्। अन्यदपि श्रूयताम्।
अङ्गैः सहैव जनितं मम देहरक्षा देवासुरैः अपि न भेद्यम् इदं सहस्रैः। देयं तथापि कवचं सहकुण्डलाभ्यां प्रीत्या मया भगवते, रुचितं यदि स्यात् ॥२१॥
शक्रः – (सहर्षम्) ददातु, ददातु। [देदु, देदु।]
कर्णः – (आत्मगतम्) एष एव अस्य कामः। किं नु खलु अनेककपटबुद्धेः कृष्णस्य उपायः। सोऽपि भवतु। धिग् अयुक्तम् अनुशोचितम्। नास्ति संशयः (प्रकाशम्) गृह्यताम्।
शल्यः – अङ्गराज! न दातव्यं न दातव्यम्।
कर्णः – शल्यराज! अलम् अलं वारयितुम्। पश्य–
शिक्षा क्षयं गच्छति कालपर्ययात्। सुबद्धमूला निपतन्ति पादपाः। जलं जलस्थानगतं च शुष्यति। हुतं च दत्तं च तथैव तिष्ठति॥२२॥
तस्माद् गृह्यताम् (निकृत्य ददाति।)
शक्रः – (गृहीत्वा आत्मगतम्) हन्त गृहीते एते। पूर्वम् एव अर्जुनविजयार्थं सर्वदेवैः यत् समर्थितं तदिदानीं मया अनुष्ठितम्। तस्माद् अहम् अपि ऐरावतम् आरुह्य अर्जुनकर्णयोः द्वन्द्वयुद्धं पश्यामि।
(निष्क्रान्तः।)
शल्यः – भो अङ्गराज ! वञ्चितः खलु भवान्।
कर्णः – केन? केन वञ्चितः अहम्।
शल्यः – शक्रेण।
कर्णः – न खलु। शक्रः खलु मया वञ्चितः। कुतः।
अनेकयज्ञाहुतितर्पितो द्विजैः, किरीटवान् दानवसङ्घमर्दनः, सुरद्विप–स्फालन–कर्कशाङ्गुलिः मया कृतार्थः खलु पाकशासनः॥२३॥
(प्रविश्य ब्राह्मणरूपेण)
देवदूतः – भोः कर्ण! कवचकुण्डलग्रहणाद् जनितपश्चात्तापेन पुरन्दरेण अनुगृहीतोऽसि। पाण्डवेषु एकपुरुषवधार्थम् अमोघम् अस्त्रं विमला नाम शक्तिरियं प्रतिगृह्यताम्।
कर्णः – धिग्, दत्तस्य न प्रतिगृह्णामि।
देवदूतः – ननु ब्राह्मणवचनाद् गृह्यताम्।
कर्णः – ब्राह्मणवचनमिति। न मया अतिक्रान्तपूर्वम्। कदा लभेय।
देवदूतः – यदा स्मरसि तदा लभस्व।
कर्णः – बाढम्। अनुगृहीतोऽस्मि। प्रतिनिवर्ततां भवान्।
देवदूतः – बाढम्। (निष्कान्तः)
कर्णः – शल्यराज! यावद् रथम् आरोहावः।
शल्यः – बाढम्। (रथारोहणं नाटयतः।)
कर्णः – अये! शब्द इव श्रूयते। किं नु खलु इदम्
शङ्खध्वनिः प्रलय–सागर–घोषतुल्यः, कृष्णस्य वा न तु, भवेत् स तु फाल्गुनस्य। नूनं युधिष्ठिर–पराजयकोपितात्मा पार्थः करिष्यति यथाबलम् अद्य युद्धम्॥२४॥
शल्यराज ! यत्र असौ अर्जुनः तत्रैव चोद्यतां मम रथः।
शल्यः – बाढम्!
(भरतवाक्यम्)
सर्वत्र सम्पदः सन्तु नश्यन्तु विपदः सदा।
राजा राजगुणोपेतो भूमिमेकः प्रशास्तु नः॥२५॥
(निष्क्रान्तौ)
॥इति कर्णभारं समाप्तम्॥